भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 71, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 71

उपोद्घातः ५७

शक्यते। ‘तिब्बतीयोपकथात आत्रेयो जीवकगुरुरवगम्यते' इति वदतां विदुषामपि नाम किमप्यवलम्बनान्तरं बलवदिति विमर्शस्थानमेतत्॥

किञ्च-आत्रेयपुनर्वसुनाऽग्निवेशस्योपदेशनस्थानं “जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्याम्” इति निर्देशेन काम्पिल्यप्रदेश इति स्पष्टमेव। यदि नाम बुद्धसामयिकजीवकीयेतिवृत्ते तिब्बतीयकथाजातकादिषु तक्षशिलायामात्रेयादध्ययनोल्लेखेन तक्षशिलाध्यापकं आत्रेयोऽग्निवेशस्योपदेशकः स्यात्तदा तक्षशिलाया उल्लेखोऽग्निवेशसंहितायां कथं न दृश्येत। तक्षशिलाप्रदेशे भूगर्भनिगतप्राचीननगरत्रये दक्षिणभागस्थो विर्माउण्डसञ्ज्ञको भागः पूर्वकालिकः B. C. १०००-१२०० समयात्प्रसिद्ध आसीदिति ऐतिहासिका वदन्ति। ^१पाणिनिनाऽपि तक्षशिलायाः सूत्रे निर्देशः क्रियते। बुद्धसमयादपि पूर्वसमये तक्षशिलायां विद्याप्रचार आसीदिति ऐतिहासिकैरप्युपवर्ण्यते। मागधस्य जीवकस्य काशीराजब्रह्मदत्तस्यापि तक्षशिलायां वैद्यशास्त्राध्ययनायोपगमनोल्लेखेन तदात्वे तक्षशिला विद्यान्तराणामिव आयुर्वेदविद्याया अपि प्रधानं विद्यापीठमासीदिति महावग्गजातकादिलेखेभ्योऽपि व्यक्तमेव। पुनर्वसोरात्रेयस्य तदन्तेवासिनोऽग्निवेशस्य च तत्सामयिकत्वे आत्रेयसंहिताकर्त्रा अग्निवेशसहिताकर्त्रा वा तादृश्याः प्रसिद्धविद्यापीठरूपायास्तक्षशिलाया नामोपादानं किमिति न क्रियते। तस्यामग्निवेश-संहितायामात्रेयपुनर्वसोरुपदेशस्थानानि यावन्ति कीर्तितानि तत्र नैकत्रापि तक्षशिलाऽनुस्मर्यते। एवंरूपां तक्षशिलामनुपादाय काम्पिल्यादावुपदेशनस्योल्लेखेन तक्षशिलायास्तत्समये प्रसिद्धिरेव नासीत्। तस्या विद्यापीठभावसमयात् पूर्वमेव ^२काम्पिल्ये आत्रेयपुनर्वसुनाऽग्निवेशस्योपदेशनं प्रतीयते। काम्पिल्य^३देशो हि वेदसमयात् प्रभृति प्रसिद्धः। शुक्लयजुर्वेदतैत्तिरीय-मैत्रायणीयकाठकसंहितासु च काम्पिल्यशब्दो लभ्यते। पाञ्चा^४लशब्दोऽपि वेदेषु ब्राह्मणेषु उपनिषत्स्वपि दृश्यते। नैव तक्षशिलाया वेदेषु ब्राह्मणेषु उपनिषत्सु वा प्राचीनग्रन्थेषु उल्लेखोऽस्ति। महा^५भारतेऽप्युपक्रमोपसंहारभागयोरेव, रामाय^६णेऽप्युत्तरकाण्डे एव तदुल्लेखोपलम्भात्तक्षशिलायाः पश्चाद्भावः स्पष्टमवगम्यते। न केवलमात्रेयपुनर्वसुनाऽग्निवेशेन, नानादेशानुपवर्णतया मारीचकाश्यपेन तदन्तेवासिना वृद्धजीवकेनापि तक्षशिला नोल्लिखिता। न वा सुश्रुतसंहितायां भेडसंहितायां वा तन्नामोपलभ्यते। बुद्धसामयिकजीवकाचार्यः केवलमात्रेयशब्देन तक्षशिलागतत्वेन च निर्दिश्यते। चरकीयात्रेयाचार्यो हि आत्रेयपुनर्वसुशब्देन काम्पिल्यस्थानीयत्वेन निर्दिश्यते इति स्पष्टो विशेषः। एकस्यैवात्रेयस्यान्तेवासिनौ एतौ जीवकाग्निवेशौ यद्यभविष्यतां तदा जीवककथायां तादृशप्रधानसतीर्थ्यस्याग्निवेशस्य नाम, अग्निवेशलेखे वा तादृशविशिष्टबुद्धिमत्तया प्रसिद्धस्य जीवकस्य नाम किमिति न निरदेक्ष्यत। अग्निवेशस्याचार्य आत्रेयपुनर्वसुः कायचिकित्सायामेवाचार्योऽवगम्यते। येनाग्निवेशादिभिरपि तद्विषय एव संहिता निरमायि। जीवकाचार्य आत्रेयः कायचिकित्सायां, ततोऽपि विशेषतः शल्यप्रस्थाने परिनिष्ठित आसीदिति अन्तेवासिनो जीवकस्य भैषज्यप्रक्रियातः स्पष्टीभवतीति विद्याप्रस्थानविशेषोऽप्यनयोरात्रेययोर्व्यक्तिभेदं साधयति। एवं दर्शनेन तक्षशिलाभ्युत्थानात् पूर्वतनोऽयं काश्यपात्रेयाग्निवेशभेडदिवोदासादीनामायुर्वेदविद्योपदेशनग्रहणधारणसमय इति कथं वक्तुं न शक्यते। एवं पाणिनीये कच्छादिगणे (४. २. १३३), तक्षशिलादिगणे (४. ३.९३) दृश्यमानस्य


१. सिन्धुतक्षशिलादिभ्योऽणञौ (पाणिनिसूत्रम् ४-३-९३)।
२. पार्श्वे हिमवतः शुभे (पृ. ५), वने चैत्ररथे रम्ये (पृ. १२९), जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्यां ... । शिष्यमग्निवेशमब्रवीत् (पृ. २३६) पञ्चगङ्गे पुनर्वसुम् (पृ. ४२४), कैलासे नन्दनोपमे (पृ. ४८०) इत्यादि।
३. अम्बे अम्बिके ........ सुभद्रिकां काम्पीलवासिनीम्-(यजुर्वेदे २३. १८)।
४. पञ्चालानां समितिमियाय (शतपथब्राह्मणे)।
५. उपलभ्यमानमहाभारते तक्षशिलाशब्द आदिपर्वणि तृतीयाध्याये द्विवारं, स्वर्गारोहणपर्वणि ५ अध्याये च दृश्यते-‘गुरवे प्राङ् नमस्कृत्य” (१/५५ अध्यायतः) इत्यारभ्य महाभारतस्योपक्रमः, ततः पूर्वतनो भागस्तु सूतेन पश्चात् पूरित इति महाभारतविमर्शं (Bhandarkar O. R. I. vol XVI part III, IV) मया निर्दिष्टमस्ति।
६. रामायणे उत्तरकाण्डे ११४ अध्याये २०१ श्लोके॥