काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 74, कुल 942 में से
संदर्भ में पढ़ें६० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
परं चरकशब्दस्य वैद्यपर्यायत्वे अभिधानग्रन्थेष्वपि वैद्यपर्यायश्रेण्यां तदुल्लेखेन, सुश्रुतादिष्वाचार्य्यान्तरेष्वपि तत्प्रयोगेण च भवितव्यं, न चैवमस्ति, अपि तु चरकसंहिताप्रणेतरि व्यक्तिविशेषे एव रूढोऽयं शब्दस्तमेव निसर्गत उपस्थापयति। तेन क्वचन व्यक्त्यन्तरे दृश्यमानोऽयं चरकशब्दः कलिभीम इत्यादिवदौपचारिक इति वक्तव्यमेव। आयुर्वेदीयविषयाणा-मथर्ववेदेविशेषोपलम्भेन कश्यपसुश्रुतसंहितयोरिव एतदीयसंहितायामप्यथर्ववेदस्यास्मिन् विषये प्राधान्यंकीर्तनं चरकशाखीयत्वेऽपि चरकाचार्य्यस्य न व्याहन्यते। तेन गोत्रनाम्नाऽऽत्रेयस्येव शाखानीम्नाऽप्यस्य चरक इति प्रसिद्धिरपि सम्भवति। किंवा तद्-व्यक्तेश्चरक इति रूढमेव संकेतनाम स्यात्। अथवा पश्चिमविभागे पूर्वं नागजातीनामितिवृत्तोपलम्भेन तज्जातीयो विद्वान् सन् भावप्रकाशोक्तरीत्या शेषावतारश्चरकः कीर्तितः किल ? । बृहज्जातकव्याख्याकृतो रुद्रस्य लेखानुसारेण वैद्यविद्याया विशेषविद्वानसौ लोकोपकारदृशा भिक्षुवृत्त्या ग्रामे ग्रामे चरित्वाँ वैद्यविद्याया उपदेशेन भैषज्येन च लोकोपकारं विदधान आसीत्। अतः किल सञ्चरणशीलभिक्षुरूपार्थमादाय चरकनाम्ना प्रसिद्धः स्यादित्यपि बहुशः सम्भवति। अस्तु नाम यथातथाऽपि अस्य चरकनाम्ना ख्यातिः, सोऽयं चरकाचार्य आत्रेयसंहितोपदेशमुपादायाग्निवेशनिबद्धस्य तन्त्रस्य प्रतिसंस्कृत्य प्रकाशनेन आयुर्वेदीयभैषज्य-विद्यायामतिनिष्णातातया पूर्वसमयादेवाचार्यकुक्षौ संमानित आसीदित्यवगम्यते, येन वाग्भटादयोऽपि चरकाचार्य विशेषतः कीर्तयन्ति। जयन्तभट्टोऽपि न्यायमञ्जर्यां-प्रत्यक्षीकृतदेशकालपुरुषादशाभेदानुसारिसमस्तव्यरस्तपदार्थशक्तिनिश्चयाश्चरकादयः'' इति सबहुमानमेनमाचार्यमनुस्मरति ॥
एतदीयसमयविचारे “कठचरकाल्लुक् (४-३-१०९) इति पाणिनिना चरकशब्दस्य निर्देशात्चरकाचार्यस्य पाणिनेरपि प्राक्तनत्वमिति कैश्चन विद्वद्वरैः प्रतिपादितम्। परमस्मिन् सूत्रे निर्दिष्टश्चरकः कठसाहचर्य्याच्चरणव्यूहोक्तिसंवादाच्च संहिताद्रष्टा, किंवा तत्सांप्रदायिकोऽन्य एव प्राचीनौ महर्षिरिति निश्चीयते। चरकशाखासंहिताऽप्यद्यत्वे मुद्रितोपलभ्यते। “माणवकचरकाभ्यां खञ्” इति सूत्रान्तरे (५-१-१४) उपात्तश्चरकशब्दोऽपि ञित्वस्य स्वरार्थतया निर्देशेन स्वरस्य विशेषतो वैदिक्यां प्रक्रियायामुपयोगाच्च लौकिकैकचरकव्यक्तिपरत्वकल्पनापेक्षया चरकशाखीयपर एव कल्पयितुमुचितः प्रतिभाति॥
याज्ञवल्क्य¹स्मृतिव्याख्यायां विश्वरूपाचार्येण “तथा च चरकाःपठन्ति” इत्युद्धृते वाक्ये अश्विनोर्भैषज्योपदेशदर्शनेन आपाततो वैद्यविषयत्वप्रतिभासेऽपि मधुन आपदि ब्रह्मचर्यप्रतिघातकत्वे साधकतया निर्दिष्टत्वेन एतत्सम्श्रेण्यां वाजसनेयिनामपि वचनोद्धारेण तत्साहचर्य्याच्च चरका इति चरकशाखीया एव निर्दिष्टा इति स्पष्टमवबुध्यते। काशिकावृत्तेर्लेखानुसारेण वैशम्पा²यनान्तेवासिनश्चरकत्वेन व्यवहारोऽपि चरकशाखाप्रवर्तकत्वेनैव दृश्यते॥
शुक्लयजुःसंहितायां ३० अध्याये पुरुषमेधप्रकरणे १८ मन्त्रे 'दुष्कृताय चरकाचार्यम्' इति मन्त्रप्रतीको दृश्यते। तस्य व्याख्याने हिन्दीभाषाभाष्यकृता मिश्रसहाशयेन चरकाचार्यो वैद्यशास्त्राचार्य इत्यर्थः कृतः, ततश्च वैद्याचार्यश्चरकोऽतिप्राचीन इत्यपि केनचिदुच्यते। परं तथाव्यक्तिपरकत्वेन व्याख्याने किंवा मूलं स्यात्। एकेनैव पुरुषेधे चरकाचार्यस्य दुष्कृतदेवतायै समुपहरणे पश्चात्तनेन यज्वना क उपह्रियेत। महीधरेण तु चरकाणामाचार्यं गुरुमिति सामान्यरूपेणाव्यक्तमेव विवरणं विहितम्। चरकशाखीयानामाचार्यमिति चरकशाखीयोपादानमपि प्रकरणासङ्गतं प्रतिभाति। यतो हि अस्मिन् प्रकरणे जातिविशेषाणां नानावृत्तिमंतां च पुरुषाणां मेधोपहरणीयतयोपादानं दृश्यते। न तु कस्यापि शाखाविशेषानुयायिनो व्यक्तिविशेषस्य वा। अस्मिन्नेव मन्त्रे कितवादयः प्रायो दुर्वृत्ति मन्तो निम्नश्रेणीकाः पुरुषास्तदुचिताभ्यो देवताभ्यो निवेद्यमाना ज्ञायन्ते, तेन दुष्कृतदेवतायै समर्प्यमाणश्चरकाचार्योऽपि कश्चन दुर्वृत्तिमानेव भवितुं युज्यते। एतत्पदं चरकाचार्यपरं तच्छाखीयानामाक्षेपपरमिति
१. तथा च चरकाः पठन्ति-श्वेतकेतुं हारुणेयं ब्रह्मचर्यं किलासौ जग्राह। तमश्विनावूचतुः, मधुमांसौ किल ते भैषज्यमिति। सहोवाच ब्रह्मचर्यमानी कथं मध्यश्रीयामिति। तौ होचतुः यदा चात्मना पुरुषो जीवति अथान्यत्सुकृतं करोतीत्यात्मानं सर्वतो गोपायेत्। अथ खल्वाहर्वाजसनेयिनः....... इत्यादि (याज्ञवल्क्यटीका बालक्रीडा १-२-३२) २. चरक इति वैशम्पायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥ (काशिकावृत्तिः ४-३-१०४)