काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 75, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः
६१
ज्ञानकोशकृतां मतं, परं शतपथे चरकशाखीयबोधकस्य चरकपद्यस्य बहुशो दर्शनेऽपि कर्मविशेषेतदीयसम्प्रदायमात्रं तत्रावबोध्यते, न तु तदाक्षेपः । तैत्तिरीयब्राह्मणगतमन्त्रेऽपि दुष्कृताय चरकाचार्यमिति पदमस्ति । तत्र सायनेन चरकाचार्यं वंशाग्रव(न)र्तनस्य शिक्षयितारं नटविशेषमित्यर्थः कृतः, न तत्र चरकशाखाचार्योऽभिप्रेयते । कृष्णयजुर्वेदीये मन्त्रे दृश्यमानस्य पदस्य आक्षेपदृशा तद्भागीयाचरकशाखाचार्यपरत्वं नापि युज्यते इति प्रकरणशुद्धिमल्यनुरुध्य सायनीयव्याख्यानवदत्रापि तादृश एव दुर्वृत्तिकः प्रत्येतुं युज्यते । चरः स्पर्शश्च एव चरक इति स्वार्थे प्रत्ययेन नैष¹ध इव चरकाचार्यपदेनात्र स्पर्शवृत्तीनां प्रधानतम इत्यप्यर्थः सम्भवति । तथा सति प्रकरणशुद्धिः, कितवसन्निधानं, दुर्वृत्ततया योग्यं योग्याय दातव्यमिति न्यायेन दुष्कृतदेवतायै निवेदनं च सङ्गच्छते । यजुर्भाष्यकृता दयानन्दस्वाभिना भक्षकाणामाचार्य इत्यर्थो निर्दिष्टः, अयमर्थश्चरगतिभक्षणयोरिति धातुमुपादाय लिखितः स्यात् ॥
“चरके पतञ्जलिः” इति नागेशस्य, “पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः” इति चक्रपाणिदत्तस्य च उक्त्योस्तदुपोद्बलकतया विज्ञानभिक्षुभोजभावमिश्राद्युक्तीनां प्रामाण्यमङ्गीकृत्य कैश्चिच्चरकपतञ्जल्योरेक्ये, कैश्चिदनयोरनैक्ये न स्वमतमुपवर्णितमालोक्य विचारारूढे स्वमनसि प्रतिभातं किञ्चिदुपन्त्यस्यते—
पतञ्जलिर्हि अरुणद्यवनः साकेतमिति यवनाक्रमणमतीतत्वेन, पुष्पमित्रं याजयाम इति अशोकमनु वैदिकधर्मं प्रत्युज्जीवयन्तं पुष्पमित्रं वर्तमानत्वेनोल्लिखन् विक्रमाब्दारम्भाद्विशतवर्षपूर्ववर्तितया निश्चीयते । भण्डारकरमहोदयेनापि महाभाष्यपुराणपाश्चात्त्येतिहासादीनालोच्य महाभाष्यकारस्य B. C. २०० समयो निर्धारितोऽस्ति । तथा च चरकस्य प्राचीनतरत्वाभ्युपगमे दूरे सङ्गमनम्, त्रिपिटकलेखमात्रेण कनिष्कसामयिकत्वस्वीकारे तु कनिष्कपुष्पमित्रसामयिकयोर्द्विशतवर्षान्तरितयोश्चरकपतञ्जल्याचार्ययोरेकव्यक्तिकत्वकल्पना प्रतिहन्यते । योगे व्याकरणे च पतञ्जलिनाम्ना व्यवहृतस्य वैद्यके तदनुल्लिख्यान्येनैव चरकनाम्नाऽभिधाने वा किन्नाम कारणं स्यात् । महाभाष्ये गोनर्दीयस्त्वाहति निर्देशेन भाष्यकृद्गोनर्ददेशीयत्वमात्मनो बोधयतीत्यपि विचारविशेषोऽस्ति । गोनर्दस्तु ‘एङ् प्राचां देशे’ इति सूत्रव्याख्याने काशिकाकृता गोनर्दीयशब्दोदाहरणेन प्राग्देशान्तर्गतोऽवबुध्यते इति वर्तमानो गोण्डाप्रदेश इति निरूप्यते श्रीयुतभाण्डारकरमहोदयेन । काश्मीरस्य पूर्वेतिवृत्ते गोनर्दनृपोपलम्भेन काश्मीरप्रदेशो गोनर्ददेश इत्यपि कस्यचिन्मतमस्ति । यदि भाष्यकार एव गोनर्दीयस्तर्हि तस्य चरकस्य चाभेदे चरकः प्रतिसंस्कारांशे क्वचनात्मनो गोनर्ददेशं कथं नोल्लिखति । चरकसंहितायां तु पाञ्चालपञ्चनदकाम्पिल्यप्रदेशा-नामुल्लेखोऽस्ति, नतु कुत्रापि गोनर्दस्य । चरकशब्दस्य नामान्तरत्वै गोनर्दीयस्त्वाहति वदन् व्याकरणमहाभाष्यकारश्चरकस्त्वाहति सकृदपि कथयितुं कथं नाम विस्मरेत् । तदेवं समयनामदेशानां विसंवादा अनयोर्भेदमेव साधयितुं प्रगुणीभवन्ति । पतञ्जलेर्महाभाष्यलेखोऽन्तराऽन्तरा लोकोक्तिगर्भः समासव्यासोक्तिबहुलः सहसा दुर्बोधो विभिन्नप्रकारः । चरकसंहितायां चरकलेखत्वेन संभाव्यमान आंशिकलेखस्तु गभीराथोंऽपि सरसप्राञ्जलराचनया सहृदयहृदयमनुरञ्जयन्नन्यमेवरीतिमवलम्बमानः समीक्ष्यत इति लेखशैलीविभेदोऽपि अनैक्यमेवोपोध्वलयति । चरकेणाग्निवेशतन्त्रस्य केवलं संस्कारमात्रोल्लेखाद्व्याकरणे महाभाष्यरूपं विशालं नवं ग्रन्थं, योगे सूत्ररूपं शीर्ष्वण्यं ग्रन्थं विरचयन् पतञ्जलिर्वैद्यकाचार्यों भवँस्तत्र स्वं नवं प्रतिभानमयं निबन्धलेखमपहाय परलेखसंस्कारमात्रेण कथमात्मनः सन्तोषं चापादयेत् । शिवदासेन चक्रदत्तटीकायां च ‘तदुक्तं पातञ्जले’ इत्युद्दिश्योद्धृतस्य श्लोकस्य रसविषयक तया दर्शनेन चरकसंहितायाममुपलम्भेनच रसवैद्यकेऽन्यदेव पातञ्जलतन्त्रं पतञ्जलेरासीदिति ज्ञायते । वैद्यकरसविषये ग्रन्थनिर्माता धातुरसायनाचार्यः पतञ्जलिश्चरकसंहितायां रसधात्वाद्यौषधविषयं कथं वा न प्रवेशयेत् । चरके हि धातूनां नामोद्देशं सकृद्रसेन्द्रोपादानं च विहाय नेदृशविषयः क्वापि विशेषविधया निर्दिष्ट उपलभ्यते । न वा रसवैद्यके मदीये ग्रन्थान्तरे विस्तृतमिति क्वचन
१. कन्यान्तःपुरबाधनाय यदधीकाराग्नदोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च तावूचतुः । देवाकर्ण्य सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ (नैषधीयचरिते ४, ११६)