काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 76, कुल 942 में से
संदर्भ में पढ़ें६२
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
तत्सूचनादानमपि दृश्यते। एकस्मिन्नेव वैद्यकविषये उभयथा ग्रन्थनिर्मातृत्वे रसवैद्यके पातञ्जलतन्त्रमिति, “अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इत्युल्लेखेन कायचिकित्सायां चरकसंहितेति विभिन्ननामभ्यां व्यवहरणे वा को हेतुः स्यात्। स्वयमात्मना चरकेण, प्रतिसंस्कर्त्रा दृढबलेन, प्राचीनटीकाकर्तृभिर्भट्टारहरिचन्द्रादिभिः, वाग्भटादिभिराचार्य्यान्तरैश्च एकेनैव चरकनाम्ना ऐकरूप्येण व्यवह्रियमाणस्याचार्यस्य पश्चाद्भूतेन चक्रपाणिना नागेशाचार्येण च पतञ्जलित्वेनोल्लेखने किन्नाम मूलं स्यात्। पतञ्जलेर्वैद्यविद्यायामप्याचार्यतया योगे व्याकरणे च ग्रन्थनिर्मातृत्वेनस्य भोजादिभिर्निर्देशो न खलु न सङ्गच्छते॥
पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः। मनोवाक्कायदोषणां हन्त्रेऽहिपतये नमः।।
इति लेखेन चरक एव पतञ्जलिरितिसाधनमपि न शब्दस्वारस्यमनुकूलं लभते। अत्र चरकपद्ं तन्नामकव्यक्तिपरं यद्यभ्युपेयते, तदा चरकायाहिपतये इति कथितव्यमासीत्। चरकशब्दस्य प्रतिसंस्कृतपदेन सहभावो नोपपद्यते, नामैकदेशे नामग्रहणमिति न्यायेन चरकसंहितायाश्चरक शब्देनोपादाने प्रतिसंस्कृतपदेन सहान्वयो भवति। तथा च चरकनाम्ना पूर्वसिद्धस्य ग्रन्थविशेषस्य प्रतिसंस्कर्ता पतञ्जलिरिति ततः प्रतीयेत, न तु चरक एव पतञ्जलिरिति। ‘इति चरके पतञ्जलिः’ इति नागेशोक्तेः को वाऽऽशयः। चरकसंहिताग्रन्थे पतञ्जलेरियमुक्तिरिति चेत्तदुद्धृतोक्तेरानुपूर्व्या चरकसंहितायां भवितव्यम्, तदुद्धृतवाक्यस्यास्यां संहितायामनुपलम्भोऽमुमाशयं वर्णयितुं प्रतिरुणद्धि। अत्र हि सूत्रस्थाने एकादशाध्याये, विमानस्थाने चतुर्थाध्यायेऽप्याप्तत्वनिर्वचनमन्ययैवानुपूर्व्या लभ्यते, न तु तदुद्धृतानुपूर्व्या। इति-चरकस्योपरिपतञ्जलिरित्यर्थमादाय चरकव्याख्याने पतञ्जलिरेवमाहेत्यपि ततः प्रत्येतुं शक्यते तथा च चरकव्याख्याकर्तुः पतञ्जलेरियमुक्तिरित्यायाति। ततश्च पतञ्जलेश्चरके व्याख्यानुपलभ्यमानाऽप्यासीदिति ततः प्रतीयते। चरकस्य व्याख्याकारः पतञ्जलिन तु चरक एव पतञ्जलिरिति केचनेदानीमुपवर्णयन्त्यपि। चरकस्य पतञ्जलिकृता मञ्जूषाख्या व्याख्याऽऽसीदिति आर्य्यप्रदीपनामके आधुनिकपुस्तके लिखितमस्तीति पतञ्जलिश्चरकस्य मञ्जूषाख्यटीकाकार इति केचन कल्पयन्ति। नागेशकृते मञ्जूषाख्ये व्याकरणग्रन्थे पूर्वोल्लिखित-चरकवाक्योद्धारोऽस्ति। मञ्जूषा तु नागेशकृतो व्याकरणग्रन्थः प्रसिद्ध एव। पतञ्जलिकृता मञ्जूषानाम्नी चरकटीका न क्वचन दृश्यते श्रूयते वा, न वा चक्रपाण्यादिभिरपि टीकाकारैस्तन्निर्देशः कृतोऽस्ति। तेन साधनान्तरोपलम्भमन्तरा निश्चयस्य कर्तुमशक्यतया “चरकप्रतिसंस्कृतैः” इति, “चरके पतञ्जलिः” इति अस्फुटार्थाः शब्दाः न द्वयोरैक्यसाधनाय व्याख्यानादिसाधनाय वाऽवलम्बनीभवितुमर्हन्ति॥
अपरञ्च, यः खलु विषयो देशादि वा येन विशेषतः परिचितः परिशीलितो भवति स एव तस्य हृदयेऽनुस्यूतः पुनः पुनरुपस्थायी च भवति। तथाहि महाभाष्ये पाटलिपुत्रस्यानैकश उल्लेखदर्शनेन तस्य विशेषतः परिचयेन निवासेन वा हृदये उपस्थानमुन्नीयते। एकस्य नानाविषयेषु ग्रन्थनिर्माणे एकत्र अपरग्रन्थसम्बद्धविषयोपन्यासप्रस्तावे अमुत्र प्रतिपादितमेतदिति उभयोरेकवाक्यतावबोधनस्य च निबन्धकृतां सम्प्रदायः। एवं नानानिबन्धकृतां केचन विषया उक्तयो युक्तयश्चातिप्रियाः सन्तो नानाप्रस्थानेषु सङ्गमय्योपन्यस्ता अपि दृश्यन्ते। यथा हि भामतीकर्त्रा ग्रन्थादावुपन्यस्ता व्यापकविरुद्धोपलब्धियुक्तिर्दर्शनान्तरस्व-निबन्धेष्वपि किञ्चिद्रूपविपर्य्यासेन बहुश उपन्यस्यते। एवमेव चरकाचार्यस्य महाभाष्यकृतः पतञ्जलेश्चैक्ये महाभाष्यगता विषयाश्चरकलेखे, चरकीयविषया वा महाभाष्ये तदीयहृदयेशयाः किमिति पदे पदे नोपलभ्येरन्। यद्यप्यात्रेयाग्निवेशसंहितायाश्चरकेण केवलं प्रतिसंस्करणान्मूलग्रन्थपरवशतया स्वीयलेखन्याः ससङ्कोचं प्रसारणीयतया व्याकरणप्रस्थानाचार्यभावनिदर्शनीभूता उक्तयः शब्दविशेषा अन्यानि लिङ्गानि वा चरकसंहितायां न प्रवेशितानीत्यपि वक्तुं शक्यते, तथाऽपि महाभाष्यलेखे सूत्रमात्रपारवश्येन यथाकामं स्वीयाभिर्वाग्धाराभिरुदाहरणैः साधकोक्तिभिर्लोकोक्तिभिरपि विज्ञानस्य व्याख्यानस्य च स्वं कौशलं प्रदर्शयता भाष्यकारेण चरकाचार्याभावानुबद्धा वैद्यकविषया लभ्यावसरेष्वपि बहुशः स्थलेषु किमिति नोल्लिखिता दृश्यन्ते। यत्रांशे सूत्रादिपारवश्येन अवश्यवक्तव्यतया वा निर्देशास्तादृशांशेषु तदीयहार्दविकास इति वक्तुं नौचित्यमावहति। यथा—वातिकं पैत्तिकं श्लैष्मिकमित्यादि शब्दसाधनोदाहरणानि, नैतादृशानि लिङ्गानि वैद्यकवित्त्वगमकानि भवितुं शक्नुवन्ति।