भारतकोश
संग्रह पर लौटें

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

६२
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तत्सूचनादानमपि दृश्यते। एकस्मिन्नेव वैद्यकविषये उभयथा ग्रन्थनिर्मातृत्वे रसवैद्यके पातञ्जलतन्त्रमिति, “अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इत्युल्लेखेन कायचिकित्सायां चरकसंहितेति विभिन्ननामभ्यां व्यवहरणे वा को हेतुः स्यात्। स्वयमात्मना चरकेण, प्रतिसंस्कर्त्रा दृढबलेन, प्राचीनटीकाकर्तृभिर्भट्टारहरिचन्द्रादिभिः, वाग्भटादिभिराचार्य्यान्तरैश्च एकेनैव चरकनाम्ना ऐकरूप्येण व्यवह्रियमाणस्याचार्यस्य पश्चाद्भूतेन चक्रपाणिना नागेशाचार्येण च पतञ्जलित्वेनोल्लेखने किन्नाम मूलं स्यात्। पतञ्जलेर्वैद्यविद्यायामप्याचार्यतया योगे व्याकरणे च ग्रन्थनिर्मातृत्वेनस्य भोजादिभिर्निर्देशो न खलु न सङ्गच्छते॥

पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः। मनोवाक्कायदोषणां हन्त्रेऽहिपतये नमः।।

इति लेखेन चरक एव पतञ्जलिरितिसाधनमपि न शब्दस्वारस्यमनुकूलं लभते। अत्र चरकपद्ं तन्नामकव्यक्तिपरं यद्यभ्युपेयते, तदा चरकायाहिपतये इति कथितव्यमासीत्। चरकशब्दस्य प्रतिसंस्कृतपदेन सहभावो नोपपद्यते, नामैकदेशे नामग्रहणमिति न्यायेन चरकसंहितायाश्चरक शब्देनोपादाने प्रतिसंस्कृतपदेन सहान्वयो भवति। तथा च चरकनाम्ना पूर्वसिद्धस्य ग्रन्थविशेषस्य प्रतिसंस्कर्ता पतञ्जलिरिति ततः प्रतीयेत, न तु चरक एव पतञ्जलिरिति। ‘इति चरके पतञ्जलिः’ इति नागेशोक्तेः को वाऽऽशयः। चरकसंहिताग्रन्थे पतञ्जलेरियमुक्तिरिति चेत्तदुद्धृतोक्तेरानुपूर्व्या चरकसंहितायां भवितव्यम्, तदुद्धृतवाक्यस्यास्यां संहितायामनुपलम्भोऽमुमाशयं वर्णयितुं प्रतिरुणद्धि। अत्र हि सूत्रस्थाने एकादशाध्याये, विमानस्थाने चतुर्थाध्यायेऽप्याप्तत्वनिर्वचनमन्ययैवानुपूर्व्या लभ्यते, न तु तदुद्धृतानुपूर्व्या। इति-चरकस्योपरिपतञ्जलिरित्यर्थमादाय चरकव्याख्याने पतञ्जलिरेवमाहेत्यपि ततः प्रत्येतुं शक्यते तथा च चरकव्याख्याकर्तुः पतञ्जलेरियमुक्तिरित्यायाति। ततश्च पतञ्जलेश्चरके व्याख्यानुपलभ्यमानाऽप्यासीदिति ततः प्रतीयते। चरकस्य व्याख्याकारः पतञ्जलिन तु चरक एव पतञ्जलिरिति केचनेदानीमुपवर्णयन्त्यपि। चरकस्य पतञ्जलिकृता मञ्जूषाख्या व्याख्याऽऽसीदिति आर्य्यप्रदीपनामके आधुनिकपुस्तके लिखितमस्तीति पतञ्जलिश्चरकस्य मञ्जूषाख्यटीकाकार इति केचन कल्पयन्ति। नागेशकृते मञ्जूषाख्ये व्याकरणग्रन्थे पूर्वोल्लिखित-चरकवाक्योद्धारोऽस्ति। मञ्जूषा तु नागेशकृतो व्याकरणग्रन्थः प्रसिद्ध एव। पतञ्जलिकृता मञ्जूषानाम्नी चरकटीका न क्वचन दृश्यते श्रूयते वा, न वा चक्रपाण्यादिभिरपि टीकाकारैस्तन्निर्देशः कृतोऽस्ति। तेन साधनान्तरोपलम्भमन्तरा निश्चयस्य कर्तुमशक्यतया “चरकप्रतिसंस्कृतैः” इति, “चरके पतञ्जलिः” इति अस्फुटार्थाः शब्दाः न द्वयोरैक्यसाधनाय व्याख्यानादिसाधनाय वाऽवलम्बनीभवितुमर्हन्ति॥

अपरञ्च, यः खलु विषयो देशादि वा येन विशेषतः परिचितः परिशीलितो भवति स एव तस्य हृदयेऽनुस्यूतः पुनः पुनरुपस्थायी च भवति। तथाहि महाभाष्ये पाटलिपुत्रस्यानैकश उल्लेखदर्शनेन तस्य विशेषतः परिचयेन निवासेन वा हृदये उपस्थानमुन्नीयते। एकस्य नानाविषयेषु ग्रन्थनिर्माणे एकत्र अपरग्रन्थसम्बद्धविषयोपन्यासप्रस्तावे अमुत्र प्रतिपादितमेतदिति उभयोरेकवाक्यतावबोधनस्य च निबन्धकृतां सम्प्रदायः। एवं नानानिबन्धकृतां केचन विषया उक्तयो युक्तयश्चातिप्रियाः सन्तो नानाप्रस्थानेषु सङ्गमय्योपन्यस्ता अपि दृश्यन्ते। यथा हि भामतीकर्त्रा ग्रन्थादावुपन्यस्ता व्यापकविरुद्धोपलब्धियुक्तिर्दर्शनान्तरस्व-निबन्धेष्वपि किञ्चिद्रूपविपर्य्यासेन बहुश उपन्यस्यते। एवमेव चरकाचार्यस्य महाभाष्यकृतः पतञ्जलेश्चैक्ये महाभाष्यगता विषयाश्चरकलेखे, चरकीयविषया वा महाभाष्ये तदीयहृदयेशयाः किमिति पदे पदे नोपलभ्येरन्। यद्यप्यात्रेयाग्निवेशसंहितायाश्चरकेण केवलं प्रतिसंस्करणान्मूलग्रन्थपरवशतया स्वीयलेखन्याः ससङ्कोचं प्रसारणीयतया व्याकरणप्रस्थानाचार्यभावनिदर्शनीभूता उक्तयः शब्दविशेषा अन्यानि लिङ्गानि वा चरकसंहितायां न प्रवेशितानीत्यपि वक्तुं शक्यते, तथाऽपि महाभाष्यलेखे सूत्रमात्रपारवश्येन यथाकामं स्वीयाभिर्वाग्धाराभिरुदाहरणैः साधकोक्तिभिर्लोकोक्तिभिरपि विज्ञानस्य व्याख्यानस्य च स्वं कौशलं प्रदर्शयता भाष्यकारेण चरकाचार्याभावानुबद्धा वैद्यकविषया लभ्यावसरेष्वपि बहुशः स्थलेषु किमिति नोल्लिखिता दृश्यन्ते। यत्रांशे सूत्रादिपारवश्येन अवश्यवक्तव्यतया वा निर्देशास्तादृशांशेषु तदीयहार्दविकास इति वक्तुं नौचित्यमावहति। यथा—वातिकं पैत्तिकं श्लैष्मिकमित्यादि शब्दसाधनोदाहरणानि, नैतादृशानि लिङ्गानि वैद्यकवित्त्वगमकानि भवितुं शक्नुवन्ति।

उपोद्घातः ६३

तत्र हि "तस्य निमित्तं संयोगोत्पातौ (५-१-३८)" इति सूत्रे तस्य निमित्तप्रकरणे “वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानं कर्तव्यं, सन्निपाताच्चेति वक्तव्यम्” इति वार्त्तिकयोः परवशताया ‘वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकम्' इत्युदाहरणानि दत्तानि। एवम् “उदःस्थास्तम्भोः पूर्वस्य (८-४-६१)” इति सूत्रे “उदःपूर्वत्वे स्कन्दे च्छन्दस्युपसंख्यानं, रोगे” इति वार्त्तिकोदाहरणत्वेनावश्यकवक्तव्यतया ‘उत्कन्दको रोगः' इत्युदाहृतं भाष्यकृता। परं यत्र तथा अन्यथा वोदाहर्तुमुपन्यस्तुं वा स्वातन्त्र्यं ग्रन्थकृतस्तत्र तदुपन्यासस्तदीयामन्तर्वासनामवगमयति। भाष्यकृता “ह्वः संप्रसारणम् (६-१-३२)” इति सूत्रव्याख्याने “अन्तरेणापि निमित्तशब्दं निमित्तार्थोऽवगम्यते” इत्युपन्यस्य “दधित्रपुसं प्रत्यक्षो ज्वरः, ज्वरनिमित्तमिति गम्यते; नड्वलोदकं पादरोगः, पादरोगनिमित्तमिति गम्यते; आयुर्वे घृतम्, आयुर्निमित्तमिति गम्यते” इति निदर्शनानि प्रदत्तानि। 'आयुर्वे घृतम्' इतिवत् दधित्रपुसं प्रत्यक्षो ज्वरः, नड्वलोदकं पादरोग इत्यपि प्राचीनाचार्यवाक्ययोरुद्धरणमवगमयते। तत्र निमित्त-निमित्तिनोरभेदोपचारप्रदर्शकेषु अन्येष्वपि बहुषु निदर्शनेषु सम्भवत्स्वेतदुपादानमस्याचार्यस्य वैद्यकसम्प्रदायवित्वमवबोधयति लोकान्। नैतावताऽय चरकाचार्यत्वमायाति। यदि नामानयोरैक्यं स्यात्तदा व्याकरणग्रन्थे प्रसङ्गोपात्ता ईदृशा विषयाः स्वीये वैद्यक ग्रन्थे असाधारण्येन किमिति नोल्लिख्येरन्। दधित्रपुसस्य ज्वरहेतुभावेन, नड्वलोदकस्य पादरोगहेतुतया उल्लेखश्चरके कथं नोपलभ्यते। न च उत्कन्दको नाम कश्चन रोगो भावप्रकाशादौ लभ्यमानोऽपि चरके लभ्यते। महाभाष्यकृतस्तथा परिचयेन निवासेन प्रेम्णा वा बहुवारमुल्लेखपदं गतं पाटलिपुत्रं चरकसंहितायां किमिति सकृदपि नोपलभ्यते। गर्गादिगणे प्रविष्टान्यग्निवेशपराशरजतूकर्णपदानि वैद्याचार्यस्मारकाण्युपादायोदाहरणदानौचित्येऽपि भाष्यकृता न तदुदाहरणानि दत्तानि। अन्यत्र स्थल^१त्रये अग्निवेश्योल्लेखेऽपि स्वरविषय एवोपादानेन वैद्याचार्यत्वरूपेणाग्निवेशस्यावबोधनं परिचयो वा भाष्यकृता न क्वापि कृतः। चर्कनिर्देशानामन्येषां प्राचीनवैद्याचार्याणामसाधारणं नामापि महाभाष्यकृता न कीर्तितम्॥

ऋतूक्थादिसूत्र (४-२-६०) व्याख्याने उक्थादिगणे प्रविष्टस्याप्यायुर्वेदशब्दस्य ठक्प्रत्ययरूपस्यान्यिदर्शनम्; तत्रैव विद्यालक्षणेत्यादिवार्तिकसम्बन्धिविद्योदाहरणे ‘वायसविधिकः, सार्पविधिकः, आङ्गविद्यः, धर्मविद्यः, त्रैविद्यः' इति निदर्श्यापि स्वयमाचार्यभावेनाधिष्ठिताया आयुर्वेदविद्यायाः ससम्भ्रमं नामानुपादानं; रोगाख्यायां वुल्बहुलम् (३-३-१०८) इति सूत्रव्याख्याने रोगवाचकशब्दोदाहरणादानं; रोगाच्चापनयने (५-४-४९) इति चिकित्सारूपविलक्षणार्थेतसिल्प्रत्ययस्य काशिकादाविव 'प्रवाहिकातः कुरु' इत्यादेरेकस्याप्युदाहरणस्यादानमपि भाष्यकारस्य चरकाचार्यभावे कौतुकं जनयति॥

‘चतुर्थ्यर्थे बहुलं छन्दसि' (२-३-६२) इति सूत्रे षष्ठ्यर्थे चतुर्थी वाच्या, इति वार्तिकोदाहरणत्वेनोदाहृते तैत्तिरीय^२वाक्ये रजस्वलाभिः पालनीया धर्मशास्त्रानुरूपा नियमाः, अन्यथाभावे सन्तत्यनिष्टोत्पत्तिरूपफलानि च सविशेषं महाभाष्येनिरूपितानि। इत्थमेव सुश्रुते शारीरद्वितीयाध्याये (पृ. २९१) सफलनिर्देशं विशदरूपेण प्रायः संवादिना स्वरूपेण निर्दिष्टमस्ति। सम्भावितपतञ्जल्यभेदेन चरकाचार्येण तु शारीरजातिसूत्राध्याये (पृ. ३३७) महाभाष्ये सविशेषमुद्धृता अपि रजस्वलानियमाः सामान्यत एवोक्ताः, फलानि च नोल्लिखितानि, पात्रांशेऽपि विसंवादश्चेत्यप्यवधेयम्॥

भाष्यकारोक्त्या स्त्यैधातोर्घनीभावार्थकात् स्त्रीशब्दः, सूधातोः प्रवृत्त्यर्थकात् पुंस्शब्दो निष्पाद्यते, तेन घनीभावरूपार्थमादाय स्त्रीत्वव्यवहार इत्यायाति। चरकलेखाद्धनीभावमादाय पुरुषत्वं प्रदर्श्यते। प्रसवस्य मातृधर्मत्वेन 'षूङ् प्राणिगर्भविमोचने'


१. आद्यन्तवदेकस्मिन् (१-१-२०) स्वरितात्संहितायामनुदात्तानाम् (१-२-३९) समासस्य (६-१-२२३) सूत्रभाष्येषु। २. तिस्रो रात्रीः या खर्वेण पिबति तस्यै खर्वो जायते, यां मलवद्वाससं सम्भवन्ति यस्ततो जायते सोऽभिशस्तः, यामरण्ये तस्यै स्तेनः, यां पराचीं तस्यै ह्रीतमुख्यन्नगल्भः, या स्नाति तस्या अप्सु मारुकः, याऽभ्यङ्क्ते तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याऽङ्क्ते तस्यै काणः, या दतो धावते तस्यै श्यावदन्, या नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबः, या रज्जुं सृजति तस्या उद्बन्धुकः, या पर्णे न पिबति तस्य उन्मादको जायते, अहल्यायै जारमनायै तन्तुः॥

६४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

इति पाणिनीयधातुपाठाच्च लोके इव स्त्री सूते, माता सूते इति प्रयोगः स्वारसिक एव। भाष्य¹कारोक्तप्रक्रियया तु प्रसवस्य पुरुषधर्मत्वेन निर्देशात् पुमान् सूते इत्येव स्वारसिकः प्रयोगः, माता सूते इति प्रयोगस्तु अर्थान्तरविवक्षया औपचारिक इत्यवबुध्यते, इति चरकस्य भाष्यकारस्य च प्रक्रियाभेदः। एवमुपदर्शितैः साधकैर्बाधकैश्च चरकाचार्यस्य पतञ्जलेश्चाऽभेदसाधनापेक्षया भेदाभ्युपगम एव प्रणीभवति मदीयदृष्टिकोणोन्मेषः ॥

किञ्च, चरकसंहितायां शारीरस्थानप्रथमाध्याये पुरुषवर्णनप्रसङ्गे दृष्टस्य योगविषयस्य पातञ्जलयोगविषयेण सह संवा²दोल्लेखविषयेऽपि विमृश्यमाने एवं प्रतिभाति। शारीरे प्रथमाध्याये पूर्वोद्दिष्टेषु त्रयोविंशतिप्रश्नेषु षड्धातुसमवायात्मके चतुर्विंशतितत्त्वसमवायात्मके वा वेदनायोगनिवर्तनाहे कर्मपुरुषे एकविंशतिप्रश्नान् समाधाय—‘‘क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः’’ इत्युपन्यस्तस्य सर्ववेदनानिवृत्तपुरुषविषयकस्य प्रश्नान्तरस्योत्तरणाय—

‘‘योगे मोक्षे च सर्वासां वेदनानामवर्तनम्। मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः’’ ।।

इति अन्तःकरणविषयदुर्योर्गजनितसुखदुःखराहित्यावस्थोदयस्वरूपस्य योगस्योपादानमस्ति। पुनः पञ्चमाध्याये पूर्वोक्तमेव विषयं विवरीतुमग्निवेशपृष्ठेनात्रेयेण प्रवृत्तिनिवृत्ती विभज्य दर्शयता निवृत्त्यात्मकेऽपवर्गे पूर्वोक्ताः सत्सङ्गब्रह्मचर्यादयः साधनत्वेन गद्यवाक्यैः सविशेषं पुनः प्रतिपादिताः। अनयोः पूर्वापराध्याययोरेक एव विषयो भङ्गीभेदेनात्रेयेणैव निरूपित इति प्रतिसंस्कर्तृचरकत्वेन सम्भावितात् पतञ्जलेः प्राक्तन एवासौ लेखविषय इति भाति ॥

सुश्रुते चिकित्साशास्त्रोपयोगितया तदधिकृतस्य पञ्चमहाभूतशरीरिसमवायात्मकस्य कर्मपुरुषस्य, भेडसंहितायामपि तथाविधस्यैव षड्धातुचेतनाममवाायरूपस्य, अस्यां काश्यपीयायामपि ‘‘शरीरेन्द्रियात्मसत्त्वसमुदयं (रूपं) पुरुषमाचक्षते आत्मानमेके (पृ. ६७)’’ इति शरीरशरीरिसमवायात्मकस्यैव निर्देशनेन एतदनुरूपप्राचीनसिद्धान्तरीत्या आत्रेयेणापि तावदेवनिर्दिश्य स्वीयवैद्यदर्शनपरिपालनस्यौचित्येऽस्मिन् प्रकरणे मोक्षोपयोगिनो योगविषयस्य निदर्शनं पश्चाच्चरकेणैव प्रतिसंस्करणे प्रवेशितं स्यादित्यभ्युपगमेऽपि एतदीया पातञ्जलसूत्रोक्ता च योगप्रक्रिया नैक्यरूप्येण लभ्यते। पातञ्जले ‘‘योगश्चित्तवृत्तिनिरोधः (१.२), ता एव सबीजः समाधिः (१.४५), तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः (१. ५०)’’ इत्यादिसूत्रैः अन्तःकरणस्य बहिर्वृत्तीर्निरुध्य आत्माकारैकवृत्तिस्थापनमन्तत आत्माकारवृत्तेरपि निरोधेन निवातदीपायितत्वव्यवस्थापनमिति सम्प्रज्ञाता-सम्प्रज्ञातकक्षाभेदाभ्यां द्विधा विभिन्नो योगः, तादृशयोगोदये च ऋतम्भरप्रज्ञादीनि फलानि, मोक्षस्वरूपं च ‘‘तदा द्रष्टुः स्वरूपेऽवस्थानम् (१.३), पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपनिष्ठा वा चितिशक्तेः, (४. ३४)’’ इति आत्मनोऽसङ्गकूटस्थचित्स्वरूपमात्रविश्रान्तिश्चरमसिद्धान्तरूपेण वर्ण्यते। चरकसंहितायां तु—

‘‘आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते। सुखदुःखमानरम्भादात्मस्थे मनसि स्थिरे। निवर्तते तदुभयं वशित्वं चोपजायते। सशरीरस्य योगज्ञास्तं योगमृषयो विदुः। ’’ इति

इन्द्रियान्तःकरणादिकं बहिर्विषयेभ्यः परावर्त्य मनसं आत्मनि स्थैर्यापादनं योग इति,

‘‘मोक्षो रजस्तमोऽभावाद्वलवत्कर्मसंक्षयात्। वियोगः कर्मसंयोगैरपुनर्भव उच्यते ॥’’ इति

रजस्तमोगुणनिवर्तने केवलसात्त्विकत्वापादनेन कर्मक्षये शरीरान्तःकरणादिभिः सह आत्मनः स्थायी वियोगो मोक्ष इति चोपवर्ण्यते ॥


१. स्त्रियाम् (४/१/३) सूत्रमहाभाष्ये ॥ २. प्रत्यक्षशारीरभूमिकायां पृ. ८ ॥

उपोद्घातः ६५

अनयोस्तुलनायां चरकीये शुद्धसत्त्वशेषतया केवलात्माकारान्तःकरणवृत्तिस्थैर्य्यरूपेण योगेन त्रैगुण्यावस्था-सम्पाद्यशरीरान्तःकरणसंयोगापगमस्थैर्यं मोक्षपदार्थत्वेन, पातञ्जले तु अन्ततो निर्बीजरूपतापत्त्या सर्वान्तःकरण-वृत्तिविलयपुनरनुदयरूपयोगेनान्तःकरणिकवृत्तिरूपसुखदुःखच्छायानुदयेन कूटस्थचिन्मात्ररूपतयाऽऽत्मनः प्रतिष्ठापनरूपो मोक्ष इति मुख्यप्रमेयफलयोः स्वरूपवैलक्षण्यम्। तेन चरकोक्तो योग “आत्मस्थे मनसि स्थिरे रजस्तमोऽभावात्, शुद्धसत्त्वसमाधानात्” इत्येवं विन्यस्तानां पदानां स्वारस्येन, रज स्तमोवृत्तिपरिहारेण विशुद्धसत्त्वावशेषेण सात्त्विकवृत्तिप्रधानस्य मनस आत्मनि स्थैर्योक्त्यवबोधेन पातञ्जले सम्प्रज्ञातकक्षायां प्रतिपादिते योगविषये एव विश्राम्यति। यदि मनोलयादिकं प्रतिपादितमभविष्यत्तदैव सात्त्विकवृत्तेरपि परिहारेण ध्येयमात्रप्रकाशावस्थारूपासंप्रज्ञातावस्थो योगोऽस्मादवागंस्यत। पातञ्जले तु सम्प्रज्ञातकक्षातोऽप्युपरितन्यामसम्प्रज्ञातकक्षायां योगस्य विश्रान्तिस्तत एवेष्टसिद्धिः प्रतिपाद्यते इति मुख्यकक्षावैलक्षण्यमालोच्यते॥

एवम्—
“आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् ।।
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्। शुद्धसत्त्वसमाधानात्तत्सर्वमुपजायते” ।।

इति चरकीये परपुरप्रवेशादयोऽष्टावेव योगविभूतयः, ता अपि आत्मनि मनःस्थैर्य्यरूपस्य मुख्यप्रमेयभूतस्य विभूतयः कीर्त्यन्ते। तासामैश्वरबलरूपेणाभिनन्दनं विधायैव विश्रम्यते च। पातञ्जले तु आत्मविषयकस्य योगस्य ऋतम्भरप्रज्ञादीन्येव फलानि। तत्साधनावस्थायामभ्यासदाढर्याय त्राटकादिवत् प्रत्ययकायरूपादिषु तेषु तेषु विषयान्तरेषु विधीयमानस्य धारणाध्यानसमाधित्रिकात्मकस्य योगाङ्गभूतस्य संयमस्य विभूतिरूपपतवेन परचित्तज्ञान-सर्वभूतरुतज्ञान-पूर्वजातिज्ञान-हस्तिबलभुवनज्ञान-ताराव्यूहज्ञान-कायव्यूहज्ञानादयो बह्वयः सिद्धयो विभूतिपादे वर्ण्यन्त इति विभिन्नो हेतुहेतुमद्भावः, प्रक्रियाऽपि विभिन्ना, क्वचनैकस्मिन्नपि विषये विभिन्नानां पारिभाषिकशब्दानां व्यवहारश्च, न च विभूतीनामष्टसंख्यापालनपि। ता अपि विभूतयः “ते समाधावुपसर्गाव्युत्थाने सिद्धयः (३. ३६)” इति मुख्ययोगमार्गव्याघातकत्वाद्विघ्नस्थानीयतया न समभिनन्द्यन्ते॥

योगमोक्षोपायवर्णनेऽपि—
“सतामुपासनं सम्यगसतां परिवर्जनम्। ब्रह्मचर्योपवासश्च नियमाश्च पृथग्विधाः ।।
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः। विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः ।।

इत्यादिना सत्सङ्गसत्सङ्गवर्जनादयो बहव उपायत्वेन वर्ण्यन्ते। एषु ब्रह्मचर्यादयः केचन पातञ्जलेऽपि यमनियमाद्यङ्गेषु प्रविशन्ति, सत्सङ्गोपवासशास्त्रधारणप्रभृतयो न तत्र साधनेषूल्लिख्यन्ते, प्रत्युत तत्र अभ्यासवैराग्ये योगहेतुतया प्रणवोपासनमैत्र्यादिचित्तपरिकर्मप्राणायामासनादयोऽङ्गभावेन विशेषेण कीर्त्यमानाश्चरकंसंहितायां नोल्लिख्यन्त इति साधनांशेऽपि न सर्वाशतः सारूप्यम्। येन केनचिदंशेन तौल्यं तु मुख्योपादेयांशे सर्वत्र संभवत्येव। न च योगविद्या पतञ्जलेरेवाविर्भूता, अपि तु ततः पूर्वमपि महाभारतादिष्वापि वर्ण्यते। हिरण्यगर्भो योगस्य वक्तेति हिरण्यगर्भसमयादेव योगविद्यायाः शाश्वतिक उदयः कीर्त्यते। महेञ्जोदारोभूगर्भादपि योगस्थपुरुषमूर्तेरुपलम्भात् योगस्यातिपूर्वकालादनुवृत्तिर्भारते इति सर ¹जान्मार्सलाख्येन विदुषाऽपि स्वीये रिपोर्टपत्रेऽप्युल्लिखितमस्ति। श्रीयुतदा²सगुप्तेनापि लिखितं वर्तते। ततश्च स्वरूपतो हेतुतः फलतो विशेषोपायतः पारिभाषिकशब्दविशेषतश्च वैलक्षण्यदर्शनेन पातञ्जलयोगप्रक्रियायां कालानुक्रमिकविषयविकासस्य चानुसन्धानेन उभयोर्लेखशैल्या विभेदेन च विभिन्नलेखनीद्वयमवगम्यते॥


१. Mohenjodaro and Indus Civilization Vol. I. P. 54.
२. History of Indian Philosophy by Dasagupta Vol. I. P. 226.

६६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

महाभारते “¹अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्” इत्यारभ्योपन्यस्तायां योगविद्यायामप्येवमेव इन्द्रियनिरोधपूर्वकं मनस आत्मनि स्थैर्यपूर्वकं मोक्षयोगः कार्यः, तदुपायतया योगशास्त्राभ्यासः, एकान्तशीलतया संयमः, इन्द्रियजयादयः कार्याः, एवं योगेन यथेष्टं नानाशरीरप्रतिपत्तिः, देवानामति वशीकरणं, निर्भयत्वमक्लेशो निस्पृहत्वमित्यादीनि च जायन्ते इति निरूपितो यः प्राचीनयोगविषयस्तस्य सर्वांशे छायाननुविधानेऽप्येतदीयप्रक्रियायाः सान्निध्यमस्यां चरकीययोगप्रक्रियायां दृश्यत इति प्राचीन एव योगस्य पन्था अनेनोपात्तो न तु पातञ्जल उक्त इति भाति । तेनानयोराचार्ययोरिमौ विभिन्नौ योगप्रक्रियाविशेषौ नाभेदसाधनाय, प्रत्युत भेदसाधनायैव पुरःसरतः ॥

योगसूत्रकृतः पतञ्जलेर्महाभाष्यकृतः पतञ्जलेरप्यैक्यं विभेदो वेत्यत्रापि विदुषां मतभेदोऽस्ति । महाभाष्यकारसमयस्य धातुरसायनविषयोत्यानात् प्राक्तनत्वेन रसायनशास्त्राचार्यः पतञ्जलिरपि विभिन्नः, केवलं नामसाम्यमेषामित्यपि केषा²ञ्चिद्विचारः । तदेषामैक्यमनैक्यं वेति विमर्शान्तरे प्रकृतविच्छेदभियेदानीं विरम्यते ॥

अल्बेरूनीनामको लेखकस्तु अग्निवेशचरकयोरभेदमन्सुसन्धत्ते । 'तत्तु अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते' इति तन्त्रकर्तृतया प्रतिसंस्कर्तृतया चानयोः स्पष्टं विभेदोल्लेखेन प्रतिहन्यते । विभिन्नयोराचार्ययोर्व्यक्तिभेदेऽपि तदीयकृत्योरेकेनैव स्वरूपेण शिष्यमाणतया यशःशेषयोरनयोर्ग्रन्थतात्पर्येण हन्त ! साम्प्रतमैक्यमिव सञ्जातम् ॥

उपलभ्यमानप्रतिसंस्कृतचरकसंहितायामपि प्राचीनसांख्यदर्शनस्यैवातिमात्रयाऽवलम्बनेन, बौद्धमतच्छायाया अप्रवेशेन, संस्कारप्रविष्टतया संभाव्यमानेषु लेखविषयेष्वपि प्राचीनप्रौढरचनादर्शनेन च प्रतिसंस्कर्ता चरकोऽपि नार्वाचीनः प्रतिभाति । किन्तु भिषग्जितीयाध्याये न्यायदर्शनीया न्यायनिग्रहस्थानादयो बहुशः पदार्थाः समीक्ष्यमाणा अस्य विषयस्य प्राचीनतरत्वमभ्युपेतुं प्रतिघट्टयन्ति । श्रौतदार्शनिकग्रन्थेषु गौतमसूत्रात्पूर्वं, बौद्धदार्शनिकग्रन्थेषु नागार्जुनीयोपाय (कौशल्य) हृद³यादिग्रन्थेभ्यः पूर्वं, न्यायच्छलजातिनिग्रहस्थानादीनां विगृह्यसम्भाषायामुपयोगिनां पदार्थानां निरूपणानुपलम्भेन बौद्धानां महायानिकविचारोदये सत्युभयतः सङ्घर्षे पक्षप्रतिपक्षजयपराजयनियमव्यवस्थाया विकासस्यानुसन्धेयतया कतिपयपूर्वसमयाल्लघुमात्रया प्रवृत्त एष विवादविषयो गौतमानागार्जुनादिभिर्ग्रन्थप्रणयनेनोभयतः परिष्कृत्य नियमितोऽवगम्यते । पक्षप्रतिपक्षभावेन विवादो हि पश्चाद्भवैर्दिङ्नाग-धर्मकीर्तिप्रभृतिभिर्बौद्धाचार्यैः प्रमाणसमुच्चयप्रमाणवार्तिकवादन्यायहेतुबिन्द्वादिग्रन्थेषु, न्यायवैशेषिकाचार्यैर्वात्स्यायन-


१. महाभारते आश्वमेधिके अनुगीतापर्वणि १९ अध्याये—
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । युञ्जन्तः सिद्धिमात्मानं यथा पश्यन्ति योगिनः ॥१५॥
तस्योपदेशं वक्ष्यामि यथातत्त्वं निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१६॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥१७॥
तपस्वी सततं युक्तो योगशास्त्रमथाचरेत् । मनीषी मनसा विप्रः पश्यन्नात्मानमात्मनि ॥१८॥
स चेच्छक्नोत्ययं साधुर्युक्तमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१९॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथाऽयमात्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥२०॥
............................................
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । न तस्येशेश्वरः कश्चित् त्रैलोक्यस्यापि यः प्रभुः ॥२४॥
अन्यान्‌न्यांश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न शोचति न हृष्यति ॥२५॥
देवानामति देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥२६॥ इति ॥

२. I. History of Indian Philosophy by Dasagupta Vol I. P. 261.
II. Yoga System of Patanjaly by J. H. Woods.

३. उपायहृदयं नाम बौद्धदार्शनिकाचार्येण नागार्जुनेन प्रणीतो विवादविषयको ग्रन्थः, तस्य मूलग्रन्थस्य लोपेऽपि चीनभाषायामनुवादोपलम्भेन प्रो. तुच्ची महाशयेन संस्कृते प्रत्यनुवादः कृतोऽस्ति ॥

उपोद्घातः | ६७

भाष्याद्द्योतकरवार्तिकतात्पर्यटीकातात्पर्यपरिशुद्ध्यादिषु, जैनाचार्यैश्च तत्त्वसङ्ग्रहादिषुस्वग्रन्थेषु मध्यकालेऽपि विवर्धितः परिदृश्यते। तेन यत्र यत्र विमर्शावसरस्तत्र तत्र विमर्दीयपदार्थानामनुप्रवेशः सामयिकएव। आयुर्वेदीयेषु प्राचीनग्रन्थेषु सुश्रुतभेदाभ्यां वादीयपदार्थोपन्यासे उदासितमेव। कश्यपेन तु भिषजां मिथो विमर्श विषयोपन्यासे सन्धायसम्भाषामेव प्रदर्श्य विगृह्यसम्भाषायाविषयो (पृ. ६१) लेशत एव सूचितो न प्रपञ्चितः। एवं दर्शनेन प्राचीनाचार्यगृहीतमार्गेण आत्रेयेणाग्निवेश्येन च स्वीयसंहितायां सन्धायसम्भाषायामेव विश्रान्तं भवितुमर्हति। भैषज्यविषये पक्षप्रतिपक्षभावेन यथाकथमपि स्वस्वपक्षप्रतिष्ठापनपरपक्षनिरसननिर्वन्धे वस्तुतत्त्वापलापेनानर्थसम्भवात्तत्वानुसन्धानस्यैवौचित्येन विगृह्यसम्भाषायामुपयोगिनां छलजातिनिग्रहस्थानादीनां प्रपञ्चो हितं पन्थानं कण्टकित जनयति। उपलभ्यमानचरकसंहितायां वादविषयोल्लेखे—

“विगृह्यभाषा तीव्रं हि केषाञ्चिद् द्रोहमावहेत्। कुशला नाभिनन्दन्ति कलहं समितौ सताम्’ ।।
(विमाने. अ. ८)

इति सन्धायसम्भाषाया विषयस्योपसंहृतौ तत्रैव पक्षपातः प्रथमो दर्शितः। एतावत् पर्यन्त एव विषय आत्रेयीय उपन्यासः स्यात्। ततः परं विगृह्यसंभाषायाः पदार्थविशेषानुपादाय प्रवृत्तः “इमानि खलु पदानि भिषग्वादज्ञानार्थमधिगम्यानि भवन्ति” इत्यारभ्य “इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति” इत्येतावत्पर्यन्त उपक्रमापसंहारपृथक्त्वतोग्रन्थः प्रसक्तानुप्रसक्तपथेन पश्चाच्चरकसमये प्रविष्टः किलेति सन्दिह्यते। पुराकालेऽपि विभिन्नमतानां नानाचार्याणां भावेन मिथस्तेषां विमर्शास्तदर्थं वादनियमा अपि प्रमाणान्तरोपलब्धं विना नासन्निति न निश्चयेन वक्तं शक्यते। भासकवेः प्रतिमा¹ नाटके प्राचीनाचार्यशास्त्रेषु मेधातिथियेन्यायशास्त्रं प्रतिष्ठितमवगम्यते। तत्रापि वादविषयोल्लेखः सम्भवति। परमत्र बार्हस्पत्यार्थशास्त्रस्य पृथगुल्लेखेन न्यायशास्त्रमिति शब्दमात्रेण तर्कोमीमांसा विषयान्तरं वा, तर्कशास्त्रत्वेऽपि तत्र वादविषय आसीन्न वा, सत्रपि किमात्मक आसीदिति न निश्चेतुं शक्यते। गौतमनागार्जुनादिभ्यः पूर्वतनेषु ग्रन्थेषु एतद्विषयानुपलम्भेन सामान्यरूपेण पूर्वतो वर्तमानानामेवैषां विषयाणां गौतमनागार्जुनादीनां मल्लप्रतिमल्लभावोदये विशेषतः प्रसर इति वक्तुं शक्यते। एतदन्तर्निध्याय चरकगौतमनागार्जुननिर्दिष्टवादविषयाणां तुल²नायां पौर्वापर्यपर्यालोचने न्यायावयवसिद्धान्ततन्त्रभेदादिषु चरकगौतमोक्तयोः साम्यदर्शनेऽपि, गौतमेन कथात्रैविध्यमुद्दिश्य सन्धायसम्भाषारूपस्य वादस्य तत्त्वबुभुत्सुकथात्मकतया, विगृह्यसंभाषारूपस्य जल्पस्य पक्षप्रतिपक्षकथात्मकतया, जल्पोपयोगितया छलजातिनिग्रहस्थानादीनां च निर्देशनेन, चरकेण तु उपायहृदये नागार्जुनेनेव विवादपर्यायरूपं वादामभिप्रेत्य तदनुबद्धतया छलजातिनिग्रहस्थानादीनां निर्देशनेन, तत्रापि छलजातिनिग्रहस्थानप्रभेदानां चरकोक्तापेक्षया गौतमोक्ते विभागसंख्याधिक्योपलम्भेन विकसितावस्थायाः, उपायहृदये केषुचित्पदार्थेषु गौतमचरकोक्तरितिनः प्रक्रियान्तरेण संक्षेपदर्शनेऽपि अधिकन्यूनत्रैविध्य-दृष्टान्तद्वैविध्य-सिद्धान्तधर्मचातुर्विध्य-विशतिविधप्रश्नोत्तरसम्बन्धादीनां बहुविशेषविषयाणां विकसितानां दर्शनेन, विकासवादक्रमोपादाने चरकसमयाद्गौतमनागार्जुनसमये विचारविका सोपलब्ध्या एकस्मिन्नेवविवादयुगेऽनुस्यूतानामपि चरकगौतमनागार्जुनानां किञ्चित्कालान्तरेण पौर्वापर्यमिति गौतमनागार्जुनसमयाच्चरकसमयः पूर्वः प्रतीयते। श्रीयुतसुरेन्द्रनाथदा³सगुप्तमहाशयेनापि उभयतो विगृह्यसंभाषाया विषयान् विमृश्य गौतमाच्चरकस्य प्राग्भावित्वे स्वाभिप्राय उद्घाटितो विद्यते।।

बौद्धत्रिपिटकस्य चीन⁴भाषानुवादे कनिष्कनृपते राजकुलवैद्यश्चरको नाम राज्ञ्या दुश्चिकित्स्यं रोगं न्‍‍यावारयदि‍ति वर्णनोपलम्भेन


१. साङ्गोपाङ्गं वेदमधीये मानवीयं धर्मशास्त्रं माहेश्वरं योगशास्त्रं बार्हस्पत्यमर्थशास्त्रं मेधातिथेर्न्यायशास्त्रं प्राचेतसं श्राद्धकल्पञ्चेति ॥
(प्रतिमानाटके पृ. ७९)
२. चीनभाषानुवादे तिब्बतीयभाषानुवादवत्प्रतिशब्दच्छायाया भावानुवादमात्रदर्शनेऽपि यथावस्थिततदनुवादतः संस्कृते विहितातत्रत्यनुवादतो लब्धानां विषयाणां तुलना ॥
३. History of Indian Philosophy Vol. I. by Dasagupta.
४. Chinese Buddhist Chronicle.

६८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

चरकाचार्यस्य कनिष्कसामयिकत्वलाभादुपप्रथमशताब्दीभवश्चरकाचार्य इति पाश्चात्त्यपण्डितसिलवां¹ल्लेभीमहाशयानामभ्युपगमः । तदात्वे दार्शनिकार्यनागार्जुनस्यैतिहासिकोपलम्भेन नागार्जुनीये उपायहृदये इव चरकीयलेखेऽपि विगृह्यसंभाषीयविषयोपन्यासेन च आर्यनागार्जुनचरकाचार्ययोः कनिष्कसामयिकत्वं संवदति । परं शिलालेखेतिवृत्तादिभिः कनिष्कनृपतेर्बौद्धत्वस्य, नागार्जुनाचार्ये कनिष्कसामयिकत्वस्य च बहुशः सिद्धावपि तन्त्रप्रतिसंस्कर्तुश्चरकस्यैव कनिष्कराजकुलवैद्यत्वोल्लेखे प्रामाण्यविषये मतभेदोऽस्ति । ²श्रीयुक्तकीथमहाशयस्यापि तथैव मतं वर्तते । चरकस्य कनिष्कसामयिकत्वेतदीयराजकुलवैद्यत्वे च कथं नैतदीयलेखे क्वापि बौद्धसंप्रदायच्छायानुवेधो दृश्यते, कथं वा वैदिकमन्वादीन्निर्दिश्य श्रौतप्रक्रिययैव व्यवहारणं चरकसंहितायां संगच्छेत, इत्यपि व्याघातकं निर्दिशन्ति । आत्रेयाग्निवेशग्रन्थस्य चरकाचार्येण केवलं प्रतिसंस्करणोक्त्या पूर्वाचार्यलेखे सांख्यदर्शनस्य श्रौतप्रक्रियायाश्च विद्यमानतया चरकीयतत्संस्करणेऽपि न बौद्धच्छायानुप्रवेशः, नैतावता प्रतिसंस्कर्तुश्चरकस्यातिप्राचीनत्वं साधयितुं शक्यते, इत्यपि केचन वदन्ति । केचन क्वचित्स्वभाववादाद्युल्लेखस्थले बौद्धमतमाहेति टीकाकृता चक्रपाणिना व्याख्यानादत्र बौद्धमतस्याप्यंशतः प्रवेशोऽस्तीत्यपि वदन्ति । केचित्तु स्वभाववादो हि न बौद्धानामेव, ततः प्राक्कालादपि प्रवृत्त इति नैतावता बौद्धमतानुप्रवेश इति वक्तुं शक्यते इत्यपि प्रतिवदन्ति ॥

चरकस्य कनिष्कवैद्यत्वे उपायहृदये भैषज्यविषयप्रसङ्गेन सुश्रुतमनुस्मरन्नार्यनागार्जुनः स्वसामयिकबौद्धनरपतेः कनिष्कस्य राजकुलवैद्यं तादृशं प्रसिद्धविद्वांसं चरकाचार्यं किमिति नाम्नोल्लिखितुं विस्मृतवान् स्यादित्यपि व्याघट्यति चेतः । यदि नाम साधनान्तरैश्चरकाचार्यस्य ततोऽप्यर्वाचीनत्वमसाधयिष्यत तदा आर्यनागार्जुनेन सुश्रुतमनुस्मरता चरकस्यानुल्लेखान्नागार्जुनसमया-दर्वाचीनश्चरकसमय इत्यभ्युपागंस्यत । दार्शनिकग्रन्थभूतेऽस्मिन्नुपायहृदये लेशतः प्रविष्टे प्रासङ्गिके वैद्यकविषये पूर्वेषामात्रेयाग्निवेशकश्यपादीनामिव बहुसमयमतीतस्य चरकाचार्यस्य बौद्धसम्प्रदाये प्रविष्टतया दृष्टस्य प्रसिद्धस्य जीवकस्य च आर्यनागार्जुनेन नामानिर्देशनं न खलु नोपपद्यते । तदनुल्लेखमात्रेणार्वाग्भावाभ्युपगमे आत्रेयादीनामपि तथात्वं कथं न शङ्क्येत । सुश्रुतसम्प्रदायस्य काश्यां, चरकसम्प्रदायस्य पञ्चालकाम्पिल्यादिपश्चिमप्रदेशे उदयेन तत्र तत्र विभागप्रदेशेषु क्रमशोऽनयोर्विकसनौचित्यात् पूर्वतः प्रदेशेषु सुश्रुतसम्प्रदायस्य विकसनं प्रसिद्धिश्च विशेषतोऽजायत, येन श्यामकम्बोडियाप्रदेशगतयशोवर्मजय³वर्मशिलालेखेषु वैद्याचार्यत्वेन सुश्रुतस्योल्लेख उपलभ्यते । नागार्जुनस्य दक्षिणदेशे मगधप्रदेशेऽपि विशेषतः सम्बन्धः, तेन पूर्वीयविभागे प्रसिद्धतरतया स्वसमाजमानिततया च सुश्रुतस्यैव बुद्धौ प्रथममनुस्मृत्या नागार्जुनेनोपग्रहणं कृतं किलेत्यपि वक्तुं शक्यते । परं चरकस्य कनिष्कराजकुलभिषग्भावे मिथः सहभावसम्पर्कवैदुष्य-परिचयादिकमुपेतेनार्यनागार्जुनेन सुश्रुतादपि चरकः प्रथमतः कथं नानुस्मर्येत । राजतरङ्गिणीकृताऽपि कनिष्कवृत्ते चरकः कथं नोल्लिख्येत च । गौतमसूत्राविर्भावात् पूर्वमपि न्यायवितण्डादीनां पदार्थानां प्रचार आसीत्, चरकीया लेखशैली ब्राह्मणग्रन्थच्छायानुविधायिनी दृश्यते, तेन चरको न कनिष्कस्य सामयिक इति सिलमहाशयादयः कथयन्ति ॥

तदेवं चरकाचार्यस्य समयान्वेषणे यथोपलम्भमुपपत्तिवादगर्भाणि बहूनि मतानि विपश्चितां दृक्पथमपयन्ति । यथातथमस्य समयं परिच्छिद्यावधारयितुमसाधारणानि साधनान्तराण्यपि गवेषणीयानि भवन्ति । श्रीयुतप्रफुल्लचन्द्र⁴रायमहोदयेनापि चरकस्य सुश्रुतस्य च समयविचारे बहु प्रपञ्चितमस्ति ॥


१. Jour Asiatique. 1896 T. VIII. P. 447.
२. Caraka, according to tradition was the physician of Kanishka, whose wife he helped in a critical case. Unhappily we cannot tell the value of such stories when they come to us at a late date. History of Sanskrit Literature. A. B. Keith P. 406
३. सुश्रुतोदितया वाचा समुदाचारसारया । एको वैद्यः परत्रापि प्रजाव्याधीन् जहार यः ।
आयुर्वेदास्त्रवेदेषु वैद्यवीरैर्विशारदैः । योऽघातयद्राष्ट्ररुजो रुजारीन् भेषजायुधैः ॥
४. History of Hindu Chemistry Vol. I. P. C. Ray.

उपोद्घातः ६९

वार्योविद्दारुवाह नग्नजिद्वेडाः

अस्यां काश्यपसंहितायां रोगाध्याये काश्यपसम्मतदोगद्वैविध्य¹वादितया, वमनविरेचनीयाध्यायेऽपि ग्रन्थत्रुट्याऽव्यक्तस्य मतविशेषस्य वादितयां च ‘इति वार्योविदः’ (सि.स्था.अ. ३) इति वार्योविदस्थोल्लेखाऽस्ति । ‘कुक्कुणकचिकित्साध्यायान्ते वार्योविदनृपतये मारीचकश्यपेन बाल²भैषज्यस्योपदेशो निर्दिष्टोऽस्ति । उत्तरभागे बहुशो जीवकस्य प्रश्ने सम्बोधने च सत्यपि ‘पार्थिव (खि.स्था.अ. १०), विशांपते (खि.स्था.अ. १०), नृपोत्तम (खि.स्था.अ. १०), नृप, नराधिप’ इति मध्ये मध्ये दृश्यमानं राजसम्बोधनं राजान्तरस्याप्रकृततया एकत्र नाम्ना निर्दिष्टं तमेव वार्योविदमभिप्रेतीति; देशसात्म्याध्याये ‘काशिराजो (काशिराजं) महामुनिः (खि.स्था.अ. २५)’ इति काशिराजत्वेन निर्दिष्टोऽपि स एव स्यादिति च लक्ष्यते । तेनैतल्लेखान्मारीचकश्यपस्योपदेश्यभूतस्तत्समकालो वैद्याचार्यो वार्योविदः काशिराज इत्यायति । आत्रेयसंहितायां वातकलाकलीयाध्याये (च.सू.अ. १२) मारीचिदार्योविदयोः पक्षप्रतिपक्षभावेन निर्देशनमपि तयोः सहभावं संवादयति । ³वातकलाकलीये, यज्जः⁴पुरुषीये, आत्रेयभद्र⁵काप्यीये च आत्रेयेण सह समवेतानां महर्षीणां सहभावेन वार्योविदस्य निर्देश आत्रेयवार्योविदयोरपि सहभावं, तत्र तत्र तदीयमतविशेषोल्लेखा वार्योविदस्य वैद्याचार्यत्वमपि स्पष्टमवबोधयति । यज्जःपुरुषीये आत्रेयसहभावेनकाशिपतित्वेन च निर्देशाद् वाम⁶कोऽपि काशिराजो वैद्याचार्य इत्यवबुध्यते । काशिराजत्वेनोपलभ्यमानानां वैद्याचार्याणां दिवोदास-वामक-वार्योविदानां त्रयाणां मिथः किंरूपं पौर्वापर्यमिति नैतावता परिच्छेतुं शक्यते । वार्योविदस्त्येदानीं ग्रन्थस्य वचनोद्धारस्य वा बहुशोऽनुपलब्धेऽपि आत्रेयकाश्यपसंहितयोस्तदीयमतোদ্ধारदर्शनेन तदात्वे प्रसिद्धिं दधान आचार्यविशेषोऽयमित्यवगन्तुं शक्यते । कश्यपेन बालभैषज्यमुपदिष्टतया निर्दिष्टोऽयमपि कौमारभृत्यप्रस्थानस्याचार्यः किमु ? । तदेवमात्रेयपुनर्वसोर्मारीचकश्यपस्य च सहभावेनोभयतो निर्दिष्टो वार्योविदो राजर्षिरपि मिथो नामोल्लेखं कुर्वतोरात्रेयपुनर्वसुमारीचकश्यपयोः कालतोऽविप्रकर्षमवगमयति ।।

किञ्चास्यां काश्यपसंहितायाम्—

‘उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः । चोदितो दारुवाहेन वेदनार्थेऽभ्यचोदयत्’ ।। (पृ. ३३)

इति निर्देशेन पूर्वभागे वृद्धजीवकस्य पृष्टतायां प्रेरको दारुवाहो ज्ञायते । तत्रैव रोगाध्याये रोगपाञ्चविध्यवादितया ‘पञ्चरोगा आगन्तुवातपित्तकफत्रिदोषजा इति दारुवाहो राजर्षिः’ (पृ. ३९) इति तस्य राजर्षित्वेनोल्लेखाऽस्ति । रोगद्वैविध्यवादितया वार्योविदस्य, रोगपाञ्चविध्यवादितया दारुवाहस्य च पृथङ्निर्देशेन विभिन्नव्यक्तित्वं स्पष्टं भासते, कुत्रत्योऽयं दारुवाहो राजर्षिरिति न ततः स्पष्टीभवति । किन्तु-अष्टाङ्गसंग्रहस्योत्तरस्थाने विषवेगविषये पुनर्वसुनग्नजिद्विदेहालम्बायनधन्वन्तरिमत-विशेषोल्लेखदर्शनेन न⁷ग्नजिन्नामकोऽपि वैद्याचार्योऽवगम्यते । तदीयेन्दुव्याख्या⁸यां ‘नग्नजितो दारुवाहिनः’ इति नग्नजिद्दारुवाहिशब्दौ


१. द्वौ रोगौ निजश्वागन्तुश्चेति वार्योविदः । (पृ. ३९)
२. इति वार्योविदायेदं महीपाय महर्षिः । शशंस सर्वमखिलं बालानामथ भेषजम् (खि.स्था.अ. १३)
३. वातकलाकलज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योन्यम् । ...... तच्छ्रुत्वा बडिशवचनमुवाच वार्योविदो राजर्षिः । (चरके.सू.अ. १२)
४. पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम् । समेतानां महर्षीणां प्रादुरासीदियं कथा । ...... वार्योविदस्त्व नेत्याह नह्येकं कारणं मनः । .... तथर्षीणां विवदतामुवाचेदं पुनर्वसुः । (चरके सू. अ. २५)
५. आत्रेयो भद्रकाप्यश्च ...... श्रीमान्वार्योविद्रश्चैव राजा मतिमतां वरः । ...... तेषां तत्रोपविष्टानामित्यमर्थवती कथा । ......... षड्रसा इति वार्योविदो राजर्षिः (चरके सू. अ. २६)
६. तदनन्तरं काशिपतेर्वामिको वाक्यमर्थवित् । ..... आत्रेयस्य वचनमनुनिशम्य पुनरेव वामकः काशिपत्तिरुवाच भगवन्तमात्रेयम् । (चरके सू. अ. २५)
७. ‘दुष्यति प्रथमे रक्त द्वितीये श्वयथूद्भवः । .... सप्तमे मरणं वेग इति नग्नजितो मतम्’ । (अष्टाङ्गहृदये)
८. नग्नजितो दारुवाहिनोऽप्यत्र दुष्यति प्रथमे रक्तमित्यादिक्रमेण सप्तवेगा इति मतम् (इन्दुव्याख्यायाम् पृ. ३१४)

७०काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

सामानाधिकरण्येनोपात्तौ। अत्रेन्नन्तशब्देनोपादानेऽपि चरकचक्रपाणिव्याख्यायां¹ दारुवाहनाम्ना वचनोद्धारस्य दर्शनेन काश्यपीयायामपि दारुवाहनाम्ना मतोल्लेखेन चान्त्यवर्णमात्रविभिन्ना एकैवेयं व्यक्तिः प्रतिभाति। अन्यत्र क्वचन निर्दिष्टोदारुः²कोऽपि नामैकदेशन्यायेनायमेव दारुवाहः किमु ? । दारुवाहेन सहैक्यमनुसन्धाय नग्नजितोऽनुसन्धाने भेडसंहिताया मुद्रितपुस्तके—

‘गान्धारभूमौ राजर्षिमग्नजित्स्वर्गमार्गदः । सङ्गृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ।।
एवमुक्तस्तथा तस्मै महर्षिः पार्थिवर्षये । विषयोगेषु विज्ञानं प्रोवाच वदतां वरः' ।।
(पृ. ३०)

इति राजर्षिमग्नजिदित्येवं पाठदर्शनेऽपि श्रीमद्भिर्यादवजीमहा³भागेस्तञ्जोरपुस्तकालयगतपुस्तकात् 'राजर्षिन्नग्नजित्स्वर्णमार्गदः' इति पाठस्योपलम्मेन, पूर्वापरवाक्यानुसारतः प्रथमान्तराजर्षिशब्दपाठस्यैवाचित्येन च तत्पाठानुसारेण नग्नजिन्नामभेडसमकालिकः कोऽपि गान्धारपार्थिवः चन्द्रभागाया मातुः सम्बन्धमादाय किल चान्द्रभागसंज्ञितस्य पूर्वापरसन्दर्भसिद्धस्य पुनर्वसोरात्रेयस्य सकाशे विषविषयकं प्रश्नं चकारोति ज्ञायते। अष्टाङ्गहृदये रसाद्रक्तमित्यस्यारुणदत्तव्याख्यां न⁴ग्नजितो वचनोद्धारस्य दर्शनेन, अष्टाङ्गसंग्रहे विषविषये 'इति नग्नजितोमतम्' इत्युल्लेखेन, भेडेऽपि विषविषये एतत्प्रश्नस्य दर्शनेन च सोऽयमेवेति संवादो दृढीभवति। दारुवाहस्य नग्नजितश्च पार्थिवत्वेनोपलम्भात्, इन्दुलेखतो द्वयोः सामानाधिकरण्यान्नानयोर्विषये तत्तन्नाम्नोपलभ्यमाना विशेषा गुणोपसंहारन्यायेन समन्वयं प्राप्नुवन्तोऽस्य गान्धारराजर्षेर्न केवलं विषविषय एव, अपितु वैद्यविद्यायामाचार्यभावमवगमयन्ति। पूर्वनिर्दिष्टे (पृ. १२) शालिहोत्रोक्ताश्वशास्त्रेऽप्यायुर्वेदकर्तॄणां मध्ये विनग्नजितो नाम दृश्यते, सोऽप्ययमेव स्यात् । ⁵'मात्स्ये वास्तुशास्त्रोपदेशकत्वेनापि नग्नजित उल्लेखोऽस्ति, स नग्नजित् गान्धारो राजा वाऽन्यो वेति न ततोऽवधार्यते ।।

किञ्च—ऐतरेय⁶ब्राह्मणे क्षत्रिययज्वनां फलचमसभक्षणस्य साम्प्रदायिकत्वप्रदर्शने नग्नजितो गान्धारस्योल्ले खोऽस्ति । ततः सर्वदिग्विजयराष्ट्रसम्पदादेः फलस्य क्षत्रिययजमानत्वस्य चोल्लेखेन नग्नजिन्नाम क्षत्रियो गान्धारमहाराजः फलचमसभक्षणेन प्रतिष्ठितश्रीकः सर्वशत्रुविजयी चासीदिति लभ्यते। एवमत्र निर्दिष्टो गान्धारमहाराजो नग्नजिदेव देशनामादिसाम्येन भेडेन ससंमानं राजर्षितया निर्दिष्टो गान्धारराजो नग्नजिद्भवितुमर्हति। शतपथ⁷ब्राह्मणेऽपि चित्यां प्राणमृदुपधाने नग्नजितः (नग्नजित्पुत्रस्य) स्वर्जितः, गान्धारस्य नग्नजितश्चोल्ले खोऽस्ति। तत्र प्राणमहिमवक्तृत्वस्य राजन्यबन्धुत्वस्य च निर्देशेन शारीरविद्याचार्यौ गान्धारराजर्षिर्नग्नजिदेवानेनापि निर्दिष्टः प्रतीयते। अत्र तदीयपुत्रस्य स्वर्जिन्नाम्नोल्ले खो भेडलेखे स्वर्गमार्गद इति नग्नजितो


१. यदाह दारुवाहः—सूक्ष्मसूक्ष्मतरास्तेषु दूरदूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पं चिरेण यत् ।। .....
(चरकचक्रपाणिव्याख्यायां चि. अ. ३) .
२. चरकचक्रपाणिव्याख्यां चि. अ. ३ ।।
३. निर्णयसागरमुद्रितचरकद्वितीयसंस्करणभूमिकायां द्रष्टव्यम्।
४. 'नग्नजिदप्याह—तत्राहाररसात्पूर्वं रसधातुर्विवर्धते। रक्तं धातुरसाश्चैव रक्ताख्यान्मांसमेव च' ।। अष्टाङ्गहृदयटीकायां शारीरे।
(अ. ३)
५. भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा। नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः।
............... अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः। (मात्स्ये २५२ अध्याये)
६. “तमेवमेतं भक्षं प्रोवाच रामो भार्गवेयो विश्वन्तराय शौष्व्नाय। ...... एतमुहैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षिताय। ....... भीमाय वैदर्भाय, नग्नजिते गान्धाराय ...... ते ह ते सर्व एव महज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियं प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमाहवन्तः ...... उग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः" ऐतरेयब्राह्मणे ३५. ८. पृ. ८९२ (आनन्दाश्रममुद्रिते)।
७. अथ ह स्माह स्वर्जिन्नाग्नजितः, नग्नजिद्वा गान्धारः प्राणो वै समञ्चनप्रसारणं यस्मिन् वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति ..... तदुवाच राजन्यबन्धुरिव त्वेव तदुवाच .......। शतपथब्राह्मणे ८-१-४-१० ।

उपोद्घातः | ७१

विशेषणं च कश्चन तदीयविजयवृत्तान्तं साम्येन सूचयति किमु ? एवं संवादेन नग्नजित ऐतरेयशतपथकालादनर्वाचीनत्वेऽनुसन्धीयमाने ‘नग्नजितो दारुवाहिनोऽप्यत्र’ इति इन्दुलेखे अपिशब्दसत्तया व्यक्तिद्वयकल्पनेऽपि औपदेशिकेन सम्बन्धेन नग्नजित्सम्बन्धस्य पुनर्वसोरात्रेयस्य तदन्तेवासिनो भेडाचार्यस्यापि ऐतरेयशतपथब्राह्मणकालादनर्वाग्भाव आयाति । तेन ‘स्वर्णमार्गद् इति पददर्शनेन पारसीकमहाराजस्य दारायसनाम्नः समसमयकौ (B.C. 521-485) गान्धारमहाराज नग्नजिद्बेडौ’ इति कल्पनं न समीचीनं प्रतिभाति ।।

एवं महाभारते$^१$ युगान्तेऽन्तर्हितान् वेदेतिहासादींस्तपोबलेनाधिगम्य तत्तद्विद्याप्रकाशकानां महर्षीणां निर्देशे कृष्णात्रेयस्य चिकित्सितोपदेशकत्वमुल्लिखितं दृश्यते । कृष्णात्रेय एव पुनर्वसुरात्रेयो भवतु मा वा । भेडेऽपि चरकसंहितायां कृष्णात्रेयस्याप्युपदेशोल्लेखेन तत्सहभाविनः पुनर्वसोरात्रेयस्य महाभारतकालात् प्राचीनत्वं ततोऽप्यायाति ॥

तदेवमात्रेयसहभाविभावेन मारीचकश्यपोल्लेखः, वायोर्विदस्य मारीचकश्यपात्रेयपुनर्वसुसहभावः, कृष्णात्रेयस्य पुनर्वस्वात्रेयसामानाधिकरण्यं, चिकित्सितप्रवर्तकत्वेन कृष्णात्रेयस्य महाभारते निर्देशः, आत्रेयान्तेवासितया भेडोल्लेखः, भेडसहभावितयाऽऽत्रेयपुनर्वसूपदेश्यता च गान्धारनृपस्य नग्नजित उल्लेखः, नग्नजितो दारुवाहस्य च सामानाधिकरण्यं, दारुवाहस्य काश्यपीये निर्देशः, गान्धारनृपस्य नग्नजित ऐतरेयब्राह्मणे, गान्धारस्य प्राणविदो नग्नजितस्तत्पुत्रस्य स्वर्जतोऽपि शतपथब्राह्मणे कीर्तनं, दिवोदासस्य ब्राह्मणोपनिषदादिषूपलम्भः, तत्पूर्वपुरुषत्वेन धन्वन्तरेर्लाभश्चेत्येवं सर्वतो दृशः प्रवर्त्य विचारणे मारीचकश्यपः, पुनर्वसुरात्रेयः, भेडः, नग्नजिद्दारुवाहः, वायोर्विदश्चैते भैषज्यविद्याचार्या ऐतरेयशतपथकालादनर्वाचीनाधन्वन्तरिदिवोदासवद् ब्राह्मणोपनिषत्समये सहभावेन लेशतः पौर्वापर्येण वा वर्तमाना आसन्नित्यवधारयितुमृजुः पन्थाः पुरो भवति ।।

तदेवंवेदकालादारभ्य प्रतिष्ठितेयं भारतीयायुर्वेदविद्या ब्राह्मणोपनिषत्कालेऽपीदृशैर्महर्षिभिर्भरिते तत्रापि विशेषतो बहुभिराचार्यैः पश्चिमविभागेः परामुन्नतिमापादिताऽऽसीदिति निर्धार्यते इत्यलम् ।

रसग्रन्थाः

भावप्रकाशाद्यर्वाचीनग्रन्थेषु कानिचिद्वैदेशिकान्यौषधानि, काचन वैदेश्या प्रक्रिया, धातुरसादीनां विशेषप्रयोगाः, अहिफेनादीनामुपयोगाश्चेत्यादयोऽर्वाचीना विषया उपलभ्यन्तां नाम; ततः कियताऽपि समयेन पूर्वतनेषु सिद्धयोगादिषु पारदधात्वादीनां सामान्यतः प्रयोगदर्शनोपलम्भेऽपि ततः पूर्वं वाग्भटसमयपर्यन्तमपीदृशा विषया विशेषतोऽप्रविष्टा दृश्यन्ते । चतुर्थीशताब्दीपुस्तकलेखतया सम्भाविते बावरोद्धृतनावनीतकादौ, ततोऽपि पूर्वत्वेन सम्भाविते हार्नलोपलब्धलेखपुस्तकेऽपि स्वर्णादिधातूनामुल्लेखेऽपि तदीयशोधनादिविशेषप्रक्रिया पारदाद्युपयोगाश्च न विशेषत उपलभ्यन्ते । अन्ततो महावग्गीयजीवकवृत्ते भैषज्यानुपयोगिनो वनस्पतेर्विषये गुरुणाऽनुयुक्तेन जीवकेन तथाविधस्यैकस्याप्यनुपलब्धिकीर्तनं, तत्र घृतनस्यादिभिरौषधैः शस्त्रक्रियया वा रोगिणां चिकित्सनं, रसधात्वादीनां क्वाप्यनुपयोगनं चोपलभ्यमानमपि जीवकसमयपर्यन्तमपि रसधात्वाद्यौषधानामप्रचलनमवगमयति । $^२$चरकसुश्रुत$^३$योरपि धातूनां मणीनां चौषधेषु उद्देशमात्रं दृश्यते, न तु तेषां शोधनादिकं तत्सिद्धान्यौषधानि पारदौषधोल्लेखाेडहिफेनादयो वा निर्दिष्टाः । काश्यपीये तु खिलभागे आत्रेयभेडलेखयोरिव शोथादिषु


१. युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ।।
वेदविद्वेद भगवान् वेदाङ्गानि बृहस्पतिः । भार्गवो नीतिशास्त्रं तु जगाद् जगतो हितम् ।।
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम् । देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ।।
न्यायतन्त्रान्यनेकानि तैस्तैरुक्तानि वादिभिः । (शान्तिपर्वणि २१० अध्याये)
२. ‘सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा । मनःशिलाले मणयो लवणं गैरिकाञ्जने ।।
भौममौषधमुद्दिष्टम्’ (चरकसूत्रस्थाने अ. १)
३. ‘पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः’ । (सुश्रुते सूत्रस्थाने अ. १)

६ का.सं.

७२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

द्वित्रिवारमेव अयोरजस्ताम्ररजसोरुपयोगोल्लेखोऽस्ति। काश्यपीये तच्छोधनभस्मीकरणादेरनिर्देशेऽपि भक्षणेऽप्युपयोगलेखेन शोध नादिकमभिप्रेतं स्यादित्यनुमीयते। एतावदन्तरेण धातूवादीनां पारदस्य चोपयोगो नात्र दृश्यते। नवाऽहिफेनादयोऽन्येवाऽर्वाचीना विषया दृश्यन्ते इति यथा यथा प्राक्तनत्वं तथा तथैषां पश्चाद्भवविषयाणां विरलताऽनुपादानं चेक्ष्यते॥

कुतः कदाऽस्योद्गम ? इति विचारे-रसायनविद्यायां प्रयुज्यमानः केमिस्ट्री (Chemistry) शब्दः-अलकेमी-विज्ञानमवबोधयति। केमिष्ट्रीशब्दो मिश्रदेशीयात् ‘क्यामी’ शब्दात्रिष्पन्नइति मिश्रदेशात् प्रादुर्भूता रसायनविद्या आरव्यदेशे ग्रीसदेशे च प्रसृत्य ततो युरोपदेशे प्रससारेति कस्यचिन्मतं वर्तते ॥

केचन-मिश्रदेशेतद्विद्यावाची ‘क्यामी’ शब्दो नोपलभ्यते। न वा तत्र रसायनविद्यायाः प्रागुद्भवैतिवृत्तं किमप्युपलभ्यते। केमिष्ट्रीशब्दो हि तृतीयशताब्दीभवादारब्यात् ‘किमाइ’ शब्दात्रिष्पन्नः। सोऽयं शब्द एल्लेमीशब्दार्थे सिनिसनामकेन विदुषास्वीयेऽभिधानग्रन्थे निर्दिश्यते। सेयं विद्या न वा मिश्रदेशे, न वा ग्रीसदेशे समुद्भूता। तथात्वे हेरोडोटस-डायोडोरस-प्लुचाट-प्लीनीप्रभृतिभिः प्राचीनैस्तदीयविद्वद्भिः किमिति तद्विषये किमपि नोल्लिख्येत। मिश्रदेशीयानां ग्रीसदेशीयानां च तृतीयचतुर्थशताब्दीपर्यन्तं रसायनविद्याया ज्ञानमेव नासीत्। एल्केमीविद्यायां पारदस्य प्रयोगः पश्चादेवोपलभ्यते। तेन पाश्चात्यदेशेषु रसायनविद्याविदां सर्वप्रथम आरब्यदेशीयो ग्याबरनामको विद्वानिति निश्चितमस्मि। तत एवैषा विद्या सर्वत्र प्रससारेति केचन वदन्ति॥ केचन वैदिकसमये सोमरसस्य बहुशो व्यवहारदर्शनेन रसायनविद्याया उद्भव ऋग्वेदकालादेव भारते आसीत्। तन्मूलकतया चरकादिसमये यूषशारीररसादिषु रसशब्दो व्यवह्रियत। तदनु रसस्येव तरलतागुणमादाय पारदे द्रवीकृतधातुष्वपि स शब्दो व्यवहृतोऽभूदिति भारतीयरसप्रक्रियाया मूलमतिपुरातनम्। रसप्रक्रिया हि रसविषयकतान्त्रिकग्रन्थेषु प्राथमिकतया, तदनुगृहीतेषु पश्चात्तनरसग्रन्थेषु विकसिततया समीक्ष्यते। सेयं प्रक्रिया नागार्जुनेन प्रवर्धितेति विवेचकानां विचारोन्मेषश्च। लोहशास्त्रं पतञ्जलिना निर्मितमासीदिति बहुस्थलेषु निर्दिष्टमस्ति। पारसीकमतप्रवर्तकाज्जस्थुष्टात् प्रागेव तद्देशनिवासिनो ये मागीजातीयास्तैरियं रसायनगुप्तविद्या भारतीयब्राह्मणेभ्योऽधिगतेति तदीयेतिहासादपि ज्ञायते। ग्रीसदेशेयरसायनग्रन्थेष्वपि तद्विद्याविषये पर्सियादेशस्य तत्पूर्वदेशानां च बहुशो निर्देशोऽस्ति। तेन पूर्वं भारत एव आविर्भूतेयं रसौषधप्रक्रिया। भारतीयवैद्यानामारब्यदेशोपगमस्य चरकसुश्रुताद्यनुवादस्य भारतीयचिकित्साया आदरेणेनापि भारतादेव आरब्यादिदेशेष्वपि एतद्विद्यायाः प्रचारो गम्यते। एकादशद्वादशशताब्दीसमयें आरब्यदेशेऽपि रसप्रक्रिया उन्नतावस्थायामासीदिति तदीयेतिवृत्ततो विज्ञायते। तेन रसशोधनादिपरिज्ञानमारब्यदेशादुपलब्धं भारतेनेति कथनं यत्किञ्चिदेव। रसप्रक्रिया बहुशताब्दीपर्यन्तं पाश्चात्त्यैयुरोपदेशीयैरनुपादेयत्वबुद्ध्या न परिगृहीता समयेन तदीयगुणपरिज्ञानेऽर्वाक्समयत एव पाश्चात्यदेशेषु प्रचलतितेति समुल्लिखन्तीतिहासलेखाकाः पी.सी. रायप्रभृतयोमहानुभावाः॥

रक्तपारदं ग्रीसदेशे रोमदेशे च भारताद्गतमिति लेखोपलम्भेन तदुपवर्णने जायसवालमहोदयेन रक्तपारदं रससिन्दूरमिति कोष्ठके विवृतं दृश्यते। परं रससिन्दूरे रक्तपारदशब्दस्याप्रयोगदर्शनेन हिङ्गुलपर्यायेषु तच्छब्दोपलम्भेन च सोऽयं रक्तपारदशब्दो हिङ्गुलमात्रपरः स्यादिति भाति॥

भारते रसविद्याज्ञानं पुरैवासीदिति तुप्रथमशताब्दीवर्तिनोभर्तृहरेः 'उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः’ इत्युल्लेखेनापि दृढीक्रियत इत्यादि केचनोपवर्णयन्ति॥

धातूनां विज्ञानं प्रथमत एवासीदिति तु आत्रेयसुश्रुतकाश्यपादीनां धातूल्लेखेनापि ज्ञायते। बालकेभ्यो जातमात्रेभ्यः सुवर्णप्राशन-तदवलेहनादिरूपं तत्फल-गौरवं च कश्यपेनाप्युपदिष्टमस्ति (पृ. ४) धातूनां रत्नानां च धारणादिना


१. भर्तृहरिः प्रथमशताब्दीवर्तीति विचार्यमेतत्।
२. First Oriental Conference 1919. P. 15-16

उपोद्घातः ७३

आयुरारोग्यादिश्रेयस्करत्वं श्रुतिषु स्मृतिषु चोल्लिखितं बहुशोदृश्यमानमतिपुराकालादेश तदुपयोगपरिज्ञानं भारतीयानामभिव्यनक्ति । यजुर्वेदे 'प्रथमो दैव्यो भिषक्' इति रुद्रस्यापि प्रथमवैद्याचार्यत्वं प्रतिपाद्यते । आत्रेयादिभिर्ब्रह्मणः प्राथमिकत्वमुल्लिख्यते, न तत्र रुद्रस्योल्लेखः । तन्त्रशास्त्रे नातसम्प्रदायीयग्रन्थेऽपि रसवैद्यकस्य विषयस्तत्र तत्रोपलभ्यते । तन्त्रशास्त्रे नाथसम्प्रदाये च शिवस्य परमाचार्यत्वं निर्दिश्यते । तेन तान्त्रिकादिप्रचलितरसवैद्यकादिरूपप्रस्थानान्तरे मूलाचार्यत्वं रुद्रस्य भवितुमर्हति । रसविषयस्य प्राचीनतन्त्रग्रन्थेष्वप्युपलभ्यमानतया चरकसुश्रुतकाश्यपीयादिषु लेशतोऽपि तद्दर्शनेन च अर्वाचीनत्वमेवेति न वक्तु शक्यते । अरबदेशे सप्तमशताब्दीतः प्रचलितस्यापि रसायनस्य युरोपीयैः षोडशशताब्दीत एव ग्रहणमिव पूर्वतः प्रचलितस्यापि तन्त्रोक्तस्य रसवैद्यकस्य वैदिकसंप्रदायानुरक्तदृष्टिभिरात्रेयादिभिः स्वसमये लेशत एव ग्रहणमारब्धमासीदित्यपि वक्तुं न खलु न शक्यते ।।

धातूंनां शोधनादिना योगेन च तन्त्रोक्ता भारतीयाऽपि नानारसौषधनिर्माणप्रक्रिया बहुपुराकाले गुप्ताऽप्रचलिता आंशिकरूपेण वर्तमाना वाऽऽसीत् । पश्चात्काले नागार्जुनादिभिर्भारतीयैः रसविद्याचार्यैः प्रकाशं विकासं चापादिता स्यात् । येन प्रत्नतरग्रन्थेषु विशेषेण तदनुपलम्भ इति वक्तुं मनः प्रवणीभवतीत्यलम् ।।

(३) संस्कारतुलनादिसहितो विषयपरिच्छेदः

प्रतिसंस्कारः

प्राचीनाचार्यानामोपलब्धासु संहितासु वृद्धजीवकीयतन्त्ररूपा काश्यपसंहिता, चरकसंहितारूपा आत्रेयाग्निवेशसंहिता, सुश्रुतसंहितारूपा धन्वन्तरिसंहिता, भेडसंहिता न प्रातीनेति तासु क्वचनार्वाचीनत्वसंशयकानां पदवाक्यप्रबन्धविशेषाणामनुप्रवेशोऽपि संस्कारवशादेव स्यादिति च सविशेषमुपदर्शितम् ।।

तत्र काश्यपसंहितायाः संक्षिप्तस्वरूपविशेषस्य वृद्धजीवकीयतन्त्रस्य वात्स्येव प्रतिसंस्करणमेतदीये संहिताकल्पाध्याये (क. स्था.) कण्ठोक्तमेव । आत्रेयसंहितात्मकस्याग्निवेशतन्त्रस्य चरकाचार्येण प्रतिसंस्करणं च चरकसंहितायाः ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इति श्लोके स्पष्टमेवोक्तमस्ति । सुश्रुतसंहितायाः प्रतिसंस्करणस्य ग्रन्थाभ्यन्तरे स्पष्टोक्तेरदर्शनेऽपि डल्लनादिभिष्टीकाकारैर्नागार्जुनीयं संस्करणमुल्लिख्यते । प्रतिसंस्कर्ता नागार्जुनो भवतु मा वा, तत्र तत्र विषयान्तरदर्शनादिना संस्कारनिष्पन्नमेतद्वर्तमानस्वरूपमिति तु सर्वैर्विद्वद्भि रवधार्यत एव । भेडसंहितायां कश्यपमतत्वेनोल्लिखितः ‘चक्षुरिति कश्यपः’ इति चक्षुर्निर्वृत्तिवादः, कश्यपोद्धृतो भेडीयः षड्वर्षोत्तरं विरेचनवादश्च उपलब्धभेडसंहितायां विसंवादं दर्शयतीत्युक्तमेव (पृ. १३) । भेडसंहितायां ज्वरसमुच्चयोद्धृतभेडवचनानां निरीक्षणे भेडनाम्नोद्धृतेषु पञ्चाशदधिकेषु श्लोकेषु मुद्रितभेडसंहितायां लेश¹त (सार्धश्लोकत) एव संवादेन ज्वरप्रकरणमिव प्रकरणान्तरमपि बहुशस्त्रुटितं विकलाङ्गमन्तराऽन्तरा विषयान्तरं पुनः प्रतिसंस्करणं च स्पष्टमवबुध्यते । तदीदृशो विप्लवो भेडसंहितायां धियमन्यथा गमयति । एकमात्रेयोपदेशमादाय पृथक्पृथङ्गिबन्ध्नोरग्निवेशभेडयोः पश्चान्निदर्शयिष्यमाणं बहुशः प्रबन्धनसाम्यं क्वचनांशे संवादासादनमप्यनुसन्धीयमानं धियः पुनः परावर्तयति । तदेवं भेडसंहितायां दृश्यमानो दोषः कालस्यैव शिरसि पातनीयः । पुनःसंस्करणोल्लेखस्तु न क्वाप्युपलभ्यते, तथाऽपि पुनः प्रतिसंस्करणं त्वत्रापि जातं स्पष्टमवबुध्यते ।।

तत्रात्रेयसंहितादीनुपादाय निबद्धानामग्निवेशतन्त्रादीनां चरकाचार्यादिभिः किंरूपं संस्करणं व्यधायीति विमर्शे चरकस्य संस्करणे दृढबलेन संस्करणक्रिया एवमुपवर्णिता दृश्यते—


१. शोषयत्येष भूतानि दारुणो विषमज्वरः । मु.पु.पृ. १२१
त्रिफला कषायसिद्धेन घृतेन मतिमान् भिषक् । स्नेहयेत यथान्यायं युक्त्या वृषघृतेन वा । पृ. १२२

७४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

'विस्ता¹रयति लेशोक्तं संक्षिपत्यति विस्तरम् । संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्' । इति ।

अध्यायनामानि

नवेगान्धारणीयः मात्राशितीयः
आत्रेयभद्रकाप्यीयः
यस्यश्यावनिमित्तीयः
अवाक्शिरसीयः

अनेन संक्षिप्तस्य विस्तारः, विस्तृतस्य संक्षेपश्च चरकीयनिबन्धनस्य प्रक्रियाद्वयं समीक्ष्यते । तच्च संक्षिप्तस्य पूर्वग्रन्थस्य स्थाने विस्तृतलेखान्तरस्य विस्तृतस्य पूर्वग्रन्थस्य स्थाने संक्षिप्तलेखान्तरस्य यथौचित्यं रचनमिति आवापोद्वापप्रक्रियाऽपि सम्भवति । किं वा पूर्वग्रन्थस्य संक्षिप्तस्य नातिविशदतया तदुत्तरं पुनस्तस्य विशदीकरणेन विस्तृतलेखान्तरं, पूर्वग्रन्थस्य विस्तृतस्य ग्रहणधारणयोः सौकर्याय सारांशमादाय संग्रहेण संक्षिप्तलेखान्तरमपीति संग्रहविग्रहप्रक्रियया पौनरुत्त्यप्रक्रियया वाऽपि संभवति । अनयोः प्रक्रिययोः प्रथमा आवापोद्वापप्रक्रिया यदि गृहीताऽभविष्यत्, तदा आत्रेयसंहिताऽग्निवेशतन्त्ररूपस्य मूलग्रन्थस्य स्वरूपं बहुनाऽशेन विपर्यासमापत्स्यत । तथात्वे नवमेव विरचनमुपजातमिति चरकसंहितायां ग्रन्थाभ्यन्तरे आत्रेयाग्निवेशप्रतिवचनप्रश्नाद्युपन्या सस्यापि किं वा प्रयोजनं स्यात् । तद्विषये वक्तव्यं सामान्यविशेषात्मना शृङ्खलीकृत्यानुक्तवा संक्षेपविस्ताररूपेण वाक्यभेदेन च पुनः पुनः कथनं चरसंहितायामुपलभ्यमानं किंहेतुकं स्यात्, इति मूलसंहितायाः केवलमावापोद्वापप्रक्रियया संस्करणेन नवनिबन्धनात्मकत्वं न चरकसंहितायाः, अपि तु मूलग्रन्थे क्वचन संक्षिप्योक्तस्य विषयस्य विशदीकरणात्मना विस्तृतलेखस्य क्वचन विस्तरेणोक्तस्य विषयस्य लघुनोपायेन तदर्थग्रहणधारणोपयोगिनः संक्षिप्तलेखस्यापि विन्यासेन पौनरुत्त्यप्रक्रिययाऽपि संस्करणं चरकाचार्येण विहितं संभाव्यते ।।

चरकाचार्य उपलब्धमानैतत्संहिताया न स्वातन्त्र्येण निर्माता, अपि तु पूर्वसिद्धस्य आत्रेयसंहितागर्भितस्याग्निवेशतन्त्रस्य प्रतिसंस्कर्तैवेत्यस्मिन् विचारे इयं समन्वयदृष्टिरुन्मिषति—

आत्रेयसंहितायां निदानचिकित्सितादिस्थानेषु प्रायो विषयानुपादायैवाध्यायनामनिर्देशेऽपि सूत्रविमानशारीरादिस्थानेषु क्वचन विषयविशेषोपादाने सत्यपि अध्यायादिवाक्यप्रतीकमादाय कल्पितानि दीर्घञ्जीवितीयापामार्गतण्डुलीयारग्वधीयकतिधा-पुरुषीयातुल्‍यगोत्रीयादीनि अध्यायनामानि बहुशो दृश्यन्ते । आदिप्रतीकमुपादाय नामकरणे कानिचिन्नामानि विभक्तिगर्भपदव्यूहरूपान्यपि दृश्यन्ते । तत्तदध्यायोपसंहारसंग्रहश्लोकेऽपि तेनैव नाम्ना तदध्यायोल्लेखदर्शनेन इमान्यध्यायनामानि नाध्येतृसंप्रदायमात्रकल्पितानि, अपि तु ग्रन्थकर्तुरेव लेखनीतो निर्गतानीति निश्चीयते । भेडसंहितायामपि सूत्रविमानशारीरेन्द्रियस्थानेष्वादिप्रतीकग्राहीणि नामानि एकद्ववर्णावभेदेऽपि कानिचिदुभयतः साम्येन दृश्यन्ते । यथाहि—

अध्यायादिप्रतीकाः

चरकेभेडे
न वेगान् धारयेद्धीरःन वेगान् धारयेद्धीमान्
मात्राशी स्यादाहारमात्रामात्राशी स्याद्विपक्वाशी.
आत्रेयो भद्रकाप्यश्च यस्यआत्रेयः खण्डकाप्यश्च.
श्यावे परिव्र्वस्तेयस्य श्यावे उभे नेत्रे.
अवाक्शिरा वा जिह्वा वाअवाक्शिरा वा जिह्वा वा.

एवं न्यायेनात्रेयभेडयोः संवादीनि इन्द्रियोपक्रमणीय-तिस्रैषणीय-वातकलाकलीय-विधिशोणितीय-दशप्राणायतनीय-दशमूलायाष्टोदरीय-रसविमान-पुरुषनि(वि)चय-खड्डीकागर्भावक्रान्ति-जातिसूत्रीयादीनि नामानि च दृश्यन्ते ।।


१. लेशोक्तं विस्तरत्यर्थं संक्षिपत्यतिविस्तरम् ।। संस्कारः कुरुते तन्त्रं संस्कृतं च पुनर्नवम् ।। (इति ताडपत्रपुस्तके पाठः)

उपोद्घातः ७५

स्नेहाध्यायस्वेदाध्यायादीनां निदानचिकित्साध्यायादीनां च विषयानुपगृह्य विहितानां नाम्नां साम्यस्य स्वतः सम्भवेऽपि एवमुभयत्रैकेन प्रतीकेनाध्यायोपक्रमः, विभक्तिगर्भमपि प्रतीकमुपादायाध्यायनामकरणं, समाननामस्वस्वध्यायेषु विशेषविषयाणां साम्यं च दृश्यमानमेकसूत्रानुरोधेन विभिन्नकर्तृभ्यां विहिते लेखद्वये सम्भवति। मिथोऽनपेक्षभावेन एकसूत्रानपेक्षभावेन च निष्पन्नयोः स्वतन्त्रलेखयोर्नैषंभावः सहजतः संभवति। तेन आत्रेयेण तत्तत्प्रतीकेनोपक्रम्योपदिष्टानांमध्यायानां वाक्यानि विषयांश्रोपादाय स्वस्वावबुद्धोपबृंहणरूपान्यर्थान्तराण्यप्यन्तर्निवेश्य भेडाग्निवेशाभ्यां पृथक्पृथक्तन्त्रस्य प्रणयनादेवरूपं साम्यं मिथः सञ्जातमवगम्यते।।

क्वचन आत्रेयसंहितायामादिप्रतीकमुपादाय निबद्धानि केषाञ्चिदध्यायानां नामानि भेडसंहितायामध्यायादिप्रतीकविभेदेऽपि समानानि दृश्यन्ते। तथाहि—

भेडचरकसंहितयोरध्यायनामानि—चरके प्रतीकः—भेडे प्रतीकः—
व्याधितरूपीयम्.द्वौ पुरुषौ व्याधितरूपौ भवतःगुरुर्व्याधिनरः कश्चित्.
शारीरविचयःशारीरविचयः शारीरोपकारार्थंइह खल्वोजस्तेजः
शारीरसंख्याशारीरसंख्यामवयवशःइह खलु शरीर षट् त्वचः,
पूर्वरूपीयम्पूर्वरूपाण्यसाध्यानांअन्तर्लोहितकायस्तु.
गोमयचूर्णीयम्.यस्य गोमयचूर्णाभंचूर्णं शिरसि यस्यैव.

एवं दर्शनेन आत्रेयसंहितायां तत्तदुपक्रमप्रतीकमुपादाय व्यवहृतैस्तैर्नामभिः प्रतीकैश्राग्निवेशेन व्यवहृते भेडेन स्वलेखे प्रतीकविभेदेऽपि पूर्वपरम्परागतैस्तैरेव नामभिर्व्यवहृतं प्रतीयते। तेषां नाम्नां प्रतीकानां चात्रेयीयतया उभयत्र एकैकशो द्विशश्चानुरूप्यं समुचितमेव। अग्निवेशीयमात्रत्वे तु सतीत्थ्येन भेडेन तदनुसरणे बीजं दुर्निरूपं स्यात्। चरकाचार्येण तैः प्रतीकैरुपक्रम्य चरकसंहिता स्वयं निबद्धाऽभविष्यत्तदा ततः प्राक्तनो भेडः कथमिदमन्वसरिष्यत्। भेडाग्निवेशसंहितयोः स्थानानामष्टतयाऽध्यायानां सविंशशतत्वेन संख्यासाम्यमप्येतदेव दर्शयति। 'सिध्यति प्रतिकुर्वाण इत्यात्रेयस्य शासनम्' इति भेडसंहितायां चतुष्पादाध्याये (पृ. १५) अप्रतीकारवादं खण्डयत आत्रेयस्य सनांग्राहं सशब्दच्छायोपादानं निर्दिष्टं मतं वर्तमानचरकसंहितायां महाचतुष्पादाध्याये (सू.अ. १०) सविस्तरं निर्दिष्टं संवदति। ईदृशस्यात्रेयमतत्वेन निर्दिष्टस्योभयत्र संवादोपलम्भ आत्रेयोपदेशस्यैतदात्मना पूर्वसत्त्वं स्पष्टं गमयति च। खुड्डाकचतुष्पादाध्याये चरके भेडे चैकरूप्येणोपलभ्यमाना मृद्दण्डचक्रेत्यादयः सिद्धान्तश्लोका अप्यात्रेयसंहितागता भवितुमर्हन्ति। एवंरूपैरुभयतः संवादिभिरध्यायनामभिर्विषयादिभिश्चानयोः संहितयोरन्तरनुस्यूताऽऽत्रेयसंहिता पूर्वमासीदेवेति बुद्धावुपस्थाप्यते। तामात्रेयसंहितामन्तर्भाव्यतदीयविषयाँश्चोपादाय यथास्वं विचारविशेषोपबृंहिताभिः स्वोक्तिभिरप्यन्तराऽन्तरा परिपोष्य च संक्षेपप्रियेण भेडेन संक्षिप्तात्मना, विस्तारप्रियेणाग्निवेशेन विस्तृतात्मना सैव संहिता पृथक्पृथक्तन्त्ररूपतामनायि। भेडे चतुष्पादविषये एक एवाध्यायः, तत्र प्रथमत आत्रेय-शौनकयोर्विप्रतिपत्तिवादमुपादाय भिषजो ज्ञानवैशिष्ट्यदृष्टिरात्रेयस्य, ततश्चतुष्पादानां वर्णनान्ते सिद्धान्तरूपेण भिषकप्राधान्यवादोल्लेखः संक्षेपेण दर्शितः। आत्रेयीये तद्विषये द्वावध्यायौ, तत्र पूर्वस्मिन् खुड्डाकाध्याये चतुष्पादानुपवर्ण्य सिद्धान्तरूपेण सविशेषं भिषक्पादप्राधान्योल्लेखः, उत्तरस्मिन्नध्याये मैत्रेया(शौनक ?)त्रेयमतयोः पक्षप्रतिपक्षभावेन निर्देश इति त एव विषया एकेन लघ्वात्मना अपरेण महात्मना प्रतिपादिता दृश्यन्ते। एवमेव बहुशः स्थलेष्वग्निवेशतन्त्रे भेडतन्त्रे च यथाक्रमं गौरवं लाघवं चानुसन्धातुं शक्येते॥

काश्यपसंहितायां चरकसंहितायां भेडसंहितायां सुश्रुतसंहितायामपि गद्यमयानि पद्यमयानि च वाक्यानि दृश्यन्ते। क्षारपाणिजतूकर्णहारीतादीनां वाक्यान्यपि कानिचिद् गद्यरूपाणि कानिचित् पद्यरूपाणि टीकाकारैरुद्धृतानि दृश्यमानानि तदीयग्रन्थानपि गद्यपद्योभयसंबलिताननुमापयन्ति। ज्वरसमुच्चये एकं ज्वरविषयकमात्रमुपादाय तद्विषये काश्यपात्रेयसुश्रुतादीनां

७६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

हारीतादीनां सतीर्थ्यानामन्येषामपि प्राचीनाचार्याणां केवलं पद्यवाक्यान्युद्धृतान्युपलभ्यन्ते। तत्र गृहीतानां हारीतक्षारपाणिजतूकर्णभेदादीनां सतीर्थ्यानामाचार्याणां वाक्यान्युपादायानुसन्धाने शब्दानुपूर्वीभङ्गीविभेदेऽप्येकाचार्योपदेशसूत्रसन्दब्धः समानो निगर्भोऽवबुध्यते। भेडतन्त्रवज्जतूकर्णहारीतक्षारपाण्यादीनामात्रेयान्तेवासिनामन्वेषामपि सम्पूर्णतन्त्राणि यद्यलप्स्यन्त, भेडतन्त्रमपि सकलमविकलमलप्स्यत, तदा सर्वाणि पुरो निधायालोचने एकोपदेशमूलकतया सर्वतोऽनुवृत्ताएतेंऽशाः प्राचीना आत्रेयीयाः, मिथो व्यावृत्ता इमेऽशास्तदेकविशेषदृष्टिविकासुरूपाः संकारविभूतयो वेति परिच्छेद्दृशः प्रसृत्या अग्निवेशतन्त्रस्य चरकप्रतिसंस्करणस्य च विशेषमुन्मीलयितुं विशेषालोकलाभेन सौकर्यमभविष्यत्। तदेवं ज्वरसमुच्चयोद्धृतकतिपयवचन-विषयसंवाददृष्टिरपि सब्रह्मचारिणामुच्चावचनानाचित्तभूमिकाष्वेकात्रेयाचार्योपदेशबीजवापेन परितः सजातीयानेकाङ्कुरोदयं निश्चाययति॥

चरकसंहिताविषये चरकनाम्ना प्रसिद्धेयं संहिता चरकाचार्यस्य कृतिरिति, लघुरूपस्य पूर्वतन्त्रस्य सर्वशतः परिवर्तनपरिवर्धनादिना चरकाचार्येण नवमेव निबन्धनं कृतमिति, आयुर्वेदविदां महर्षीणां समवाये तत्र तत्रोपजातान् विमर्षनाकर्ण्य सङ्गृह्य चरकाचार्येणेयं चरकसंहिता न्यबध्येतेति च¹ नानाविधा विचारवितर्का दृश्यन्ते। परं पूर्वोक्तदिशा मूलभूताया आत्रेयसंहितायास्तन्मूलकस्याग्निवेशतन्त्रस्य च पूर्वसत्त्वस्य स्पष्टावगमेन ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते’ इति स्पष्टतया चरकोक्त्या च तन्त्रनिबन्धाऽग्निवेश एव, चरकस्तु तन्त्रान्तरेभ्यः समुच्चितैः स्वविचारारूढैश्च विषयान्तरैः समुपबृंह्य अन्यानपि संस्कारोचितविधीन् विधाय अग्निवेशतन्त्रस्य प्रतिसंस्कर्तैव। चरक एवास्य रचयिता यद्यभविष्यत् तदा किमिति स आचार्यः स्वं नाम कथं तथारूपेण नोदलेखिष्यत्। अग्निवेशस्य नामानि ग्रन्थाभ्यन्तरे सम्बोधनादिरूपेण बहुशो लभ्यन्ते, नैवं चरकस्य नाम चरकप्रतिसंस्कृते इत्युल्लेखख्वर्जं क्वापि ग्रन्थान्तरुपलभ्यते। उत्तरग्रन्थपूरको दृढबलोऽपि—

‘अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना। संस्कृतं तत्तु संसृष्टं विभागेनोपलक्ष्यते।।
यस्य द्वादशसाहस्त्री हृदि तिष्ठति संहिता। चिकित्सा वह्निवेशस्य स्वस्थातुरहितं प्रति’ ।।

इति वदँश्चरकस्य केवलं संस्कृतृत्वं, द्वादशसाहस्त्रसंहितायाअग्निवेशीयत्वं च स्पष्टं निर्दिशति। चरकस्य विशेषनिबन्धृभावे तदुत्तरस्तदुपजीवी तदीयग्रन्थपूरको दृढबलोऽपि कथमेवमग्निवेशं कर्तृतयोल्लिख्य चरकं संस्कृतत्वेनैव लिखेत्। सर्वतः सञ्चरणशीलतयाऽन्वर्थां चरकसंज्ञां वहताऽऽचार्येण सर्वतोऽस्य ग्रन्थस्य संस्करणेन प्रचारणेन प्रवचनेन प्रयोगकौशलेन उपकारपथस्य प्रवर्तनेन च चरकसंहितेति तन्नाम्ना प्रसिद्धिः प्रवृत्ता स्यात्। सैव प्रसिद्धिश्चरकाचार्यस्य कर्तृत्वभ्रान्तयेऽजायतेति मन्ये॥

तेन पूर्वोपदर्शितदृढबलीयसंस्करणपरिभाषोक्तरीत्या क्वचन पदविशेषा वाक्यविशेषाः सन्दर्भविशेषा वा संस्कर्तुश्चरकाचार्यस्य लेखनीतो निर्गत्यानुप्रविष्टा भवेयुः। सामान्यतोऽनुसन्धाने केचनेदृशा विषयाश्चरकाचार्यस्य लेखनीसम्बन्धमिवावभासयन्ति—

चरकसंहितायां निर्दिष्टे वादन्यायविषये दृश्यमानस्य पश्चात्तनविषयविकासस्य चरकसामयिकत्वसम्भावना पूर्वं प्रदर्शिताैव॥

स्वेदप्रक्रियाविभागनिरूपणे भेडसंहितायां सङ्करप्रस्तरसेकादयोऽष्टावेव विभागाः कीर्तिताः सन्ति। उपलभ्यमानचरकसंहितायां भेदोल्लिखितानष्टौ भेदांस्ततोऽन्यानु पञ्चभेदानप्युपादाय त्रयोदशविधाः स्वेदा निर्दिष्टा दृश्यन्ते। त्रयोदशधा विभागस्यात्रेयोपदिष्टत्वे आत्रेयानुगामिन्यां भेडसंहितायामपि तावद्भिरेव भेदैर्भवितव्यम्। काश्यपसंहितायामपि अष्टविभागनिर्देशेन प्राचीनौ विचारोऽष्टविभागसम्बद्धोऽवगम्यते। प्राचीनैरष्टविभागैः सह योजितेषु भेदान्तरेषु जेन्ताकहोलाकशब्दयोर्बाह्ययोरिव दृश्यमानतया च भेदान्तराणामनुयोजनेन त्रयोदशभेदवर्णनं चरकाचार्यस्य विकासदृष्टेर्निदर्शनमनुमापयति॥

भेडे खुड्डीकागर्भान्क्रान्तेरध्याय एक एव। तत्र मातापितृजत्वं गर्भस्याननुमन्यमानस्य भरद्वाजस्य मतंप्रतिक्षिप्य तत्स्थापयत आत्रेयसिद्धान्तस्य निर्देशोऽस्ति। चरके खुड्डीकाध्यायेऽपि स एव विषयः, इत्युभयोः संवादेन एवंरूप एकात्रेयीय


१. वसुमती वर्ष ९, पृष्ठ ३७८।

उपोद्घातः ७७

आग्निवेश्य उपन्यासः स्यात्। चरके तदुत्तरं पुनरन्यो महागर्भावक्रान्त्यध्यायोऽस्ति। तत्र गर्भसम्बन्धीन्येव विषयान्तराणि निरूपितानि। तेषां विषयाणां भेडोऽनुपलम्भेन चरकीयः पश्चात्तनो विकासः प्रतिभाति। अथवा खुड्डिकापद्दर्शनेन महागर्भावक्रान्त्यध्यायस्यापि पूर्वत आग्निवेश्यसंहितायां सत्त्वं, भेडे खण्डितत्वम्, इत्यपि संभवति॥

वर्तमानचरकसंहिताया उपक्रमग्रन्थे ऋषीणां समवाये भरद्वाजेनेन्द्रसकाशाल्लब्धस्यायुर्वेदस्य प्रकाशनात् तमप्राप्तवतआत्रेयस्य शिष्यैरग्निवेशादिभिस्तन्त्रप्रणयनस्य अग्निवेशादितन्त्राणां भुवि प्रतिष्ठायाश्चाग्निवेशेन कथनापेक्षया चरकेण स्वसंस्क्रियमाणग्रन्थस्य साम्प्रदायिकत्वोत्कृष्टत्वादिमहिमगानस्यौचित्यात्, अग्निवेशेन पश्चात्क्वाप्येतेद्विद्याया भारद्वाजोपदेशप्राप्तेरसूचनात्, प्रत्युत भारद्वाजमतस्य प्रतिक्षेपदर्शनेन भारद्वाजसम्बन्धविशेषोल्लेखे तदौदासीन्यावगमाच्च, ‘अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः, इति ह स्माह भगवानात्रेयः’ इति वाक्यद्वयान्ते ‘हिताहितं सुखं दुःखं’ इत्यादित एवाग्निवेशतन्त्रस्य प्रारम्भे अन्तरागतो ग्रन्थावतरणिकांशश्चरकाचार्येण पूरितः स्यादित्यपि सम्भाव्यते। हिताहितमित्यादिकस्य ग्रन्थस्य प्राचीनप्रौढेरनुरूपलेखच्छायायास्तत्पूर्ववाक्ये विसंवादोऽपि एतदेवाख्यातुं हृदयमभिमुखीकरोति॥

वर्तमानचरकसंहितायां भेडसंहितायां च दृश्यमानयोः नवेगान्धारणीयाध्याययोस्तुलनायां चरकसंहितागतलेखे वेगनिरोधौचित्यानौचित्यसम्बद्धस्यैव विषयस्य, भेडलेखे तु अध्यायस्योपक्रमोपसंहारयोस्तद्विषयसत्त्वेऽपि मध्ये तदनुस्यूतानां दन्तधावनधूमवर्त्यादिविषयान्तराणामपि तत्स्थाने दर्शनेन अग्निवेशीये सन्दर्भशुद्धिः, भेडलेखे रचनायां किं वा उपलब्धपुस्तकस्य विकृत्या तदशुद्धिरवगम्यते॥

नावनीतके आत्रेयमतत्वेनोद्धृतानां बहूनां योगौषधविशेषाणां चरकसंहितायां संवादेऽपि द्वित्रयोगौषधानामसंवादेन, श्रीयुतचक्रपाणिशिवदासादिभिः अग्निवेशनाम्नोद्धृतानां कतिपयश्लोकानां चरकसंहितायामदर्शनेन च अग्निवेशसंहिताताः संस्करणावसरे कियान् भागो निष्कासितश्चेत्यप्यनुमीयते॥

इत्थमुपदर्शितदिशा भेडसंहितामग्निवेशतन्त्रं च पुरो निधाय प्रतिविषयमुभयत आलोचने स्थलान्तरेष्वपि चरकसंहितागता भेडसंहितागताश्च विशेषा बहुशो गवेषकाणां नयनयोः प्रतिभासेरन्॥

चरकसंहितायामध्यायाभ्यन्तरेऽपि तत्रतत्रोक्तानां गद्यवाक्यार्थानां प्रायः पद्यैः क्वचन गद्यैरपि संक्षेपेण क्वचन विस्तारेण च सङ्ग्रहविग्रहरूपत्वमापाद्यते। मध्ये मध्येऽपि ‘भवन्ति चात्र, अत्र श्लोकाः’ इत्यादिरूपेण क्वचन सङ्ग्रहार्थं क्वचनोपपादकार्थमवबोधयन्तः पद्यलेखाः, प्रत्यध्यायमान्ते ‘अत्र श्लोकाः’ इत्युद्दिष्टार्थसंग्राहकाः श्लोका अपि दृश्यन्ते। संक्षिप्तस्य विवरणेन ग्रहणसौकर्यं, विस्तृतस्य संक्षेपेण धारणसौकर्यं भावयन्त इत्थं लेखाः प्राचीनाचार्यलेखेषूपलभ्यन्ते। व्याकरणमहाभाष्यकारस्यापीयं शैली। कुसुमाञ्जल्यादिष्वपि कारिकाप्रतिपाद्यार्थानां पूरणिकारूपैर्गद्यवाक्यैर्विशदीकरणं, शास्त्रदीपिकाभामत्यादिषु विस्तृतप्रघट्टकार्थस्य कारिकारूपेण सङ्ग्रहणं दृश्यते। सुश्रुतकाश्यपीयादिष्वपि सङ्ग्रहविग्रहरूपेण द्विधा वर्णनं तत्र तत्रोपलभ्यते। इत्थमेकस्यापि विषयस्य बुभुत्सूनां हृदयोद्बोधनाय समासेन व्यासेन द्विधा निरूपणं मूलाचार्यस्यापि सम्भवति। एकप्रकारेण पूर्वाचार्येक्ते पुनरपरथा पश्चात् संस्कत्र्रा निरूपणमपि सम्भवति। गहनेषु विषयेष्वन्तर्मिमङ्क्षूणामुपयोगायेत्यमुक्तिभेदो न पौनरुक्त्यदोषमावहतीति प्रतिपत्तये—

‘गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते। तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते’ ।।

इति चरकसंहितायां स्पष्टमेवोक्तमस्ति। इत्थं समासव्यासरूपाभ्यां रचनाकौशलं ‘प्रौढिर्व्याससमासौ च’ इति गुणत्वेन न पुनर्द्दोषत्वेन कीर्त्यतेऽभियुक्तैः॥


१. निदानस्थाने अ. २. श्लो. ४१।

७८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तदेवं चरकाचार्येणाग्निवेशतन्त्रं वाक्यश उपादायैव उपपत्तिपूर्तये संक्षिप्तये विशदीकृतये ग्रहणधारणोपयोगितया च स्वयमात्मना पूरणीयतया उपबृंहणीयतया च दृष्टानि पदानि वाक्यानि प्रघट्टकाँश्चानुप्रवेश्य मूलवाक्यानां स्वीयवाक्यानां च तिलतण्डुलभावायमानमेव प्रतिसंस्करणं व्यधायि। यथा हि भारतग्रन्थमन्तर्निवेश्यैव नानोपाख्यानादीनि वैशम्पायनादिप्रश्नप्रतिवचनादीनि पूरणिकावाक्यानि आद्यन्तयोरुपक्रमोपसंहारग्रन्थाँश्च निवेश्योपबृंहणेन भारतस्य महाभारतभाव इति महाभारतविमर्शेऽन्यत्रास्माभिः प्रतिपादितमस्ति। एवं प्रायमेवात्र संस्करणेन परिमार्जितरूपान्तरमुपपादितं चरकाचार्येण। येन मूलग्रन्थपरवशत्या मूलग्रन्थस्य यादृशो विषयपौर्वापर्यक्रमः स एव संस्कारोत्तरमपीत्यस्यां चरकसंहितायां सुश्रुतसंहितापेक्षया विशृङ्खलितो ग्रन्थसन्दर्भ इति लोकदृष्टिश्चरकाचार्येणापि न परिजह्रे। स्वातन्त्र्येणानेन निबद्धं यद्यभविष्यत् तदा तादृशः प्रौढविद्वान् पौर्वापर्यक्रमसन्दर्भशुद्धिं कथं नादर्शयिष्यत्। समासव्यासभेदेन पौनरुक्त्यमापन्नस्य प्रकीर्णस्य विषयस्याप्येकत्र सङ्कलनेन तथाभावं कथं न पर्यहरिष्यत्। एवंसंस्करणे ज्वरसमुच्चये आश्विनभारद्वाजादीनामपि वचनोपलम्भेन तद्दृष्टिपथं गतत्वेन सम्भावनीयानां भारद्वाजादिसंहितानामप्यनुसन्धानेन ततोऽपि सङ्गृहीता विषयाश्चरकाचार्येणान्रानुप्रवेशिता भवेयुः। तदेवं बहुभिः प्रयत्नैर्य्यापारैश्च प्रतिसंस्कृत्य प्राचीनेयं संहिता बहुविचारविषयपूर्णतां नीता स्यात्। येनैतत्परिज्ञानेन तन्त्रान्तराणां गतार्थतामस्या महनीयतां च संहितान्ते दृढबलः स्वमुखेनोद्गिरति—

‘यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इति ।।

तदनेन गुणगौरवेण अन्वर्थस्य चरकनाम्न आनुरूप्येण सर्वतश्चरित्वा प्रचारेण किलास्य ग्रन्थस्यान्तरङ्गदृशा आत्रेयाग्निवेशसंहितारूपत्वेऽपि बहिरङ्गदृशा वर्तमानसंहितायाश्चरकसंहितानाम्ना ख्यातिरुपाजायत किल ? ।।

भेडसंहिताया अपि तावदध्यायात्मकत्वावगमेन च पूर्वं सविंशाध्या¹यशतात्मकग्रन्थस्य स्थानाष्टकरूपस्य आत्रेयेण अग्निवेशेन चोपदेशनस्योक्त्या साकल्येन वर्तमानस्यास्य ग्रन्थस्य अपस्मारप्रकरणोत्तरभागस्य कालवशाद्विलोपेन चरकसमयेऽप्यसंस्करणेन पश्चादात्रेयोपदिष्टहारीतादीनामुपदेशेभ्यो विषयाननुसन्धाय दृढबलः पूरणं चकार किलेति संभाव्यते। पश्चात्पूरिते तावति भागे पूर्वापेक्षयाऽवतीर्णः पद्यप्रायो विभिन्नलेखोऽप्येतदेव समर्थयति ।।

अग्निवेशनाम्ना चक्रपाणिशिवदासादिभिरुद्धृतानां वचनानां दर्शनेन तावत्समयपर्यन्तमग्निवेशतन्त्रस्योपलब्धिरासीत् किलेत्यपि सम्भावयितुं शक्यते। परं तथात्वे दृढबलसमयेऽपि तदवस्थितिसम्भवेन अग्निवेशतन्त्रस्यैव शेषभागयोजनेन पूरणमुपेक्ष्य शिलोञ्छवृत्त्या बहुभ्यस्तन्त्रान्तरेभ्यो विषयान् समुच्चित्य चिकित्सास्थानान्तसप्तदशाध्यायान् सिद्धिकल्पस्थाने च निबद्ध्य पूरणे दृढबलः किमिति प्रवर्तेत। अग्निवेशतन्त्रतः पूरणमनुल्लिख्य तन्त्रान्तरेभ्यः पूरणं स स्वमुखेन वर्णयति। उपसहस्रवर्षपूर्वलेखितपुस्तकोपलब्धेन ततोऽपि प्राचीनतयाऽवगते ज्वरसमुच्चये चरकस्य वचनोद्धारे सत्यप्यग्निवेशवचनोद्धाराभावेन, वाग्भटादिभिरपि चरकस्यैवोल्लेखेन, हारुरसीदन्नृपसमयेऽप्यस्या एव चरकसंहिताया अनुवादेन च वाग्भटदृढबलादिसमयात् पूर्वमेवाग्निवेशतन्त्रस्य विलुप्तिरनुमीयते। चक्रपाणिशिवदासादिपर्यन्तमप्यग्निवेशतन्त्रोपलम्भेऽग्निवेशस्य चरकस्य च तत्र तत्र विषये साम्ये वैषम्ये च बहुशः प्रदर्शयितव्ये कतिपयानामेवाग्निवेशवचनानामुद्धारदर्शनं प्राचीननिबन्धेषु टीकासुविहितेभ्य उद्धारेभ्यस्तदुपलम्भं द्योतयति ।।

सुश्रुतसंहितायास्तु संस्करणे न स्पष्टतया ग्रन्थलेखोऽस्ति। केवलं 'प्रतिसंस्कर्ताऽपीह नागार्जुनः' इति डल्लनलेखमुपलभ्य सुश्रुतसंहितायाः प्रतिसंस्कर्तारं नागार्जुनं केचिन्मन्यन्ते। नागार्जुनस्य प्रतिसंस्कर्तृभावेऽपि सुश्रुतस्य ततः पूर्वतनत्वं सिद्ध्यति। किन्तु वर्तमाना सुश्रुतसंहिता नागार्जुनेन प्रतिसंस्कृतेत्यत्र न किमपि बलवत्साधनमुपलभ्यते इति पूर्वमेवोक्तम्। यदि सप्रतिसंस्कर्ताऽभविष्यत् तदा चरके ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते’ इति लेखवदत्रापि स्वस्य प्रतिसंस्कर्तृतां कथं


१. इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्।

उपोध्गातः ७९

नोदलेखिष्यत् । आर्यनागार्जुनस्य अन्यनागार्जुनस्यापि ग्रन्थान्तरेषु शल्यविषयसूचनाऽपि क्वचन नोपलभ्यते । आर्यनागार्जुनस्य उपायहृदये सुश्रुतस्य नामकीर्तनेऽपि पूर्वनिर्दिष्टभैषज्यविद्यानिरूपणे शल्यविषयः पृथक्तया नोपात्तः । शान्तिप्रधाने बौद्धमार्गे परिनिष्ठितो बोधिसत्त्वस्थानीयो विद्वान् शस्त्रसाध्यायां शल्यविद्यायां कुतो वा प्रवृत्तः स्यादित्यपि सन्दिग्धो चेतः । आर्यनागार्जुनेनान्येन तान्त्रिकनागार्जुनेन वाऽस्याः संस्करणे दृढवासनानुस्यूता बौद्धीच्छायाऽवश्यमस्यां प्रवेष्टुमर्हति । न खल्वस्यां संहितायां क्वचन लेशतोऽपि बौद्धसम्प्रदायच्छायाोपलभ्यते, प्रत्युत—

महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै ।।

इति रामकृष्णादीनां महिमोल्लेखस्तत्र तत्र वैदिकमन्त्रप्रयोगः, अध्यात्मविषये सांख्यदर्शनग्रहणं च दृश्यते । तदेवं नागार्जुनस्य सुश्रुतसंहिताप्रतिसंस्कर्तृभाव आत्मनः साधनाय बलवत्प्रमाणमपेक्षते । सुश्रुतस्य पुनः संस्करणमुपलभ्यतेऽस्माभिरिति बहूनां प्राच्यानां पाश्चात्त्यानां च विदुषामभिप्रायः । क्वचिदर्वाचीनविषयाणामप्यनुप्रवेशदर्शनेनात्रापि संस्करणलेखनी प्रविष्टा इति ममाप्यभिप्रेतम् । परमेतदीये संस्करणे चरकसंहितायामिव न पौनरुक्त्यात्मकं संस्करणं प्रायः समीक्ष्यते । संस्कर्ता च उत्तरतन्त्रभागयोजकश्च अयमिति स्पष्टं तु न ज्ञायते, परं मत्सकाशस्थे ६३३ नेवारसंवल्लिखिते ताडपत्रीये सुश्रुत-पुस्तके पुष्पिकायां पूर्वभागे 'सुश्रुते शल्यतन्त्रे' इति, उत्तरतन्त्रान्ते 'इति सौश्रुते महोत्तरतन्त्रे चतुःषष्टितमोऽध्यायः, अतो निघण्टुर्भाविष्यति इति' तदुत्तरगते निघण्टुभागे समाप्ते 'सौश्रुत्यां संहितायां महोत्तरायां निघण्टुः समाप्तः' इति लेखो दृश्यते । इदमर्थप्रत्ययान्तेन सुश्रुतशब्देन सुश्रुतग्रन्थस्यापि ग्रहणं सम्भवति, परं पूर्वापरभागयोरेकनिबन्धुभावे एकेनैव रूपेणोल्लेखरव समुचिततया पूर्वभागे सुश्रुतशब्देन, उत्तरभागे सौश्रुतशब्देन विभिन्नतया निर्देशः पूर्वभागः सुश्रुताचार्यस्य, उत्तरभागस्तद्वंश्यस्य सौश्रुताचार्यस्येति बुद्ध्यावरोहयति । निघण्टुभागे उपक्रमे दिवोदासोपदेशसम्बन्धस्योल्लेखदर्शनेऽपि मूलाचार्यस्यैकतया ग्रन्थस्य समूलत्वेन प्रामाण्यविशेषामाधातुं तथा निर्देशनस्य सम्भावितया, एतदीयलेखस्यकिञ्चिदवतीर्णतया, तस्मिन्निघण्टुभागे उत्तरभागीय-शब्दविशेषाणामपि प्रविष्टतया च स निघण्टुभागोऽपि सौश्रुतस्यैव भवितुमर्हति । उत्तरतन्त्रं संयोज्यापूर्णशापूरकेण सौश्रुताचार्येण पूर्वभागेऽपि क्वचन संस्करणविशेषोऽपि विहितः स्यात् । महाभाष्यकृतः सौश्रुतशब्दघटितनिदर्शनस्य दर्शनेन सौश्रुतानामपि पूर्व प्रसिद्धिः, सुश्रुतवंश्यानां सौश्रुतानां शल्यविद्याविदां पार्थिवैः सह सम्बन्धमादाय सौश्रुतपार्थिवा इति पूर्वतः प्रसिद्धिरिति पूर्वं दर्शितमेव । तेन सुश्रुतस्य वंश्येन साम्प्रदायिकेन वा सौश्रुताचार्येण सुश्रुतस्य पूर्वतन्त्रं संस्कृतमुत्तरतन्त्रं निघण्टुभागश्च योजिते इत्यनुमीयते ।।

पूर्वाचार्यसंहितामुपलभ्यापि प्रस्थानान्तरीयाचार्यग्रन्थेभ्यो विशेषान्तराणामवगमे तान्यप्यनुप्रवेश्य पूर्वसंहिताया न्यूनतापरिहारेण सर्वाङ्गपूर्तये प्रयत्नस्य साधुतया दर्शनेन किल पश्चाद्योजकेन तन्त्रान्तरावगतविषयाणामपि संयोजनं, पूर्वतन्त्रां दिवोदाससंहितामुपादाय निबद्धायां सुश्रुतसंहितायामुत्तरतन्त्ररूपेण विहितं स्यात् । उत्तरभागे निविष्टा विषया विदेहादिपादिकीर्तितशालाक्यादितन्त्रान्तरसम्बद्धा इति तदुक्त्यैव स्पष्टीभवति । तत्रत्ये कौमारभृत्यप्रकरणे मूले आचार्यन्तरनिर्देशे कुमाराबाधहेतुभिरिति सामान्यत उल्लेखेऽपि तट्टीकाकृता पार्वतकबन्धकजीवकादिभिरिति निर्देशनेन जीवकस्यैतद्ग्रन्थोपलम्मेन च काश्यपजीवकादिप्रोक्तास्तदीयविषया-नप्युपादायोत्तरतन्त्रे योजनं कृतं सम्भाव्यते ।।

सुश्रुतोत्तरतन्त्रे रसप्रभेददर्शनपरस्य चतुःषष्ट्यध्यायस्य दोषप्रभेददर्शनपरस्यान्तिमस्य अध्यायस्य चान्तरा पञ्चषष्टि-तमोऽध्यायस्तन्त्रयुक्त्यध्यायः । कौटिलीयर्थशास्त्रेऽप्यन्तिमस्तन्त्रयुक्त्यध्यायः । उभयोर्युगपदालोचने उभयत्र द्वात्रिंशद्विधानां तन्त्रयुक्तीनामधिकरणदीनामूह्यान्तानां तदन्तर्गतानामुद्देशनिर्देशोपदेशप्रदेशातिदेशादीनां ग्रन्थान्तरेष्वदृष्टानामासाधारणभेदानामन्येषां च पदार्थानां केवलं स्वस्ववैद्यकनैतिकविषयकोदाहरणवर्जं निर्वचनसाम्यं दृश्यमानमेकस्यापरत्र छायानुवेधमनुमापयति । तत्र कतरस्यान्यतरस्मिंश्छायानुवेध इति पर्यालोचने कौटिलीये औपनिषदाधिकरणसमाप्तौ ग्रन्थान्ते शास्त्रीययुक्तिप्रदर्शनमिव सुश्रुतोत्तरतन्त्रे सहप्रवेष्टुमर्हयो रसभेददोषभेदप्रकरणयोरन्तरा तन्त्रयुक्त्यध्यायप्रवेशः पूर्वापरसङ्गतिदार्ढ्यमनुपपद्यन्नन्यदीयच्छायानुवेधेन

८० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

संस्करणान्तरे वाऽनुप्रवेशं सम्भावयति । चरकसंहितायामपि ग्रन्थान्ते तन्त्रयुक्तेर्विषया उद्देशमात्रेण निविष्टा दृश्यन्ते । तेऽपि दृढबलपूरितांश एव । पश्चात्तनेऽप्युत्तरतन्त्रे धन्वन्तर्युक्तिरूपतया पूर्वभागसम्बन्धेन प्रामाणिकत्वविशेषमवगमयितुं ‘यथोवाच भगवान् धन्वन्तरिः’ इति पूर्वभागवल्लेखोऽत्राप्यनुप्रवेशितो लेखकेनेति सम्भाव्यते । तदस्यां सुश्रुतसंहितायामनुप्रवेश्यविषयान्तराणि मूलग्रन्थोत्तरमुत्तरतन्त्ररूपेण पृथक्तयैव संयोजितानि न तु चरक इव तन्त्रान्तरालेष्वेवैकशरीरतामापाद्य । येन नवपुराणयोर्विषययोः संहितान्तरसंगृहीतविषयाणामपि परिच्छेदेन दर्शनं सुकरमुपजायते । सुश्रुतसंहितायां प्रथमाध्यायान्ते “सविंशमध्यायशतं पञ्चसुस्थानेषु संविभज्य उत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः” इति मुद्रितपुस्तकपाठदर्शने पूर्वसंहितासमये उत्तरतन्त्रस्यापि सद्भावप्रतीत्या द्वयोर्भागयोः समकालत्वमेवायाति । परं मदीयसङ्ग्रहालयगते प्राचीनताडपत्रपुस्तके तत्र तत्र बहुशः पाठभेदाः सन्ति । अत्रापि ‘........ संविभज्य उत्तरे वक्ष्यामः’ इति पाठोऽस्ति । येन १२० अध्यायान् पञ्चस्थानेषु विभज्य अत उत्तरं वक्ष्याम इत्येव ग्रन्थाशयो, न किलोत्तरतन्त्रनिर्देश इति प्रतिभाति । तृतीयाध्यायादौ अध्यायगणने मुद्रितपुस्तके दृश्यमानः ‘तदुत्तरं षट्षष्टिः’ इत्यंशोऽपि ताडपुस्तके नास्ति । किन्तु ‘अतःपरं स्वनाम्नैव तन्त्रमुत्तरमुच्यते’ इत्यारम्भविरहिता उत्तरतन्त्राध्यायविषयसंग्राहकाः ‘विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि’ इत्यन्ताः श्लोकास्तु ताडपुस्तकेऽपि सन्ति । पश्चादुत्तरतन्त्रभागयोजनोत्तरं तद्विषयसूचीश्लोका इमेऽप्यनुप्रविष्टा बहुशः सम्भवन्ति ॥

वृद्धजीवकीये तु पूर्वतन्याः काश्यपसंहिताया महत्त्वेन वृद्धजीवकेन संक्षिप्य तन्त्रं निर्मितमिति संहिताकल्पाध्यायलेखेन काश्यपीयसंहिता येन रूपेणासीन्न तेनैव स्वरूपेण वृद्धजीवकतन्त्ररूपतामापन्ना, अपितु संक्षिप्तराचनान्तरेण रूपान्तरमापन्ना इति स्पष्टमवबुध्यते । परं वृद्धजीवकेन संक्षेपणेऽपि मूलसंहितामनपेक्ष्य न स्वातन्त्र्येण रचनं विहितमपि तु तदीयोपदेशरूपाणि वाक्यानि तदर्थाश्चान्तर्भाव्यैव मध्ये मध्ये विच्छेदनीयविस्तृतांशानपहाय महत्याः संहिताया लघ्वाकारता केवलं विहिता इति तल्लेखतः प्रतीयते ॥

अत्रादितोऽन्तपर्यन्तं प्रत्यध्यायं पूर्वभागे खिलभागेऽपि ‘इत्याह भगवान् कश्यपः, इति ह स्माह भगवान् कश्यपः’ इत्युपक्रमोपसंहारवाक्ययोरेकरूप्यदर्शनेऽपि तदन्तर्गतानि न सर्वाणि वाक्यानि कश्यपस्य, अपितु सिद्धान्तोपदेशवाक्यान्येव तदीयानि, मध्ये मध्ये तत्तद्विषयोपन्यासाय पूरणिकारूपेण निर्दिष्टानि उपक्रमोपसंहरणवाक्यादीनि पश्चाद्वृद्धजीवकेन तन्त्रस्वरूपतापादने पूरितान्यपि भवितुमर्हन्ति । आद्यन्तयोः सर्वेष्वध्यायेषु ‘इत्याह कश्यपः’ इत्युल्लेखनं तु सर्वस्यास्य विषयस्य स्वकपोलकल्पनारूपत्वमपहृत्य कश्यपोपज्ञाभावेन कश्यपोक्तसंहिताया एव साररूपतया च प्रामाण्यं व्यवस्थापयितुं जीवकेन विहितं स्यात् । ‘इत्याह कश्यपः’ इत्युपक्रम्य निर्दिष्टस्यापि प्रकरणस्याभ्यन्तरे पूर्वभागे ‘साहसादतिबालस्य सर्वं नेच्छति कश्यपः’ (पृ. १२२), मज्जवसायोस्तु मण्डं सर्वेषां कश्यपः पूर्वम् (पृ. १७), ‘अथ कश्यपोऽब्रवीत् सर्वमप्येतदसम्यक्’ इत्यादिषु स्थलेषु, खिलभागेऽपि “पाययेदिति कश्यपः (अ. १० श्लो. ७३), यथास्वमिति कश्यप (अ. १० श्लो. ६६), पेय इति ह स्माह कश्यपः (अ. १० श्लो. ५८)” इत्यादिस्थलेषु पुनः कश्यपशब्दोल्लेखनं तदीयसिद्धान्तानामर्थानुवादं जीवककृतं सूचयति, किंवा वृद्धजीवकोपदेशकस्य मारीचकश्यपस्य तत्र तत्र ‘इति कश्यपः’ इत्यनुदेशनं प्राचीनकश्यपरम्परामभिप्रैति । शब्दतोऽर्थतो वोभयथाऽपि गृहीताः सिद्धान्ताद्युक्तयः प्राधान्येन व्यपदेशा भवन्तीतिन्यायेन काश्यपीयाः संमान्यन्ते । मनुस्मृत्यादिषु प्राचीननिबन्धेषु शिष्येण भृगुणा मनोः, सामश्रवादिभिर्याज्ञवल्क्यस्य शब्दतोऽर्थतश्चोपदेशान् संगृह्य सम्पूर्य च निबद्धेषु मनुसंहितायाज्ञवल्क्यसंहितादिनामभिर्व्यवहारस्योपलम्भेन प्राचीनार्षरचनासु दृश्यमाना शैली अत्राप्युचिता समीक्ष्यते । पूर्वसम्प्रदायोल्लेखे कश्यपस्येव तत्पुत्राणां काश्यपानामपि आचार्यभावेऽवबोधितेऽपि प्रत्यध्यायमुपक्रमोपसंहारयोः ‘इति ह स्माह कश्यपः’ इति, ग्रन्थाभ्यन्तरेऽपि तत्र तत्र ‘कश्यपोऽब्रवीत्, इति कश्यपः’ इत्यादिरूपेण सर्वत्र कश्यपशब्देनैव एतदीय आचार्य उल्लिख्यते ॥

अस्मिन् ग्रन्थे संहिताकल्पान्तः पूर्वभागस्तदुत्तरः खिलभागश्चेति भागद्वयमीक्ष्यते । उभयोर्भागयोः प्रत्यध्यायमुपक्रमोपसंहारयोः ‘इत्याह कश्यपः’ इति कश्यपोक्तरूपत्वेनोल्लेखवाक्यानि सन्ति । ज्वरसमुच्चये कश्यपनाम्नोद्धृतानि वचनानि एतद्ग्रन्थस्य

उपोद्घातः ८१

पूर्वभागस्थानि उत्तरभागस्थानि च संवादाय लभ्यन्ते । उभयत्र कश्यपस्य उपदेष्टृतया पूर्वभागे सर्वत्र जीवकस्य, उत्तरभागेऽपि बहुधा जीवकस्यैव क्वचन व्यक्त्यन्तरस्यापि उपदेश्यतयोल्लेखोऽस्ति । अत्र पूर्वोत्तरभागयोरेकोपदेशत्वबोधकानि पूर्वग्रन्थेन सहोत्तरग्रन्थस्य उत्तरग्रन्थेन सह पूर्वग्रन्थस्य च संयोजकानि वाक्यान्युभयोर्भागयोरुपलभ्यन्ते ॥

एवं दर्शनेन पूर्वोत्तरयोर्द्वयोर्भागयोः परस्परसम्बद्धयोरेकशरीरभावेन समुच्चितस्यास्य ग्रन्थस्य कश्यपसंहितारूपत्वमापातः प्रतीयते । परं पूर्वभागस्यान्ते पूर्वग्रन्थोपसंहारात्मकः संहिताकल्पाध्यायो ग्रन्थसमाप्तेर्निदर्शको लभ्यते । ग्रन्थस्य सावशेषत्वे सर्वान्त एवोपसंहरणं युज्यते । प्राचीने आत्रेयभेदयोरायुर्वेदीये संहिते सूत्रनिदानादिभिरष्टप्रस्थानैर्विंशत्युत्तरशताध्यायैश्च पूर्णे समुपलभ्येते । तथैवात्रापि पूर्वभाग एवाष्टौ स्थानानि तावन्तोऽध्यायाश्च पूर्यन्ते । संहिताकल्पाध्यायलेखेनापि—

सूत्रस्थाननिदानानि विमानान्यात्मनिश्चयः । इन्द्रियाणि चिकित्सा च सिद्धिः कल्पाश्च संहिता ।।
(श्लो. ७)

इति संहिताया अष्टावेवोपविभागाः प्रदर्श्यन्ते । तदन्ते ‘समाप्ता चेयं संहिता, अतः परं खिलस्थानं भविष्यति’ इति संहितासमाप्तिसूचकं पुष्पिकावाक्यमपि दृश्यते । अनेन अष्टभिः स्थानैः सविंशशताध्यायैश्च वर्तमाना वृद्धजीवकेन संक्षिप्त-विन्यासान्तरमापादितेयं पूर्वभागात्मिका काश्यपसंहितेति प्रतीयते ॥

तदुत्तरमनुक्तपरिशिष्टपूरणिकारूपेण पूर्वभागोक्तानां कतिपयानां विषयाणां विकासप्रक्रियया इतस्ततोऽपि सङ्गृहीतानां काश्यपोक्तानां विज्ञेयानां विषयविशेषाणां योजनया च पूर्वभागोक्तक्रममनुपादायैव प्रकीर्णविषयसङ्ग्रहायितः अशीत्यध्यायात्मकः खिलभागः आगन्तूनामन्तेनिवेशन्‍यायेन सुश्रुते १२०. अध्यायात्मकपूर्वसंहितोत्तरमुत्तरतन्त्रवत् पुनर्योजितः प्रतीयते ॥

मेघदूतादिषु केषुचिद्ग्रन्थेषु कथांशान् द्विधा विभज्य पूर्वोत्तरभागरूपेण विभागदर्शनेन नैवं सर्वत्र नियन्तुं शक्यते, तथाऽपि कादम्बरीदशकुमारादिषु पूर्वोत्तरभागयो रचनाभेदः क्वचन कर्तृभेदस्य स्पष्टमुल्लेखश्च । तादृशेषु पश्चात्पूरितांशस्य केवलमुत्तरभागनाम्नैव पृथग्व्यवहारः । ग्रन्थनाम तु समुच्चितस्यैव कादम्बरीदशकुमारचरितमित्यादिकमेव । रामायणेऽपि रामचन्द्रसदसि कुशलवाभ्यां गीताद्भागादुत्तरो भागः पश्चात्पूरित एव स्यादिति बहूनां विदुषां विचारः । तद्भागस्योत्तरकाण्डनाम्ना व्यवहारेऽपि समुच्चितग्रन्थस्यैकेनैव नाम्ना व्यवहतिः । ईदृशस्थलेषु यत्रोत्तरभागे लेखशैल्या विभेदोऽनुसन्धीयते, तत्र कर्तृभेदेन समयभेदेन वा निर्माणभेदः प्रायिकोऽनुभूयते । सुश्रुतेऽपि पूर्वभागे कौमारभृत्यशालाक्यादिविषयान्तराणां विकासेन संयोजनोचितानां विषयाणामुपलम्भेन एककर्तृत्वे तत्र तत्रैवं सविस्तरं वर्णनौचित्येऽपि पूर्वत्र शल्यप्रस्थानप्राधान्यरक्षायै लेशत

१. पूर्वभागे—
पप्रच्छ विनयाद्विद्वान् कश्यपं वृद्धजीवकः ।
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः । पुनरष्टविधः प्रोक्तो निदाने तत्त्वदर्शिना ।। (पृ. ९३)
सूत्रस्थाने भगवता द्वौ व्रणौ परिकीर्तितौ । तयोर्विस्तरमिच्छामि श्रोतुं लक्षणमेव च ।। (पृ. १२३)
सूतिकोपक्रमाध्याये यच्च वक्ष्ये खिले मुने । तदिहापि प्रयोक्तव्यं सन्निपातचिकित्सितम् ।।
(विशेषकल्पे)

खिलभागे—
कश्यपं सर्वशास्त्रज्ञं सर्वलोकगुरुं गुरुम् । भार्गवः परिपप्रच्छ संशयं संश्रितव्रतः ।
प्रोक्तं ज्वरचिकित्सायां विषमत्वस्य कारणम् । वक्तुमर्हसि तत्त्वेन सविशेषं सविस्तरम् ।
(अ. १. श्लो. ३-४)

अथ खल्वस्माभिः पूर्वं यद्रसविमानेऽभिहितं लालादिचतुर्विंशतिविधमहारमानं तस्येदानीं प्रतिकल्पविशेषानुपदेक्ष्यामः ।।
(अ. ५ गद्य ३)

परिक्षेकास्तु बालानां दन्तजन्मनि ये मया । कीर्तितास्ते प्रयोक्तव्याः परिभूताक्षिरोगिषु ।।
(अ. १३ श्लो. २५)

पूर्वं ज्वरनिदाने तु प्रोक्तः प्रत्येकशो मया । यथावदेषां रूपाणि संप्रवक्ष्याम्यतः परम् ।।