काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 82, कुल 942 में से
संदर्भ में पढ़ें| ६८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
चरकाचार्यस्य कनिष्कसामयिकत्वलाभादुपप्रथमशताब्दीभवश्चरकाचार्य इति पाश्चात्त्यपण्डितसिलवां¹ल्लेभीमहाशयानामभ्युपगमः । तदात्वे दार्शनिकार्यनागार्जुनस्यैतिहासिकोपलम्भेन नागार्जुनीये उपायहृदये इव चरकीयलेखेऽपि विगृह्यसंभाषीयविषयोपन्यासेन च आर्यनागार्जुनचरकाचार्ययोः कनिष्कसामयिकत्वं संवदति । परं शिलालेखेतिवृत्तादिभिः कनिष्कनृपतेर्बौद्धत्वस्य, नागार्जुनाचार्ये कनिष्कसामयिकत्वस्य च बहुशः सिद्धावपि तन्त्रप्रतिसंस्कर्तुश्चरकस्यैव कनिष्कराजकुलवैद्यत्वोल्लेखे प्रामाण्यविषये मतभेदोऽस्ति । ²श्रीयुक्तकीथमहाशयस्यापि तथैव मतं वर्तते । चरकस्य कनिष्कसामयिकत्वेतदीयराजकुलवैद्यत्वे च कथं नैतदीयलेखे क्वापि बौद्धसंप्रदायच्छायानुवेधो दृश्यते, कथं वा वैदिकमन्वादीन्निर्दिश्य श्रौतप्रक्रिययैव व्यवहारणं चरकसंहितायां संगच्छेत, इत्यपि व्याघातकं निर्दिशन्ति । आत्रेयाग्निवेशग्रन्थस्य चरकाचार्येण केवलं प्रतिसंस्करणोक्त्या पूर्वाचार्यलेखे सांख्यदर्शनस्य श्रौतप्रक्रियायाश्च विद्यमानतया चरकीयतत्संस्करणेऽपि न बौद्धच्छायानुप्रवेशः, नैतावता प्रतिसंस्कर्तुश्चरकस्यातिप्राचीनत्वं साधयितुं शक्यते, इत्यपि केचन वदन्ति । केचन क्वचित्स्वभाववादाद्युल्लेखस्थले बौद्धमतमाहेति टीकाकृता चक्रपाणिना व्याख्यानादत्र बौद्धमतस्याप्यंशतः प्रवेशोऽस्तीत्यपि वदन्ति । केचित्तु स्वभाववादो हि न बौद्धानामेव, ततः प्राक्कालादपि प्रवृत्त इति नैतावता बौद्धमतानुप्रवेश इति वक्तुं शक्यते इत्यपि प्रतिवदन्ति ॥
चरकस्य कनिष्कवैद्यत्वे उपायहृदये भैषज्यविषयप्रसङ्गेन सुश्रुतमनुस्मरन्नार्यनागार्जुनः स्वसामयिकबौद्धनरपतेः कनिष्कस्य राजकुलवैद्यं तादृशं प्रसिद्धविद्वांसं चरकाचार्यं किमिति नाम्नोल्लिखितुं विस्मृतवान् स्यादित्यपि व्याघट्यति चेतः । यदि नाम साधनान्तरैश्चरकाचार्यस्य ततोऽप्यर्वाचीनत्वमसाधयिष्यत तदा आर्यनागार्जुनेन सुश्रुतमनुस्मरता चरकस्यानुल्लेखान्नागार्जुनसमया-दर्वाचीनश्चरकसमय इत्यभ्युपागंस्यत । दार्शनिकग्रन्थभूतेऽस्मिन्नुपायहृदये लेशतः प्रविष्टे प्रासङ्गिके वैद्यकविषये पूर्वेषामात्रेयाग्निवेशकश्यपादीनामिव बहुसमयमतीतस्य चरकाचार्यस्य बौद्धसम्प्रदाये प्रविष्टतया दृष्टस्य प्रसिद्धस्य जीवकस्य च आर्यनागार्जुनेन नामानिर्देशनं न खलु नोपपद्यते । तदनुल्लेखमात्रेणार्वाग्भावाभ्युपगमे आत्रेयादीनामपि तथात्वं कथं न शङ्क्येत । सुश्रुतसम्प्रदायस्य काश्यां, चरकसम्प्रदायस्य पञ्चालकाम्पिल्यादिपश्चिमप्रदेशे उदयेन तत्र तत्र विभागप्रदेशेषु क्रमशोऽनयोर्विकसनौचित्यात् पूर्वतः प्रदेशेषु सुश्रुतसम्प्रदायस्य विकसनं प्रसिद्धिश्च विशेषतोऽजायत, येन श्यामकम्बोडियाप्रदेशगतयशोवर्मजय³वर्मशिलालेखेषु वैद्याचार्यत्वेन सुश्रुतस्योल्लेख उपलभ्यते । नागार्जुनस्य दक्षिणदेशे मगधप्रदेशेऽपि विशेषतः सम्बन्धः, तेन पूर्वीयविभागे प्रसिद्धतरतया स्वसमाजमानिततया च सुश्रुतस्यैव बुद्धौ प्रथममनुस्मृत्या नागार्जुनेनोपग्रहणं कृतं किलेत्यपि वक्तुं शक्यते । परं चरकस्य कनिष्कराजकुलभिषग्भावे मिथः सहभावसम्पर्कवैदुष्य-परिचयादिकमुपेतेनार्यनागार्जुनेन सुश्रुतादपि चरकः प्रथमतः कथं नानुस्मर्येत । राजतरङ्गिणीकृताऽपि कनिष्कवृत्ते चरकः कथं नोल्लिख्येत च । गौतमसूत्राविर्भावात् पूर्वमपि न्यायवितण्डादीनां पदार्थानां प्रचार आसीत्, चरकीया लेखशैली ब्राह्मणग्रन्थच्छायानुविधायिनी दृश्यते, तेन चरको न कनिष्कस्य सामयिक इति सिलमहाशयादयः कथयन्ति ॥
तदेवं चरकाचार्यस्य समयान्वेषणे यथोपलम्भमुपपत्तिवादगर्भाणि बहूनि मतानि विपश्चितां दृक्पथमपयन्ति । यथातथमस्य समयं परिच्छिद्यावधारयितुमसाधारणानि साधनान्तराण्यपि गवेषणीयानि भवन्ति । श्रीयुतप्रफुल्लचन्द्र⁴रायमहोदयेनापि चरकस्य सुश्रुतस्य च समयविचारे बहु प्रपञ्चितमस्ति ॥
१. Jour Asiatique. 1896 T. VIII. P. 447.
२. Caraka, according to tradition was the physician of Kanishka, whose wife he helped in a critical case. Unhappily we cannot tell the value of such stories when they come to us at a late date. History of Sanskrit Literature. A. B. Keith P. 406
३. सुश्रुतोदितया वाचा समुदाचारसारया । एको वैद्यः परत्रापि प्रजाव्याधीन् जहार यः ।
आयुर्वेदास्त्रवेदेषु वैद्यवीरैर्विशारदैः । योऽघातयद्राष्ट्ररुजो रुजारीन् भेषजायुधैः ॥
४. History of Hindu Chemistry Vol. I. P. C. Ray.