भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 82, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 82
६८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

चरकाचार्यस्य कनिष्कसामयिकत्वलाभादुपप्रथमशताब्दीभवश्चरकाचार्य इति पाश्चात्त्यपण्डितसिलवां¹ल्लेभीमहाशयानामभ्युपगमः । तदात्वे दार्शनिकार्यनागार्जुनस्यैतिहासिकोपलम्भेन नागार्जुनीये उपायहृदये इव चरकीयलेखेऽपि विगृह्यसंभाषीयविषयोपन्यासेन च आर्यनागार्जुनचरकाचार्ययोः कनिष्कसामयिकत्वं संवदति । परं शिलालेखेतिवृत्तादिभिः कनिष्कनृपतेर्बौद्धत्वस्य, नागार्जुनाचार्ये कनिष्कसामयिकत्वस्य च बहुशः सिद्धावपि तन्त्रप्रतिसंस्कर्तुश्चरकस्यैव कनिष्कराजकुलवैद्यत्वोल्लेखे प्रामाण्यविषये मतभेदोऽस्ति । ²श्रीयुक्तकीथमहाशयस्यापि तथैव मतं वर्तते । चरकस्य कनिष्कसामयिकत्वेतदीयराजकुलवैद्यत्वे च कथं नैतदीयलेखे क्वापि बौद्धसंप्रदायच्छायानुवेधो दृश्यते, कथं वा वैदिकमन्वादीन्निर्दिश्य श्रौतप्रक्रिययैव व्यवहारणं चरकसंहितायां संगच्छेत, इत्यपि व्याघातकं निर्दिशन्ति । आत्रेयाग्निवेशग्रन्थस्य चरकाचार्येण केवलं प्रतिसंस्करणोक्त्या पूर्वाचार्यलेखे सांख्यदर्शनस्य श्रौतप्रक्रियायाश्च विद्यमानतया चरकीयतत्संस्करणेऽपि न बौद्धच्छायानुप्रवेशः, नैतावता प्रतिसंस्कर्तुश्चरकस्यातिप्राचीनत्वं साधयितुं शक्यते, इत्यपि केचन वदन्ति । केचन क्वचित्स्वभाववादाद्युल्लेखस्थले बौद्धमतमाहेति टीकाकृता चक्रपाणिना व्याख्यानादत्र बौद्धमतस्याप्यंशतः प्रवेशोऽस्तीत्यपि वदन्ति । केचित्तु स्वभाववादो हि न बौद्धानामेव, ततः प्राक्कालादपि प्रवृत्त इति नैतावता बौद्धमतानुप्रवेश इति वक्तुं शक्यते इत्यपि प्रतिवदन्ति ॥

चरकस्य कनिष्कवैद्यत्वे उपायहृदये भैषज्यविषयप्रसङ्गेन सुश्रुतमनुस्मरन्नार्यनागार्जुनः स्वसामयिकबौद्धनरपतेः कनिष्कस्य राजकुलवैद्यं तादृशं प्रसिद्धविद्वांसं चरकाचार्यं किमिति नाम्नोल्लिखितुं विस्मृतवान् स्यादित्यपि व्याघट्यति चेतः । यदि नाम साधनान्तरैश्चरकाचार्यस्य ततोऽप्यर्वाचीनत्वमसाधयिष्यत तदा आर्यनागार्जुनेन सुश्रुतमनुस्मरता चरकस्यानुल्लेखान्नागार्जुनसमया-दर्वाचीनश्चरकसमय इत्यभ्युपागंस्यत । दार्शनिकग्रन्थभूतेऽस्मिन्नुपायहृदये लेशतः प्रविष्टे प्रासङ्गिके वैद्यकविषये पूर्वेषामात्रेयाग्निवेशकश्यपादीनामिव बहुसमयमतीतस्य चरकाचार्यस्य बौद्धसम्प्रदाये प्रविष्टतया दृष्टस्य प्रसिद्धस्य जीवकस्य च आर्यनागार्जुनेन नामानिर्देशनं न खलु नोपपद्यते । तदनुल्लेखमात्रेणार्वाग्भावाभ्युपगमे आत्रेयादीनामपि तथात्वं कथं न शङ्क्येत । सुश्रुतसम्प्रदायस्य काश्यां, चरकसम्प्रदायस्य पञ्चालकाम्पिल्यादिपश्चिमप्रदेशे उदयेन तत्र तत्र विभागप्रदेशेषु क्रमशोऽनयोर्विकसनौचित्यात् पूर्वतः प्रदेशेषु सुश्रुतसम्प्रदायस्य विकसनं प्रसिद्धिश्च विशेषतोऽजायत, येन श्यामकम्बोडियाप्रदेशगतयशोवर्मजय³वर्मशिलालेखेषु वैद्याचार्यत्वेन सुश्रुतस्योल्लेख उपलभ्यते । नागार्जुनस्य दक्षिणदेशे मगधप्रदेशेऽपि विशेषतः सम्बन्धः, तेन पूर्वीयविभागे प्रसिद्धतरतया स्वसमाजमानिततया च सुश्रुतस्यैव बुद्धौ प्रथममनुस्मृत्या नागार्जुनेनोपग्रहणं कृतं किलेत्यपि वक्तुं शक्यते । परं चरकस्य कनिष्कराजकुलभिषग्भावे मिथः सहभावसम्पर्कवैदुष्य-परिचयादिकमुपेतेनार्यनागार्जुनेन सुश्रुतादपि चरकः प्रथमतः कथं नानुस्मर्येत । राजतरङ्गिणीकृताऽपि कनिष्कवृत्ते चरकः कथं नोल्लिख्येत च । गौतमसूत्राविर्भावात् पूर्वमपि न्यायवितण्डादीनां पदार्थानां प्रचार आसीत्, चरकीया लेखशैली ब्राह्मणग्रन्थच्छायानुविधायिनी दृश्यते, तेन चरको न कनिष्कस्य सामयिक इति सिलमहाशयादयः कथयन्ति ॥

तदेवं चरकाचार्यस्य समयान्वेषणे यथोपलम्भमुपपत्तिवादगर्भाणि बहूनि मतानि विपश्चितां दृक्पथमपयन्ति । यथातथमस्य समयं परिच्छिद्यावधारयितुमसाधारणानि साधनान्तराण्यपि गवेषणीयानि भवन्ति । श्रीयुतप्रफुल्लचन्द्र⁴रायमहोदयेनापि चरकस्य सुश्रुतस्य च समयविचारे बहु प्रपञ्चितमस्ति ॥


१. Jour Asiatique. 1896 T. VIII. P. 447.
२. Caraka, according to tradition was the physician of Kanishka, whose wife he helped in a critical case. Unhappily we cannot tell the value of such stories when they come to us at a late date. History of Sanskrit Literature. A. B. Keith P. 406
३. सुश्रुतोदितया वाचा समुदाचारसारया । एको वैद्यः परत्रापि प्रजाव्याधीन् जहार यः ।
आयुर्वेदास्त्रवेदेषु वैद्यवीरैर्विशारदैः । योऽघातयद्राष्ट्ररुजो रुजारीन् भेषजायुधैः ॥
४. History of Hindu Chemistry Vol. I. P. C. Ray.