काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 83, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ६९
वार्योविद्दारुवाह नग्नजिद्वेडाः
अस्यां काश्यपसंहितायां रोगाध्याये काश्यपसम्मतदोगद्वैविध्य¹वादितया, वमनविरेचनीयाध्यायेऽपि ग्रन्थत्रुट्याऽव्यक्तस्य मतविशेषस्य वादितयां च ‘इति वार्योविदः’ (सि.स्था.अ. ३) इति वार्योविदस्थोल्लेखाऽस्ति । ‘कुक्कुणकचिकित्साध्यायान्ते वार्योविदनृपतये मारीचकश्यपेन बाल²भैषज्यस्योपदेशो निर्दिष्टोऽस्ति । उत्तरभागे बहुशो जीवकस्य प्रश्ने सम्बोधने च सत्यपि ‘पार्थिव (खि.स्था.अ. १०), विशांपते (खि.स्था.अ. १०), नृपोत्तम (खि.स्था.अ. १०), नृप, नराधिप’ इति मध्ये मध्ये दृश्यमानं राजसम्बोधनं राजान्तरस्याप्रकृततया एकत्र नाम्ना निर्दिष्टं तमेव वार्योविदमभिप्रेतीति; देशसात्म्याध्याये ‘काशिराजो (काशिराजं) महामुनिः (खि.स्था.अ. २५)’ इति काशिराजत्वेन निर्दिष्टोऽपि स एव स्यादिति च लक्ष्यते । तेनैतल्लेखान्मारीचकश्यपस्योपदेश्यभूतस्तत्समकालो वैद्याचार्यो वार्योविदः काशिराज इत्यायति । आत्रेयसंहितायां वातकलाकलीयाध्याये (च.सू.अ. १२) मारीचिदार्योविदयोः पक्षप्रतिपक्षभावेन निर्देशनमपि तयोः सहभावं संवादयति । ³वातकलाकलीये, यज्जः⁴पुरुषीये, आत्रेयभद्र⁵काप्यीये च आत्रेयेण सह समवेतानां महर्षीणां सहभावेन वार्योविदस्य निर्देश आत्रेयवार्योविदयोरपि सहभावं, तत्र तत्र तदीयमतविशेषोल्लेखा वार्योविदस्य वैद्याचार्यत्वमपि स्पष्टमवबोधयति । यज्जःपुरुषीये आत्रेयसहभावेनकाशिपतित्वेन च निर्देशाद् वाम⁶कोऽपि काशिराजो वैद्याचार्य इत्यवबुध्यते । काशिराजत्वेनोपलभ्यमानानां वैद्याचार्याणां दिवोदास-वामक-वार्योविदानां त्रयाणां मिथः किंरूपं पौर्वापर्यमिति नैतावता परिच्छेतुं शक्यते । वार्योविदस्त्येदानीं ग्रन्थस्य वचनोद्धारस्य वा बहुशोऽनुपलब्धेऽपि आत्रेयकाश्यपसंहितयोस्तदीयमतোদ্ধारदर्शनेन तदात्वे प्रसिद्धिं दधान आचार्यविशेषोऽयमित्यवगन्तुं शक्यते । कश्यपेन बालभैषज्यमुपदिष्टतया निर्दिष्टोऽयमपि कौमारभृत्यप्रस्थानस्याचार्यः किमु ? । तदेवमात्रेयपुनर्वसोर्मारीचकश्यपस्य च सहभावेनोभयतो निर्दिष्टो वार्योविदो राजर्षिरपि मिथो नामोल्लेखं कुर्वतोरात्रेयपुनर्वसुमारीचकश्यपयोः कालतोऽविप्रकर्षमवगमयति ।।
किञ्चास्यां काश्यपसंहितायाम्—
‘उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः । चोदितो दारुवाहेन वेदनार्थेऽभ्यचोदयत्’ ।। (पृ. ३३)
इति निर्देशेन पूर्वभागे वृद्धजीवकस्य पृष्टतायां प्रेरको दारुवाहो ज्ञायते । तत्रैव रोगाध्याये रोगपाञ्चविध्यवादितया ‘पञ्चरोगा आगन्तुवातपित्तकफत्रिदोषजा इति दारुवाहो राजर्षिः’ (पृ. ३९) इति तस्य राजर्षित्वेनोल्लेखाऽस्ति । रोगद्वैविध्यवादितया वार्योविदस्य, रोगपाञ्चविध्यवादितया दारुवाहस्य च पृथङ्निर्देशेन विभिन्नव्यक्तित्वं स्पष्टं भासते, कुत्रत्योऽयं दारुवाहो राजर्षिरिति न ततः स्पष्टीभवति । किन्तु-अष्टाङ्गसंग्रहस्योत्तरस्थाने विषवेगविषये पुनर्वसुनग्नजिद्विदेहालम्बायनधन्वन्तरिमत-विशेषोल्लेखदर्शनेन न⁷ग्नजिन्नामकोऽपि वैद्याचार्योऽवगम्यते । तदीयेन्दुव्याख्या⁸यां ‘नग्नजितो दारुवाहिनः’ इति नग्नजिद्दारुवाहिशब्दौ
१. द्वौ रोगौ निजश्वागन्तुश्चेति वार्योविदः । (पृ. ३९)
२. इति वार्योविदायेदं महीपाय महर्षिः । शशंस सर्वमखिलं बालानामथ भेषजम् (खि.स्था.अ. १३)
३. वातकलाकलज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योन्यम् । ...... तच्छ्रुत्वा बडिशवचनमुवाच वार्योविदो राजर्षिः । (चरके.सू.अ. १२)
४. पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम् । समेतानां महर्षीणां प्रादुरासीदियं कथा । ...... वार्योविदस्त्व नेत्याह नह्येकं कारणं मनः । .... तथर्षीणां विवदतामुवाचेदं पुनर्वसुः । (चरके सू. अ. २५)
५. आत्रेयो भद्रकाप्यश्च ...... श्रीमान्वार्योविद्रश्चैव राजा मतिमतां वरः । ...... तेषां तत्रोपविष्टानामित्यमर्थवती कथा । ......... षड्रसा इति वार्योविदो राजर्षिः (चरके सू. अ. २६)
६. तदनन्तरं काशिपतेर्वामिको वाक्यमर्थवित् । ..... आत्रेयस्य वचनमनुनिशम्य पुनरेव वामकः काशिपत्तिरुवाच भगवन्तमात्रेयम् । (चरके सू. अ. २५)
७. ‘दुष्यति प्रथमे रक्त द्वितीये श्वयथूद्भवः । .... सप्तमे मरणं वेग इति नग्नजितो मतम्’ । (अष्टाङ्गहृदये)
८. नग्नजितो दारुवाहिनोऽप्यत्र दुष्यति प्रथमे रक्तमित्यादिक्रमेण सप्तवेगा इति मतम् (इन्दुव्याख्यायाम् पृ. ३१४)