भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 84, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 84
७०काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

सामानाधिकरण्येनोपात्तौ। अत्रेन्नन्तशब्देनोपादानेऽपि चरकचक्रपाणिव्याख्यायां¹ दारुवाहनाम्ना वचनोद्धारस्य दर्शनेन काश्यपीयायामपि दारुवाहनाम्ना मतोल्लेखेन चान्त्यवर्णमात्रविभिन्ना एकैवेयं व्यक्तिः प्रतिभाति। अन्यत्र क्वचन निर्दिष्टोदारुः²कोऽपि नामैकदेशन्यायेनायमेव दारुवाहः किमु ? । दारुवाहेन सहैक्यमनुसन्धाय नग्नजितोऽनुसन्धाने भेडसंहिताया मुद्रितपुस्तके—

‘गान्धारभूमौ राजर्षिमग्नजित्स्वर्गमार्गदः । सङ्गृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ।।
एवमुक्तस्तथा तस्मै महर्षिः पार्थिवर्षये । विषयोगेषु विज्ञानं प्रोवाच वदतां वरः' ।।
(पृ. ३०)

इति राजर्षिमग्नजिदित्येवं पाठदर्शनेऽपि श्रीमद्भिर्यादवजीमहा³भागेस्तञ्जोरपुस्तकालयगतपुस्तकात् 'राजर्षिन्नग्नजित्स्वर्णमार्गदः' इति पाठस्योपलम्मेन, पूर्वापरवाक्यानुसारतः प्रथमान्तराजर्षिशब्दपाठस्यैवाचित्येन च तत्पाठानुसारेण नग्नजिन्नामभेडसमकालिकः कोऽपि गान्धारपार्थिवः चन्द्रभागाया मातुः सम्बन्धमादाय किल चान्द्रभागसंज्ञितस्य पूर्वापरसन्दर्भसिद्धस्य पुनर्वसोरात्रेयस्य सकाशे विषविषयकं प्रश्नं चकारोति ज्ञायते। अष्टाङ्गहृदये रसाद्रक्तमित्यस्यारुणदत्तव्याख्यां न⁴ग्नजितो वचनोद्धारस्य दर्शनेन, अष्टाङ्गसंग्रहे विषविषये 'इति नग्नजितोमतम्' इत्युल्लेखेन, भेडेऽपि विषविषये एतत्प्रश्नस्य दर्शनेन च सोऽयमेवेति संवादो दृढीभवति। दारुवाहस्य नग्नजितश्च पार्थिवत्वेनोपलम्भात्, इन्दुलेखतो द्वयोः सामानाधिकरण्यान्नानयोर्विषये तत्तन्नाम्नोपलभ्यमाना विशेषा गुणोपसंहारन्यायेन समन्वयं प्राप्नुवन्तोऽस्य गान्धारराजर्षेर्न केवलं विषविषय एव, अपितु वैद्यविद्यायामाचार्यभावमवगमयन्ति। पूर्वनिर्दिष्टे (पृ. १२) शालिहोत्रोक्ताश्वशास्त्रेऽप्यायुर्वेदकर्तॄणां मध्ये विनग्नजितो नाम दृश्यते, सोऽप्ययमेव स्यात् । ⁵'मात्स्ये वास्तुशास्त्रोपदेशकत्वेनापि नग्नजित उल्लेखोऽस्ति, स नग्नजित् गान्धारो राजा वाऽन्यो वेति न ततोऽवधार्यते ।।

किञ्च—ऐतरेय⁶ब्राह्मणे क्षत्रिययज्वनां फलचमसभक्षणस्य साम्प्रदायिकत्वप्रदर्शने नग्नजितो गान्धारस्योल्ले खोऽस्ति । ततः सर्वदिग्विजयराष्ट्रसम्पदादेः फलस्य क्षत्रिययजमानत्वस्य चोल्लेखेन नग्नजिन्नाम क्षत्रियो गान्धारमहाराजः फलचमसभक्षणेन प्रतिष्ठितश्रीकः सर्वशत्रुविजयी चासीदिति लभ्यते। एवमत्र निर्दिष्टो गान्धारमहाराजो नग्नजिदेव देशनामादिसाम्येन भेडेन ससंमानं राजर्षितया निर्दिष्टो गान्धारराजो नग्नजिद्भवितुमर्हति। शतपथ⁷ब्राह्मणेऽपि चित्यां प्राणमृदुपधाने नग्नजितः (नग्नजित्पुत्रस्य) स्वर्जितः, गान्धारस्य नग्नजितश्चोल्ले खोऽस्ति। तत्र प्राणमहिमवक्तृत्वस्य राजन्यबन्धुत्वस्य च निर्देशेन शारीरविद्याचार्यौ गान्धारराजर्षिर्नग्नजिदेवानेनापि निर्दिष्टः प्रतीयते। अत्र तदीयपुत्रस्य स्वर्जिन्नाम्नोल्ले खो भेडलेखे स्वर्गमार्गद इति नग्नजितो


१. यदाह दारुवाहः—सूक्ष्मसूक्ष्मतरास्तेषु दूरदूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पं चिरेण यत् ।। .....
(चरकचक्रपाणिव्याख्यायां चि. अ. ३) .
२. चरकचक्रपाणिव्याख्यां चि. अ. ३ ।।
३. निर्णयसागरमुद्रितचरकद्वितीयसंस्करणभूमिकायां द्रष्टव्यम्।
४. 'नग्नजिदप्याह—तत्राहाररसात्पूर्वं रसधातुर्विवर्धते। रक्तं धातुरसाश्चैव रक्ताख्यान्मांसमेव च' ।। अष्टाङ्गहृदयटीकायां शारीरे।
(अ. ३)
५. भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा। नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः।
............... अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः। (मात्स्ये २५२ अध्याये)
६. “तमेवमेतं भक्षं प्रोवाच रामो भार्गवेयो विश्वन्तराय शौष्व्नाय। ...... एतमुहैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षिताय। ....... भीमाय वैदर्भाय, नग्नजिते गान्धाराय ...... ते ह ते सर्व एव महज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियं प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमाहवन्तः ...... उग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः" ऐतरेयब्राह्मणे ३५. ८. पृ. ८९२ (आनन्दाश्रममुद्रिते)।
७. अथ ह स्माह स्वर्जिन्नाग्नजितः, नग्नजिद्वा गान्धारः प्राणो वै समञ्चनप्रसारणं यस्मिन् वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति ..... तदुवाच राजन्यबन्धुरिव त्वेव तदुवाच .......। शतपथब्राह्मणे ८-१-४-१० ।

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित) · पृष्ठ 84, कुल 942 में से · BharatKosha