काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
| ७० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
सामानाधिकरण्येनोपात्तौ। अत्रेन्नन्तशब्देनोपादानेऽपि चरकचक्रपाणिव्याख्यायां¹ दारुवाहनाम्ना वचनोद्धारस्य दर्शनेन काश्यपीयायामपि दारुवाहनाम्ना मतोल्लेखेन चान्त्यवर्णमात्रविभिन्ना एकैवेयं व्यक्तिः प्रतिभाति। अन्यत्र क्वचन निर्दिष्टोदारुः²कोऽपि नामैकदेशन्यायेनायमेव दारुवाहः किमु ? । दारुवाहेन सहैक्यमनुसन्धाय नग्नजितोऽनुसन्धाने भेडसंहिताया मुद्रितपुस्तके—
‘गान्धारभूमौ राजर्षिमग्नजित्स्वर्गमार्गदः । सङ्गृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ।।
एवमुक्तस्तथा तस्मै महर्षिः पार्थिवर्षये । विषयोगेषु विज्ञानं प्रोवाच वदतां वरः' ।।
(पृ. ३०)
इति राजर्षिमग्नजिदित्येवं पाठदर्शनेऽपि श्रीमद्भिर्यादवजीमहा³भागेस्तञ्जोरपुस्तकालयगतपुस्तकात् 'राजर्षिन्नग्नजित्स्वर्णमार्गदः' इति पाठस्योपलम्मेन, पूर्वापरवाक्यानुसारतः प्रथमान्तराजर्षिशब्दपाठस्यैवाचित्येन च तत्पाठानुसारेण नग्नजिन्नामभेडसमकालिकः कोऽपि गान्धारपार्थिवः चन्द्रभागाया मातुः सम्बन्धमादाय किल चान्द्रभागसंज्ञितस्य पूर्वापरसन्दर्भसिद्धस्य पुनर्वसोरात्रेयस्य सकाशे विषविषयकं प्रश्नं चकारोति ज्ञायते। अष्टाङ्गहृदये रसाद्रक्तमित्यस्यारुणदत्तव्याख्यां न⁴ग्नजितो वचनोद्धारस्य दर्शनेन, अष्टाङ्गसंग्रहे विषविषये 'इति नग्नजितोमतम्' इत्युल्लेखेन, भेडेऽपि विषविषये एतत्प्रश्नस्य दर्शनेन च सोऽयमेवेति संवादो दृढीभवति। दारुवाहस्य नग्नजितश्च पार्थिवत्वेनोपलम्भात्, इन्दुलेखतो द्वयोः सामानाधिकरण्यान्नानयोर्विषये तत्तन्नाम्नोपलभ्यमाना विशेषा गुणोपसंहारन्यायेन समन्वयं प्राप्नुवन्तोऽस्य गान्धारराजर्षेर्न केवलं विषविषय एव, अपितु वैद्यविद्यायामाचार्यभावमवगमयन्ति। पूर्वनिर्दिष्टे (पृ. १२) शालिहोत्रोक्ताश्वशास्त्रेऽप्यायुर्वेदकर्तॄणां मध्ये विनग्नजितो नाम दृश्यते, सोऽप्ययमेव स्यात् । ⁵'मात्स्ये वास्तुशास्त्रोपदेशकत्वेनापि नग्नजित उल्लेखोऽस्ति, स नग्नजित् गान्धारो राजा वाऽन्यो वेति न ततोऽवधार्यते ।।
किञ्च—ऐतरेय⁶ब्राह्मणे क्षत्रिययज्वनां फलचमसभक्षणस्य साम्प्रदायिकत्वप्रदर्शने नग्नजितो गान्धारस्योल्ले खोऽस्ति । ततः सर्वदिग्विजयराष्ट्रसम्पदादेः फलस्य क्षत्रिययजमानत्वस्य चोल्लेखेन नग्नजिन्नाम क्षत्रियो गान्धारमहाराजः फलचमसभक्षणेन प्रतिष्ठितश्रीकः सर्वशत्रुविजयी चासीदिति लभ्यते। एवमत्र निर्दिष्टो गान्धारमहाराजो नग्नजिदेव देशनामादिसाम्येन भेडेन ससंमानं राजर्षितया निर्दिष्टो गान्धारराजो नग्नजिद्भवितुमर्हति। शतपथ⁷ब्राह्मणेऽपि चित्यां प्राणमृदुपधाने नग्नजितः (नग्नजित्पुत्रस्य) स्वर्जितः, गान्धारस्य नग्नजितश्चोल्ले खोऽस्ति। तत्र प्राणमहिमवक्तृत्वस्य राजन्यबन्धुत्वस्य च निर्देशेन शारीरविद्याचार्यौ गान्धारराजर्षिर्नग्नजिदेवानेनापि निर्दिष्टः प्रतीयते। अत्र तदीयपुत्रस्य स्वर्जिन्नाम्नोल्ले खो भेडलेखे स्वर्गमार्गद इति नग्नजितो
१. यदाह दारुवाहः—सूक्ष्मसूक्ष्मतरास्तेषु दूरदूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पं चिरेण यत् ।। .....
(चरकचक्रपाणिव्याख्यायां चि. अ. ३) .
२. चरकचक्रपाणिव्याख्यां चि. अ. ३ ।।
३. निर्णयसागरमुद्रितचरकद्वितीयसंस्करणभूमिकायां द्रष्टव्यम्।
४. 'नग्नजिदप्याह—तत्राहाररसात्पूर्वं रसधातुर्विवर्धते। रक्तं धातुरसाश्चैव रक्ताख्यान्मांसमेव च' ।। अष्टाङ्गहृदयटीकायां शारीरे।
(अ. ३)
५. भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा। नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः।
............... अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः। (मात्स्ये २५२ अध्याये)
६. “तमेवमेतं भक्षं प्रोवाच रामो भार्गवेयो विश्वन्तराय शौष्व्नाय। ...... एतमुहैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षिताय। ....... भीमाय वैदर्भाय, नग्नजिते गान्धाराय ...... ते ह ते सर्व एव महज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियं प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमाहवन्तः ...... उग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः" ऐतरेयब्राह्मणे ३५. ८. पृ. ८९२ (आनन्दाश्रममुद्रिते)।
७. अथ ह स्माह स्वर्जिन्नाग्नजितः, नग्नजिद्वा गान्धारः प्राणो वै समञ्चनप्रसारणं यस्मिन् वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति ..... तदुवाच राजन्यबन्धुरिव त्वेव तदुवाच .......। शतपथब्राह्मणे ८-१-४-१० ।
उपोद्घातः | ७१
विशेषणं च कश्चन तदीयविजयवृत्तान्तं साम्येन सूचयति किमु ? एवं संवादेन नग्नजित ऐतरेयशतपथकालादनर्वाचीनत्वेऽनुसन्धीयमाने ‘नग्नजितो दारुवाहिनोऽप्यत्र’ इति इन्दुलेखे अपिशब्दसत्तया व्यक्तिद्वयकल्पनेऽपि औपदेशिकेन सम्बन्धेन नग्नजित्सम्बन्धस्य पुनर्वसोरात्रेयस्य तदन्तेवासिनो भेडाचार्यस्यापि ऐतरेयशतपथब्राह्मणकालादनर्वाग्भाव आयाति । तेन ‘स्वर्णमार्गद् इति पददर्शनेन पारसीकमहाराजस्य दारायसनाम्नः समसमयकौ (B.C. 521-485) गान्धारमहाराज नग्नजिद्बेडौ’ इति कल्पनं न समीचीनं प्रतिभाति ।।
एवं महाभारते$^१$ युगान्तेऽन्तर्हितान् वेदेतिहासादींस्तपोबलेनाधिगम्य तत्तद्विद्याप्रकाशकानां महर्षीणां निर्देशे कृष्णात्रेयस्य चिकित्सितोपदेशकत्वमुल्लिखितं दृश्यते । कृष्णात्रेय एव पुनर्वसुरात्रेयो भवतु मा वा । भेडेऽपि चरकसंहितायां कृष्णात्रेयस्याप्युपदेशोल्लेखेन तत्सहभाविनः पुनर्वसोरात्रेयस्य महाभारतकालात् प्राचीनत्वं ततोऽप्यायाति ॥
तदेवमात्रेयसहभाविभावेन मारीचकश्यपोल्लेखः, वायोर्विदस्य मारीचकश्यपात्रेयपुनर्वसुसहभावः, कृष्णात्रेयस्य पुनर्वस्वात्रेयसामानाधिकरण्यं, चिकित्सितप्रवर्तकत्वेन कृष्णात्रेयस्य महाभारते निर्देशः, आत्रेयान्तेवासितया भेडोल्लेखः, भेडसहभावितयाऽऽत्रेयपुनर्वसूपदेश्यता च गान्धारनृपस्य नग्नजित उल्लेखः, नग्नजितो दारुवाहस्य च सामानाधिकरण्यं, दारुवाहस्य काश्यपीये निर्देशः, गान्धारनृपस्य नग्नजित ऐतरेयब्राह्मणे, गान्धारस्य प्राणविदो नग्नजितस्तत्पुत्रस्य स्वर्जतोऽपि शतपथब्राह्मणे कीर्तनं, दिवोदासस्य ब्राह्मणोपनिषदादिषूपलम्भः, तत्पूर्वपुरुषत्वेन धन्वन्तरेर्लाभश्चेत्येवं सर्वतो दृशः प्रवर्त्य विचारणे मारीचकश्यपः, पुनर्वसुरात्रेयः, भेडः, नग्नजिद्दारुवाहः, वायोर्विदश्चैते भैषज्यविद्याचार्या ऐतरेयशतपथकालादनर्वाचीनाधन्वन्तरिदिवोदासवद् ब्राह्मणोपनिषत्समये सहभावेन लेशतः पौर्वापर्येण वा वर्तमाना आसन्नित्यवधारयितुमृजुः पन्थाः पुरो भवति ।।
तदेवंवेदकालादारभ्य प्रतिष्ठितेयं भारतीयायुर्वेदविद्या ब्राह्मणोपनिषत्कालेऽपीदृशैर्महर्षिभिर्भरिते तत्रापि विशेषतो बहुभिराचार्यैः पश्चिमविभागेः परामुन्नतिमापादिताऽऽसीदिति निर्धार्यते इत्यलम् ।
रसग्रन्थाः
भावप्रकाशाद्यर्वाचीनग्रन्थेषु कानिचिद्वैदेशिकान्यौषधानि, काचन वैदेश्या प्रक्रिया, धातुरसादीनां विशेषप्रयोगाः, अहिफेनादीनामुपयोगाश्चेत्यादयोऽर्वाचीना विषया उपलभ्यन्तां नाम; ततः कियताऽपि समयेन पूर्वतनेषु सिद्धयोगादिषु पारदधात्वादीनां सामान्यतः प्रयोगदर्शनोपलम्भेऽपि ततः पूर्वं वाग्भटसमयपर्यन्तमपीदृशा विषया विशेषतोऽप्रविष्टा दृश्यन्ते । चतुर्थीशताब्दीपुस्तकलेखतया सम्भाविते बावरोद्धृतनावनीतकादौ, ततोऽपि पूर्वत्वेन सम्भाविते हार्नलोपलब्धलेखपुस्तकेऽपि स्वर्णादिधातूनामुल्लेखेऽपि तदीयशोधनादिविशेषप्रक्रिया पारदाद्युपयोगाश्च न विशेषत उपलभ्यन्ते । अन्ततो महावग्गीयजीवकवृत्ते भैषज्यानुपयोगिनो वनस्पतेर्विषये गुरुणाऽनुयुक्तेन जीवकेन तथाविधस्यैकस्याप्यनुपलब्धिकीर्तनं, तत्र घृतनस्यादिभिरौषधैः शस्त्रक्रियया वा रोगिणां चिकित्सनं, रसधात्वादीनां क्वाप्यनुपयोगनं चोपलभ्यमानमपि जीवकसमयपर्यन्तमपि रसधात्वाद्यौषधानामप्रचलनमवगमयति । $^२$चरकसुश्रुत$^३$योरपि धातूनां मणीनां चौषधेषु उद्देशमात्रं दृश्यते, न तु तेषां शोधनादिकं तत्सिद्धान्यौषधानि पारदौषधोल्लेखाेडहिफेनादयो वा निर्दिष्टाः । काश्यपीये तु खिलभागे आत्रेयभेडलेखयोरिव शोथादिषु
१. युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ।।
वेदविद्वेद भगवान् वेदाङ्गानि बृहस्पतिः । भार्गवो नीतिशास्त्रं तु जगाद् जगतो हितम् ।।
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम् । देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ।।
न्यायतन्त्रान्यनेकानि तैस्तैरुक्तानि वादिभिः । (शान्तिपर्वणि २१० अध्याये)
२. ‘सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा । मनःशिलाले मणयो लवणं गैरिकाञ्जने ।।
भौममौषधमुद्दिष्टम्’ (चरकसूत्रस्थाने अ. १)
३. ‘पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः’ । (सुश्रुते सूत्रस्थाने अ. १)
६ का.सं.
७२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
द्वित्रिवारमेव अयोरजस्ताम्ररजसोरुपयोगोल्लेखोऽस्ति। काश्यपीये तच्छोधनभस्मीकरणादेरनिर्देशेऽपि भक्षणेऽप्युपयोगलेखेन शोध नादिकमभिप्रेतं स्यादित्यनुमीयते। एतावदन्तरेण धातूवादीनां पारदस्य चोपयोगो नात्र दृश्यते। नवाऽहिफेनादयोऽन्येवाऽर्वाचीना विषया दृश्यन्ते इति यथा यथा प्राक्तनत्वं तथा तथैषां पश्चाद्भवविषयाणां विरलताऽनुपादानं चेक्ष्यते॥
कुतः कदाऽस्योद्गम ? इति विचारे-रसायनविद्यायां प्रयुज्यमानः केमिस्ट्री (Chemistry) शब्दः-अलकेमी-विज्ञानमवबोधयति। केमिष्ट्रीशब्दो मिश्रदेशीयात् ‘क्यामी’ शब्दात्रिष्पन्नइति मिश्रदेशात् प्रादुर्भूता रसायनविद्या आरव्यदेशे ग्रीसदेशे च प्रसृत्य ततो युरोपदेशे प्रससारेति कस्यचिन्मतं वर्तते ॥
केचन-मिश्रदेशेतद्विद्यावाची ‘क्यामी’ शब्दो नोपलभ्यते। न वा तत्र रसायनविद्यायाः प्रागुद्भवैतिवृत्तं किमप्युपलभ्यते। केमिष्ट्रीशब्दो हि तृतीयशताब्दीभवादारब्यात् ‘किमाइ’ शब्दात्रिष्पन्नः। सोऽयं शब्द एल्लेमीशब्दार्थे सिनिसनामकेन विदुषास्वीयेऽभिधानग्रन्थे निर्दिश्यते। सेयं विद्या न वा मिश्रदेशे, न वा ग्रीसदेशे समुद्भूता। तथात्वे हेरोडोटस-डायोडोरस-प्लुचाट-प्लीनीप्रभृतिभिः प्राचीनैस्तदीयविद्वद्भिः किमिति तद्विषये किमपि नोल्लिख्येत। मिश्रदेशीयानां ग्रीसदेशीयानां च तृतीयचतुर्थशताब्दीपर्यन्तं रसायनविद्याया ज्ञानमेव नासीत्। एल्केमीविद्यायां पारदस्य प्रयोगः पश्चादेवोपलभ्यते। तेन पाश्चात्यदेशेषु रसायनविद्याविदां सर्वप्रथम आरब्यदेशीयो ग्याबरनामको विद्वानिति निश्चितमस्मि। तत एवैषा विद्या सर्वत्र प्रससारेति केचन वदन्ति॥ केचन वैदिकसमये सोमरसस्य बहुशो व्यवहारदर्शनेन रसायनविद्याया उद्भव ऋग्वेदकालादेव भारते आसीत्। तन्मूलकतया चरकादिसमये यूषशारीररसादिषु रसशब्दो व्यवह्रियत। तदनु रसस्येव तरलतागुणमादाय पारदे द्रवीकृतधातुष्वपि स शब्दो व्यवहृतोऽभूदिति भारतीयरसप्रक्रियाया मूलमतिपुरातनम्। रसप्रक्रिया हि रसविषयकतान्त्रिकग्रन्थेषु प्राथमिकतया, तदनुगृहीतेषु पश्चात्तनरसग्रन्थेषु विकसिततया समीक्ष्यते। सेयं प्रक्रिया नागार्जुनेन प्रवर्धितेति विवेचकानां विचारोन्मेषश्च। लोहशास्त्रं पतञ्जलिना निर्मितमासीदिति बहुस्थलेषु निर्दिष्टमस्ति। पारसीकमतप्रवर्तकाज्जस्थुष्टात् प्रागेव तद्देशनिवासिनो ये मागीजातीयास्तैरियं रसायनगुप्तविद्या भारतीयब्राह्मणेभ्योऽधिगतेति तदीयेतिहासादपि ज्ञायते। ग्रीसदेशेयरसायनग्रन्थेष्वपि तद्विद्याविषये पर्सियादेशस्य तत्पूर्वदेशानां च बहुशो निर्देशोऽस्ति। तेन पूर्वं भारत एव आविर्भूतेयं रसौषधप्रक्रिया। भारतीयवैद्यानामारब्यदेशोपगमस्य चरकसुश्रुताद्यनुवादस्य भारतीयचिकित्साया आदरेणेनापि भारतादेव आरब्यादिदेशेष्वपि एतद्विद्यायाः प्रचारो गम्यते। एकादशद्वादशशताब्दीसमयें आरब्यदेशेऽपि रसप्रक्रिया उन्नतावस्थायामासीदिति तदीयेतिवृत्ततो विज्ञायते। तेन रसशोधनादिपरिज्ञानमारब्यदेशादुपलब्धं भारतेनेति कथनं यत्किञ्चिदेव। रसप्रक्रिया बहुशताब्दीपर्यन्तं पाश्चात्त्यैयुरोपदेशीयैरनुपादेयत्वबुद्ध्या न परिगृहीता समयेन तदीयगुणपरिज्ञानेऽर्वाक्समयत एव पाश्चात्यदेशेषु प्रचलतितेति समुल्लिखन्तीतिहासलेखाकाः पी.सी. रायप्रभृतयोमहानुभावाः॥
रक्तपारदं ग्रीसदेशे रोमदेशे च भारताद्गतमिति लेखोपलम्भेन तदुपवर्णने जायसवालमहोदयेन रक्तपारदं रससिन्दूरमिति कोष्ठके विवृतं दृश्यते। परं रससिन्दूरे रक्तपारदशब्दस्याप्रयोगदर्शनेन हिङ्गुलपर्यायेषु तच्छब्दोपलम्भेन च सोऽयं रक्तपारदशब्दो हिङ्गुलमात्रपरः स्यादिति भाति॥
भारते रसविद्याज्ञानं पुरैवासीदिति तुप्रथमशताब्दीवर्तिनोभर्तृहरेः 'उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः’ इत्युल्लेखेनापि दृढीक्रियत इत्यादि केचनोपवर्णयन्ति॥
धातूनां विज्ञानं प्रथमत एवासीदिति तु आत्रेयसुश्रुतकाश्यपादीनां धातूल्लेखेनापि ज्ञायते। बालकेभ्यो जातमात्रेभ्यः सुवर्णप्राशन-तदवलेहनादिरूपं तत्फल-गौरवं च कश्यपेनाप्युपदिष्टमस्ति (पृ. ४) धातूनां रत्नानां च धारणादिना
१. भर्तृहरिः प्रथमशताब्दीवर्तीति विचार्यमेतत्।
२. First Oriental Conference 1919. P. 15-16
उपोद्घातः ७३
आयुरारोग्यादिश्रेयस्करत्वं श्रुतिषु स्मृतिषु चोल्लिखितं बहुशोदृश्यमानमतिपुराकालादेश तदुपयोगपरिज्ञानं भारतीयानामभिव्यनक्ति । यजुर्वेदे 'प्रथमो दैव्यो भिषक्' इति रुद्रस्यापि प्रथमवैद्याचार्यत्वं प्रतिपाद्यते । आत्रेयादिभिर्ब्रह्मणः प्राथमिकत्वमुल्लिख्यते, न तत्र रुद्रस्योल्लेखः । तन्त्रशास्त्रे नातसम्प्रदायीयग्रन्थेऽपि रसवैद्यकस्य विषयस्तत्र तत्रोपलभ्यते । तन्त्रशास्त्रे नाथसम्प्रदाये च शिवस्य परमाचार्यत्वं निर्दिश्यते । तेन तान्त्रिकादिप्रचलितरसवैद्यकादिरूपप्रस्थानान्तरे मूलाचार्यत्वं रुद्रस्य भवितुमर्हति । रसविषयस्य प्राचीनतन्त्रग्रन्थेष्वप्युपलभ्यमानतया चरकसुश्रुतकाश्यपीयादिषु लेशतोऽपि तद्दर्शनेन च अर्वाचीनत्वमेवेति न वक्तु शक्यते । अरबदेशे सप्तमशताब्दीतः प्रचलितस्यापि रसायनस्य युरोपीयैः षोडशशताब्दीत एव ग्रहणमिव पूर्वतः प्रचलितस्यापि तन्त्रोक्तस्य रसवैद्यकस्य वैदिकसंप्रदायानुरक्तदृष्टिभिरात्रेयादिभिः स्वसमये लेशत एव ग्रहणमारब्धमासीदित्यपि वक्तुं न खलु न शक्यते ।।
धातूंनां शोधनादिना योगेन च तन्त्रोक्ता भारतीयाऽपि नानारसौषधनिर्माणप्रक्रिया बहुपुराकाले गुप्ताऽप्रचलिता आंशिकरूपेण वर्तमाना वाऽऽसीत् । पश्चात्काले नागार्जुनादिभिर्भारतीयैः रसविद्याचार्यैः प्रकाशं विकासं चापादिता स्यात् । येन प्रत्नतरग्रन्थेषु विशेषेण तदनुपलम्भ इति वक्तुं मनः प्रवणीभवतीत्यलम् ।।
(३) संस्कारतुलनादिसहितो विषयपरिच्छेदः
प्रतिसंस्कारः
प्राचीनाचार्यानामोपलब्धासु संहितासु वृद्धजीवकीयतन्त्ररूपा काश्यपसंहिता, चरकसंहितारूपा आत्रेयाग्निवेशसंहिता, सुश्रुतसंहितारूपा धन्वन्तरिसंहिता, भेडसंहिता न प्रातीनेति तासु क्वचनार्वाचीनत्वसंशयकानां पदवाक्यप्रबन्धविशेषाणामनुप्रवेशोऽपि संस्कारवशादेव स्यादिति च सविशेषमुपदर्शितम् ।।
तत्र काश्यपसंहितायाः संक्षिप्तस्वरूपविशेषस्य वृद्धजीवकीयतन्त्रस्य वात्स्येव प्रतिसंस्करणमेतदीये संहिताकल्पाध्याये (क. स्था.) कण्ठोक्तमेव । आत्रेयसंहितात्मकस्याग्निवेशतन्त्रस्य चरकाचार्येण प्रतिसंस्करणं च चरकसंहितायाः ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इति श्लोके स्पष्टमेवोक्तमस्ति । सुश्रुतसंहितायाः प्रतिसंस्करणस्य ग्रन्थाभ्यन्तरे स्पष्टोक्तेरदर्शनेऽपि डल्लनादिभिष्टीकाकारैर्नागार्जुनीयं संस्करणमुल्लिख्यते । प्रतिसंस्कर्ता नागार्जुनो भवतु मा वा, तत्र तत्र विषयान्तरदर्शनादिना संस्कारनिष्पन्नमेतद्वर्तमानस्वरूपमिति तु सर्वैर्विद्वद्भि रवधार्यत एव । भेडसंहितायां कश्यपमतत्वेनोल्लिखितः ‘चक्षुरिति कश्यपः’ इति चक्षुर्निर्वृत्तिवादः, कश्यपोद्धृतो भेडीयः षड्वर्षोत्तरं विरेचनवादश्च उपलब्धभेडसंहितायां विसंवादं दर्शयतीत्युक्तमेव (पृ. १३) । भेडसंहितायां ज्वरसमुच्चयोद्धृतभेडवचनानां निरीक्षणे भेडनाम्नोद्धृतेषु पञ्चाशदधिकेषु श्लोकेषु मुद्रितभेडसंहितायां लेश¹त (सार्धश्लोकत) एव संवादेन ज्वरप्रकरणमिव प्रकरणान्तरमपि बहुशस्त्रुटितं विकलाङ्गमन्तराऽन्तरा विषयान्तरं पुनः प्रतिसंस्करणं च स्पष्टमवबुध्यते । तदीदृशो विप्लवो भेडसंहितायां धियमन्यथा गमयति । एकमात्रेयोपदेशमादाय पृथक्पृथङ्गिबन्ध्नोरग्निवेशभेडयोः पश्चान्निदर्शयिष्यमाणं बहुशः प्रबन्धनसाम्यं क्वचनांशे संवादासादनमप्यनुसन्धीयमानं धियः पुनः परावर्तयति । तदेवं भेडसंहितायां दृश्यमानो दोषः कालस्यैव शिरसि पातनीयः । पुनःसंस्करणोल्लेखस्तु न क्वाप्युपलभ्यते, तथाऽपि पुनः प्रतिसंस्करणं त्वत्रापि जातं स्पष्टमवबुध्यते ।।
तत्रात्रेयसंहितादीनुपादाय निबद्धानामग्निवेशतन्त्रादीनां चरकाचार्यादिभिः किंरूपं संस्करणं व्यधायीति विमर्शे चरकस्य संस्करणे दृढबलेन संस्करणक्रिया एवमुपवर्णिता दृश्यते—
१. शोषयत्येष भूतानि दारुणो विषमज्वरः । मु.पु.पृ. १२१
त्रिफला कषायसिद्धेन घृतेन मतिमान् भिषक् । स्नेहयेत यथान्यायं युक्त्या वृषघृतेन वा । पृ. १२२
| ७४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
'विस्ता¹रयति लेशोक्तं संक्षिपत्यति विस्तरम् । संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्' । इति ।
अध्यायनामानि
नवेगान्धारणीयः मात्राशितीयः
आत्रेयभद्रकाप्यीयः
यस्यश्यावनिमित्तीयः
अवाक्शिरसीयः
अनेन संक्षिप्तस्य विस्तारः, विस्तृतस्य संक्षेपश्च चरकीयनिबन्धनस्य प्रक्रियाद्वयं समीक्ष्यते । तच्च संक्षिप्तस्य पूर्वग्रन्थस्य स्थाने विस्तृतलेखान्तरस्य विस्तृतस्य पूर्वग्रन्थस्य स्थाने संक्षिप्तलेखान्तरस्य यथौचित्यं रचनमिति आवापोद्वापप्रक्रियाऽपि सम्भवति । किं वा पूर्वग्रन्थस्य संक्षिप्तस्य नातिविशदतया तदुत्तरं पुनस्तस्य विशदीकरणेन विस्तृतलेखान्तरं, पूर्वग्रन्थस्य विस्तृतस्य ग्रहणधारणयोः सौकर्याय सारांशमादाय संग्रहेण संक्षिप्तलेखान्तरमपीति संग्रहविग्रहप्रक्रियया पौनरुत्त्यप्रक्रियया वाऽपि संभवति । अनयोः प्रक्रिययोः प्रथमा आवापोद्वापप्रक्रिया यदि गृहीताऽभविष्यत्, तदा आत्रेयसंहिताऽग्निवेशतन्त्ररूपस्य मूलग्रन्थस्य स्वरूपं बहुनाऽशेन विपर्यासमापत्स्यत । तथात्वे नवमेव विरचनमुपजातमिति चरकसंहितायां ग्रन्थाभ्यन्तरे आत्रेयाग्निवेशप्रतिवचनप्रश्नाद्युपन्या सस्यापि किं वा प्रयोजनं स्यात् । तद्विषये वक्तव्यं सामान्यविशेषात्मना शृङ्खलीकृत्यानुक्तवा संक्षेपविस्ताररूपेण वाक्यभेदेन च पुनः पुनः कथनं चरसंहितायामुपलभ्यमानं किंहेतुकं स्यात्, इति मूलसंहितायाः केवलमावापोद्वापप्रक्रियया संस्करणेन नवनिबन्धनात्मकत्वं न चरकसंहितायाः, अपि तु मूलग्रन्थे क्वचन संक्षिप्योक्तस्य विषयस्य विशदीकरणात्मना विस्तृतलेखस्य क्वचन विस्तरेणोक्तस्य विषयस्य लघुनोपायेन तदर्थग्रहणधारणोपयोगिनः संक्षिप्तलेखस्यापि विन्यासेन पौनरुत्त्यप्रक्रिययाऽपि संस्करणं चरकाचार्येण विहितं संभाव्यते ।।
चरकाचार्य उपलब्धमानैतत्संहिताया न स्वातन्त्र्येण निर्माता, अपि तु पूर्वसिद्धस्य आत्रेयसंहितागर्भितस्याग्निवेशतन्त्रस्य प्रतिसंस्कर्तैवेत्यस्मिन् विचारे इयं समन्वयदृष्टिरुन्मिषति—
आत्रेयसंहितायां निदानचिकित्सितादिस्थानेषु प्रायो विषयानुपादायैवाध्यायनामनिर्देशेऽपि सूत्रविमानशारीरादिस्थानेषु क्वचन विषयविशेषोपादाने सत्यपि अध्यायादिवाक्यप्रतीकमादाय कल्पितानि दीर्घञ्जीवितीयापामार्गतण्डुलीयारग्वधीयकतिधा-पुरुषीयातुल्यगोत्रीयादीनि अध्यायनामानि बहुशो दृश्यन्ते । आदिप्रतीकमुपादाय नामकरणे कानिचिन्नामानि विभक्तिगर्भपदव्यूहरूपान्यपि दृश्यन्ते । तत्तदध्यायोपसंहारसंग्रहश्लोकेऽपि तेनैव नाम्ना तदध्यायोल्लेखदर्शनेन इमान्यध्यायनामानि नाध्येतृसंप्रदायमात्रकल्पितानि, अपि तु ग्रन्थकर्तुरेव लेखनीतो निर्गतानीति निश्चीयते । भेडसंहितायामपि सूत्रविमानशारीरेन्द्रियस्थानेष्वादिप्रतीकग्राहीणि नामानि एकद्ववर्णावभेदेऽपि कानिचिदुभयतः साम्येन दृश्यन्ते । यथाहि—
अध्यायादिप्रतीकाः
| चरके | भेडे |
|---|---|
| न वेगान् धारयेद्धीरः | न वेगान् धारयेद्धीमान् |
| मात्राशी स्यादाहारमात्रा | मात्राशी स्याद्विपक्वाशी. |
| आत्रेयो भद्रकाप्यश्च यस्य | आत्रेयः खण्डकाप्यश्च. |
| श्यावे परिव्र्वस्ते | यस्य श्यावे उभे नेत्रे. |
| अवाक्शिरा वा जिह्वा वा | अवाक्शिरा वा जिह्वा वा. |
एवं न्यायेनात्रेयभेडयोः संवादीनि इन्द्रियोपक्रमणीय-तिस्रैषणीय-वातकलाकलीय-विधिशोणितीय-दशप्राणायतनीय-दशमूलायाष्टोदरीय-रसविमान-पुरुषनि(वि)चय-खड्डीकागर्भावक्रान्ति-जातिसूत्रीयादीनि नामानि च दृश्यन्ते ।।
१. लेशोक्तं विस्तरत्यर्थं संक्षिपत्यतिविस्तरम् ।। संस्कारः कुरुते तन्त्रं संस्कृतं च पुनर्नवम् ।। (इति ताडपत्रपुस्तके पाठः)
उपोद्घातः ७५
स्नेहाध्यायस्वेदाध्यायादीनां निदानचिकित्साध्यायादीनां च विषयानुपगृह्य विहितानां नाम्नां साम्यस्य स्वतः सम्भवेऽपि एवमुभयत्रैकेन प्रतीकेनाध्यायोपक्रमः, विभक्तिगर्भमपि प्रतीकमुपादायाध्यायनामकरणं, समाननामस्वस्वध्यायेषु विशेषविषयाणां साम्यं च दृश्यमानमेकसूत्रानुरोधेन विभिन्नकर्तृभ्यां विहिते लेखद्वये सम्भवति। मिथोऽनपेक्षभावेन एकसूत्रानपेक्षभावेन च निष्पन्नयोः स्वतन्त्रलेखयोर्नैषंभावः सहजतः संभवति। तेन आत्रेयेण तत्तत्प्रतीकेनोपक्रम्योपदिष्टानांमध्यायानां वाक्यानि विषयांश्रोपादाय स्वस्वावबुद्धोपबृंहणरूपान्यर्थान्तराण्यप्यन्तर्निवेश्य भेडाग्निवेशाभ्यां पृथक्पृथक्तन्त्रस्य प्रणयनादेवरूपं साम्यं मिथः सञ्जातमवगम्यते।।
क्वचन आत्रेयसंहितायामादिप्रतीकमुपादाय निबद्धानि केषाञ्चिदध्यायानां नामानि भेडसंहितायामध्यायादिप्रतीकविभेदेऽपि समानानि दृश्यन्ते। तथाहि—
| भेडचरकसंहितयोरध्यायनामानि— | चरके प्रतीकः— | भेडे प्रतीकः— |
|---|---|---|
| व्याधितरूपीयम्. | द्वौ पुरुषौ व्याधितरूपौ भवतः | गुरुर्व्याधिनरः कश्चित्. |
| शारीरविचयः | शारीरविचयः शारीरोपकारार्थं | इह खल्वोजस्तेजः |
| शारीरसंख्या | शारीरसंख्यामवयवशः | इह खलु शरीर षट् त्वचः, |
| पूर्वरूपीयम् | पूर्वरूपाण्यसाध्यानां | अन्तर्लोहितकायस्तु. |
| गोमयचूर्णीयम्. | यस्य गोमयचूर्णाभं | चूर्णं शिरसि यस्यैव. |
एवं दर्शनेन आत्रेयसंहितायां तत्तदुपक्रमप्रतीकमुपादाय व्यवहृतैस्तैर्नामभिः प्रतीकैश्राग्निवेशेन व्यवहृते भेडेन स्वलेखे प्रतीकविभेदेऽपि पूर्वपरम्परागतैस्तैरेव नामभिर्व्यवहृतं प्रतीयते। तेषां नाम्नां प्रतीकानां चात्रेयीयतया उभयत्र एकैकशो द्विशश्चानुरूप्यं समुचितमेव। अग्निवेशीयमात्रत्वे तु सतीत्थ्येन भेडेन तदनुसरणे बीजं दुर्निरूपं स्यात्। चरकाचार्येण तैः प्रतीकैरुपक्रम्य चरकसंहिता स्वयं निबद्धाऽभविष्यत्तदा ततः प्राक्तनो भेडः कथमिदमन्वसरिष्यत्। भेडाग्निवेशसंहितयोः स्थानानामष्टतयाऽध्यायानां सविंशशतत्वेन संख्यासाम्यमप्येतदेव दर्शयति। 'सिध्यति प्रतिकुर्वाण इत्यात्रेयस्य शासनम्' इति भेडसंहितायां चतुष्पादाध्याये (पृ. १५) अप्रतीकारवादं खण्डयत आत्रेयस्य सनांग्राहं सशब्दच्छायोपादानं निर्दिष्टं मतं वर्तमानचरकसंहितायां महाचतुष्पादाध्याये (सू.अ. १०) सविस्तरं निर्दिष्टं संवदति। ईदृशस्यात्रेयमतत्वेन निर्दिष्टस्योभयत्र संवादोपलम्भ आत्रेयोपदेशस्यैतदात्मना पूर्वसत्त्वं स्पष्टं गमयति च। खुड्डाकचतुष्पादाध्याये चरके भेडे चैकरूप्येणोपलभ्यमाना मृद्दण्डचक्रेत्यादयः सिद्धान्तश्लोका अप्यात्रेयसंहितागता भवितुमर्हन्ति। एवंरूपैरुभयतः संवादिभिरध्यायनामभिर्विषयादिभिश्चानयोः संहितयोरन्तरनुस्यूताऽऽत्रेयसंहिता पूर्वमासीदेवेति बुद्धावुपस्थाप्यते। तामात्रेयसंहितामन्तर्भाव्यतदीयविषयाँश्चोपादाय यथास्वं विचारविशेषोपबृंहिताभिः स्वोक्तिभिरप्यन्तराऽन्तरा परिपोष्य च संक्षेपप्रियेण भेडेन संक्षिप्तात्मना, विस्तारप्रियेणाग्निवेशेन विस्तृतात्मना सैव संहिता पृथक्पृथक्तन्त्ररूपतामनायि। भेडे चतुष्पादविषये एक एवाध्यायः, तत्र प्रथमत आत्रेय-शौनकयोर्विप्रतिपत्तिवादमुपादाय भिषजो ज्ञानवैशिष्ट्यदृष्टिरात्रेयस्य, ततश्चतुष्पादानां वर्णनान्ते सिद्धान्तरूपेण भिषकप्राधान्यवादोल्लेखः संक्षेपेण दर्शितः। आत्रेयीये तद्विषये द्वावध्यायौ, तत्र पूर्वस्मिन् खुड्डाकाध्याये चतुष्पादानुपवर्ण्य सिद्धान्तरूपेण सविशेषं भिषक्पादप्राधान्योल्लेखः, उत्तरस्मिन्नध्याये मैत्रेया(शौनक ?)त्रेयमतयोः पक्षप्रतिपक्षभावेन निर्देश इति त एव विषया एकेन लघ्वात्मना अपरेण महात्मना प्रतिपादिता दृश्यन्ते। एवमेव बहुशः स्थलेष्वग्निवेशतन्त्रे भेडतन्त्रे च यथाक्रमं गौरवं लाघवं चानुसन्धातुं शक्येते॥
काश्यपसंहितायां चरकसंहितायां भेडसंहितायां सुश्रुतसंहितायामपि गद्यमयानि पद्यमयानि च वाक्यानि दृश्यन्ते। क्षारपाणिजतूकर्णहारीतादीनां वाक्यान्यपि कानिचिद् गद्यरूपाणि कानिचित् पद्यरूपाणि टीकाकारैरुद्धृतानि दृश्यमानानि तदीयग्रन्थानपि गद्यपद्योभयसंबलिताननुमापयन्ति। ज्वरसमुच्चये एकं ज्वरविषयकमात्रमुपादाय तद्विषये काश्यपात्रेयसुश्रुतादीनां
७६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
हारीतादीनां सतीर्थ्यानामन्येषामपि प्राचीनाचार्याणां केवलं पद्यवाक्यान्युद्धृतान्युपलभ्यन्ते। तत्र गृहीतानां हारीतक्षारपाणिजतूकर्णभेदादीनां सतीर्थ्यानामाचार्याणां वाक्यान्युपादायानुसन्धाने शब्दानुपूर्वीभङ्गीविभेदेऽप्येकाचार्योपदेशसूत्रसन्दब्धः समानो निगर्भोऽवबुध्यते। भेडतन्त्रवज्जतूकर्णहारीतक्षारपाण्यादीनामात्रेयान्तेवासिनामन्वेषामपि सम्पूर्णतन्त्राणि यद्यलप्स्यन्त, भेडतन्त्रमपि सकलमविकलमलप्स्यत, तदा सर्वाणि पुरो निधायालोचने एकोपदेशमूलकतया सर्वतोऽनुवृत्ताएतेंऽशाः प्राचीना आत्रेयीयाः, मिथो व्यावृत्ता इमेऽशास्तदेकविशेषदृष्टिविकासुरूपाः संकारविभूतयो वेति परिच्छेद्दृशः प्रसृत्या अग्निवेशतन्त्रस्य चरकप्रतिसंस्करणस्य च विशेषमुन्मीलयितुं विशेषालोकलाभेन सौकर्यमभविष्यत्। तदेवं ज्वरसमुच्चयोद्धृतकतिपयवचन-विषयसंवाददृष्टिरपि सब्रह्मचारिणामुच्चावचनानाचित्तभूमिकाष्वेकात्रेयाचार्योपदेशबीजवापेन परितः सजातीयानेकाङ्कुरोदयं निश्चाययति॥
चरकसंहिताविषये चरकनाम्ना प्रसिद्धेयं संहिता चरकाचार्यस्य कृतिरिति, लघुरूपस्य पूर्वतन्त्रस्य सर्वशतः परिवर्तनपरिवर्धनादिना चरकाचार्येण नवमेव निबन्धनं कृतमिति, आयुर्वेदविदां महर्षीणां समवाये तत्र तत्रोपजातान् विमर्षनाकर्ण्य सङ्गृह्य चरकाचार्येणेयं चरकसंहिता न्यबध्येतेति च¹ नानाविधा विचारवितर्का दृश्यन्ते। परं पूर्वोक्तदिशा मूलभूताया आत्रेयसंहितायास्तन्मूलकस्याग्निवेशतन्त्रस्य च पूर्वसत्त्वस्य स्पष्टावगमेन ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते’ इति स्पष्टतया चरकोक्त्या च तन्त्रनिबन्धाऽग्निवेश एव, चरकस्तु तन्त्रान्तरेभ्यः समुच्चितैः स्वविचारारूढैश्च विषयान्तरैः समुपबृंह्य अन्यानपि संस्कारोचितविधीन् विधाय अग्निवेशतन्त्रस्य प्रतिसंस्कर्तैव। चरक एवास्य रचयिता यद्यभविष्यत् तदा किमिति स आचार्यः स्वं नाम कथं तथारूपेण नोदलेखिष्यत्। अग्निवेशस्य नामानि ग्रन्थाभ्यन्तरे सम्बोधनादिरूपेण बहुशो लभ्यन्ते, नैवं चरकस्य नाम चरकप्रतिसंस्कृते इत्युल्लेखख्वर्जं क्वापि ग्रन्थान्तरुपलभ्यते। उत्तरग्रन्थपूरको दृढबलोऽपि—
‘अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना। संस्कृतं तत्तु संसृष्टं विभागेनोपलक्ष्यते।।
यस्य द्वादशसाहस्त्री हृदि तिष्ठति संहिता। चिकित्सा वह्निवेशस्य स्वस्थातुरहितं प्रति’ ।।
इति वदँश्चरकस्य केवलं संस्कृतृत्वं, द्वादशसाहस्त्रसंहितायाअग्निवेशीयत्वं च स्पष्टं निर्दिशति। चरकस्य विशेषनिबन्धृभावे तदुत्तरस्तदुपजीवी तदीयग्रन्थपूरको दृढबलोऽपि कथमेवमग्निवेशं कर्तृतयोल्लिख्य चरकं संस्कृतत्वेनैव लिखेत्। सर्वतः सञ्चरणशीलतयाऽन्वर्थां चरकसंज्ञां वहताऽऽचार्येण सर्वतोऽस्य ग्रन्थस्य संस्करणेन प्रचारणेन प्रवचनेन प्रयोगकौशलेन उपकारपथस्य प्रवर्तनेन च चरकसंहितेति तन्नाम्ना प्रसिद्धिः प्रवृत्ता स्यात्। सैव प्रसिद्धिश्चरकाचार्यस्य कर्तृत्वभ्रान्तयेऽजायतेति मन्ये॥
तेन पूर्वोपदर्शितदृढबलीयसंस्करणपरिभाषोक्तरीत्या क्वचन पदविशेषा वाक्यविशेषाः सन्दर्भविशेषा वा संस्कर्तुश्चरकाचार्यस्य लेखनीतो निर्गत्यानुप्रविष्टा भवेयुः। सामान्यतोऽनुसन्धाने केचनेदृशा विषयाश्चरकाचार्यस्य लेखनीसम्बन्धमिवावभासयन्ति—
चरकसंहितायां निर्दिष्टे वादन्यायविषये दृश्यमानस्य पश्चात्तनविषयविकासस्य चरकसामयिकत्वसम्भावना पूर्वं प्रदर्शिताैव॥
स्वेदप्रक्रियाविभागनिरूपणे भेडसंहितायां सङ्करप्रस्तरसेकादयोऽष्टावेव विभागाः कीर्तिताः सन्ति। उपलभ्यमानचरकसंहितायां भेदोल्लिखितानष्टौ भेदांस्ततोऽन्यानु पञ्चभेदानप्युपादाय त्रयोदशविधाः स्वेदा निर्दिष्टा दृश्यन्ते। त्रयोदशधा विभागस्यात्रेयोपदिष्टत्वे आत्रेयानुगामिन्यां भेडसंहितायामपि तावद्भिरेव भेदैर्भवितव्यम्। काश्यपसंहितायामपि अष्टविभागनिर्देशेन प्राचीनौ विचारोऽष्टविभागसम्बद्धोऽवगम्यते। प्राचीनैरष्टविभागैः सह योजितेषु भेदान्तरेषु जेन्ताकहोलाकशब्दयोर्बाह्ययोरिव दृश्यमानतया च भेदान्तराणामनुयोजनेन त्रयोदशभेदवर्णनं चरकाचार्यस्य विकासदृष्टेर्निदर्शनमनुमापयति॥
भेडे खुड्डीकागर्भान्क्रान्तेरध्याय एक एव। तत्र मातापितृजत्वं गर्भस्याननुमन्यमानस्य भरद्वाजस्य मतंप्रतिक्षिप्य तत्स्थापयत आत्रेयसिद्धान्तस्य निर्देशोऽस्ति। चरके खुड्डीकाध्यायेऽपि स एव विषयः, इत्युभयोः संवादेन एवंरूप एकात्रेयीय
१. वसुमती वर्ष ९, पृष्ठ ३७८।
उपोद्घातः ७७
आग्निवेश्य उपन्यासः स्यात्। चरके तदुत्तरं पुनरन्यो महागर्भावक्रान्त्यध्यायोऽस्ति। तत्र गर्भसम्बन्धीन्येव विषयान्तराणि निरूपितानि। तेषां विषयाणां भेडोऽनुपलम्भेन चरकीयः पश्चात्तनो विकासः प्रतिभाति। अथवा खुड्डिकापद्दर्शनेन महागर्भावक्रान्त्यध्यायस्यापि पूर्वत आग्निवेश्यसंहितायां सत्त्वं, भेडे खण्डितत्वम्, इत्यपि संभवति॥
वर्तमानचरकसंहिताया उपक्रमग्रन्थे ऋषीणां समवाये भरद्वाजेनेन्द्रसकाशाल्लब्धस्यायुर्वेदस्य प्रकाशनात् तमप्राप्तवतआत्रेयस्य शिष्यैरग्निवेशादिभिस्तन्त्रप्रणयनस्य अग्निवेशादितन्त्राणां भुवि प्रतिष्ठायाश्चाग्निवेशेन कथनापेक्षया चरकेण स्वसंस्क्रियमाणग्रन्थस्य साम्प्रदायिकत्वोत्कृष्टत्वादिमहिमगानस्यौचित्यात्, अग्निवेशेन पश्चात्क्वाप्येतेद्विद्याया भारद्वाजोपदेशप्राप्तेरसूचनात्, प्रत्युत भारद्वाजमतस्य प्रतिक्षेपदर्शनेन भारद्वाजसम्बन्धविशेषोल्लेखे तदौदासीन्यावगमाच्च, ‘अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः, इति ह स्माह भगवानात्रेयः’ इति वाक्यद्वयान्ते ‘हिताहितं सुखं दुःखं’ इत्यादित एवाग्निवेशतन्त्रस्य प्रारम्भे अन्तरागतो ग्रन्थावतरणिकांशश्चरकाचार्येण पूरितः स्यादित्यपि सम्भाव्यते। हिताहितमित्यादिकस्य ग्रन्थस्य प्राचीनप्रौढेरनुरूपलेखच्छायायास्तत्पूर्ववाक्ये विसंवादोऽपि एतदेवाख्यातुं हृदयमभिमुखीकरोति॥
वर्तमानचरकसंहितायां भेडसंहितायां च दृश्यमानयोः नवेगान्धारणीयाध्याययोस्तुलनायां चरकसंहितागतलेखे वेगनिरोधौचित्यानौचित्यसम्बद्धस्यैव विषयस्य, भेडलेखे तु अध्यायस्योपक्रमोपसंहारयोस्तद्विषयसत्त्वेऽपि मध्ये तदनुस्यूतानां दन्तधावनधूमवर्त्यादिविषयान्तराणामपि तत्स्थाने दर्शनेन अग्निवेशीये सन्दर्भशुद्धिः, भेडलेखे रचनायां किं वा उपलब्धपुस्तकस्य विकृत्या तदशुद्धिरवगम्यते॥
नावनीतके आत्रेयमतत्वेनोद्धृतानां बहूनां योगौषधविशेषाणां चरकसंहितायां संवादेऽपि द्वित्रयोगौषधानामसंवादेन, श्रीयुतचक्रपाणिशिवदासादिभिः अग्निवेशनाम्नोद्धृतानां कतिपयश्लोकानां चरकसंहितायामदर्शनेन च अग्निवेशसंहिताताः संस्करणावसरे कियान् भागो निष्कासितश्चेत्यप्यनुमीयते॥
इत्थमुपदर्शितदिशा भेडसंहितामग्निवेशतन्त्रं च पुरो निधाय प्रतिविषयमुभयत आलोचने स्थलान्तरेष्वपि चरकसंहितागता भेडसंहितागताश्च विशेषा बहुशो गवेषकाणां नयनयोः प्रतिभासेरन्॥
चरकसंहितायामध्यायाभ्यन्तरेऽपि तत्रतत्रोक्तानां गद्यवाक्यार्थानां प्रायः पद्यैः क्वचन गद्यैरपि संक्षेपेण क्वचन विस्तारेण च सङ्ग्रहविग्रहरूपत्वमापाद्यते। मध्ये मध्येऽपि ‘भवन्ति चात्र, अत्र श्लोकाः’ इत्यादिरूपेण क्वचन सङ्ग्रहार्थं क्वचनोपपादकार्थमवबोधयन्तः पद्यलेखाः, प्रत्यध्यायमान्ते ‘अत्र श्लोकाः’ इत्युद्दिष्टार्थसंग्राहकाः श्लोका अपि दृश्यन्ते। संक्षिप्तस्य विवरणेन ग्रहणसौकर्यं, विस्तृतस्य संक्षेपेण धारणसौकर्यं भावयन्त इत्थं लेखाः प्राचीनाचार्यलेखेषूपलभ्यन्ते। व्याकरणमहाभाष्यकारस्यापीयं शैली। कुसुमाञ्जल्यादिष्वपि कारिकाप्रतिपाद्यार्थानां पूरणिकारूपैर्गद्यवाक्यैर्विशदीकरणं, शास्त्रदीपिकाभामत्यादिषु विस्तृतप्रघट्टकार्थस्य कारिकारूपेण सङ्ग्रहणं दृश्यते। सुश्रुतकाश्यपीयादिष्वपि सङ्ग्रहविग्रहरूपेण द्विधा वर्णनं तत्र तत्रोपलभ्यते। इत्थमेकस्यापि विषयस्य बुभुत्सूनां हृदयोद्बोधनाय समासेन व्यासेन द्विधा निरूपणं मूलाचार्यस्यापि सम्भवति। एकप्रकारेण पूर्वाचार्येक्ते पुनरपरथा पश्चात् संस्कत्र्रा निरूपणमपि सम्भवति। गहनेषु विषयेष्वन्तर्मिमङ्क्षूणामुपयोगायेत्यमुक्तिभेदो न पौनरुक्त्यदोषमावहतीति प्रतिपत्तये—
‘गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते। तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते’ ।।
इति चरकसंहितायां स्पष्टमेवोक्तमस्ति। इत्थं समासव्यासरूपाभ्यां रचनाकौशलं ‘प्रौढिर्व्याससमासौ च’ इति गुणत्वेन न पुनर्द्दोषत्वेन कीर्त्यतेऽभियुक्तैः॥
१. निदानस्थाने अ. २. श्लो. ४१।
७८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
तदेवं चरकाचार्येणाग्निवेशतन्त्रं वाक्यश उपादायैव उपपत्तिपूर्तये संक्षिप्तये विशदीकृतये ग्रहणधारणोपयोगितया च स्वयमात्मना पूरणीयतया उपबृंहणीयतया च दृष्टानि पदानि वाक्यानि प्रघट्टकाँश्चानुप्रवेश्य मूलवाक्यानां स्वीयवाक्यानां च तिलतण्डुलभावायमानमेव प्रतिसंस्करणं व्यधायि। यथा हि भारतग्रन्थमन्तर्निवेश्यैव नानोपाख्यानादीनि वैशम्पायनादिप्रश्नप्रतिवचनादीनि पूरणिकावाक्यानि आद्यन्तयोरुपक्रमोपसंहारग्रन्थाँश्च निवेश्योपबृंहणेन भारतस्य महाभारतभाव इति महाभारतविमर्शेऽन्यत्रास्माभिः प्रतिपादितमस्ति। एवं प्रायमेवात्र संस्करणेन परिमार्जितरूपान्तरमुपपादितं चरकाचार्येण। येन मूलग्रन्थपरवशत्या मूलग्रन्थस्य यादृशो विषयपौर्वापर्यक्रमः स एव संस्कारोत्तरमपीत्यस्यां चरकसंहितायां सुश्रुतसंहितापेक्षया विशृङ्खलितो ग्रन्थसन्दर्भ इति लोकदृष्टिश्चरकाचार्येणापि न परिजह्रे। स्वातन्त्र्येणानेन निबद्धं यद्यभविष्यत् तदा तादृशः प्रौढविद्वान् पौर्वापर्यक्रमसन्दर्भशुद्धिं कथं नादर्शयिष्यत्। समासव्यासभेदेन पौनरुक्त्यमापन्नस्य प्रकीर्णस्य विषयस्याप्येकत्र सङ्कलनेन तथाभावं कथं न पर्यहरिष्यत्। एवंसंस्करणे ज्वरसमुच्चये आश्विनभारद्वाजादीनामपि वचनोपलम्भेन तद्दृष्टिपथं गतत्वेन सम्भावनीयानां भारद्वाजादिसंहितानामप्यनुसन्धानेन ततोऽपि सङ्गृहीता विषयाश्चरकाचार्येणान्रानुप्रवेशिता भवेयुः। तदेवं बहुभिः प्रयत्नैर्य्यापारैश्च प्रतिसंस्कृत्य प्राचीनेयं संहिता बहुविचारविषयपूर्णतां नीता स्यात्। येनैतत्परिज्ञानेन तन्त्रान्तराणां गतार्थतामस्या महनीयतां च संहितान्ते दृढबलः स्वमुखेनोद्गिरति—
‘यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इति ।।
तदनेन गुणगौरवेण अन्वर्थस्य चरकनाम्न आनुरूप्येण सर्वतश्चरित्वा प्रचारेण किलास्य ग्रन्थस्यान्तरङ्गदृशा आत्रेयाग्निवेशसंहितारूपत्वेऽपि बहिरङ्गदृशा वर्तमानसंहितायाश्चरकसंहितानाम्ना ख्यातिरुपाजायत किल ? ।।
भेडसंहिताया अपि तावदध्यायात्मकत्वावगमेन च पूर्वं सविंशाध्या¹यशतात्मकग्रन्थस्य स्थानाष्टकरूपस्य आत्रेयेण अग्निवेशेन चोपदेशनस्योक्त्या साकल्येन वर्तमानस्यास्य ग्रन्थस्य अपस्मारप्रकरणोत्तरभागस्य कालवशाद्विलोपेन चरकसमयेऽप्यसंस्करणेन पश्चादात्रेयोपदिष्टहारीतादीनामुपदेशेभ्यो विषयाननुसन्धाय दृढबलः पूरणं चकार किलेति संभाव्यते। पश्चात्पूरिते तावति भागे पूर्वापेक्षयाऽवतीर्णः पद्यप्रायो विभिन्नलेखोऽप्येतदेव समर्थयति ।।
अग्निवेशनाम्ना चक्रपाणिशिवदासादिभिरुद्धृतानां वचनानां दर्शनेन तावत्समयपर्यन्तमग्निवेशतन्त्रस्योपलब्धिरासीत् किलेत्यपि सम्भावयितुं शक्यते। परं तथात्वे दृढबलसमयेऽपि तदवस्थितिसम्भवेन अग्निवेशतन्त्रस्यैव शेषभागयोजनेन पूरणमुपेक्ष्य शिलोञ्छवृत्त्या बहुभ्यस्तन्त्रान्तरेभ्यो विषयान् समुच्चित्य चिकित्सास्थानान्तसप्तदशाध्यायान् सिद्धिकल्पस्थाने च निबद्ध्य पूरणे दृढबलः किमिति प्रवर्तेत। अग्निवेशतन्त्रतः पूरणमनुल्लिख्य तन्त्रान्तरेभ्यः पूरणं स स्वमुखेन वर्णयति। उपसहस्रवर्षपूर्वलेखितपुस्तकोपलब्धेन ततोऽपि प्राचीनतयाऽवगते ज्वरसमुच्चये चरकस्य वचनोद्धारे सत्यप्यग्निवेशवचनोद्धाराभावेन, वाग्भटादिभिरपि चरकस्यैवोल्लेखेन, हारुरसीदन्नृपसमयेऽप्यस्या एव चरकसंहिताया अनुवादेन च वाग्भटदृढबलादिसमयात् पूर्वमेवाग्निवेशतन्त्रस्य विलुप्तिरनुमीयते। चक्रपाणिशिवदासादिपर्यन्तमप्यग्निवेशतन्त्रोपलम्भेऽग्निवेशस्य चरकस्य च तत्र तत्र विषये साम्ये वैषम्ये च बहुशः प्रदर्शयितव्ये कतिपयानामेवाग्निवेशवचनानामुद्धारदर्शनं प्राचीननिबन्धेषु टीकासुविहितेभ्य उद्धारेभ्यस्तदुपलम्भं द्योतयति ।।
सुश्रुतसंहितायास्तु संस्करणे न स्पष्टतया ग्रन्थलेखोऽस्ति। केवलं 'प्रतिसंस्कर्ताऽपीह नागार्जुनः' इति डल्लनलेखमुपलभ्य सुश्रुतसंहितायाः प्रतिसंस्कर्तारं नागार्जुनं केचिन्मन्यन्ते। नागार्जुनस्य प्रतिसंस्कर्तृभावेऽपि सुश्रुतस्य ततः पूर्वतनत्वं सिद्ध्यति। किन्तु वर्तमाना सुश्रुतसंहिता नागार्जुनेन प्रतिसंस्कृतेत्यत्र न किमपि बलवत्साधनमुपलभ्यते इति पूर्वमेवोक्तम्। यदि सप्रतिसंस्कर्ताऽभविष्यत् तदा चरके ‘अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते’ इति लेखवदत्रापि स्वस्य प्रतिसंस्कर्तृतां कथं
१. इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्।
उपोध्गातः ७९
नोदलेखिष्यत् । आर्यनागार्जुनस्य अन्यनागार्जुनस्यापि ग्रन्थान्तरेषु शल्यविषयसूचनाऽपि क्वचन नोपलभ्यते । आर्यनागार्जुनस्य उपायहृदये सुश्रुतस्य नामकीर्तनेऽपि पूर्वनिर्दिष्टभैषज्यविद्यानिरूपणे शल्यविषयः पृथक्तया नोपात्तः । शान्तिप्रधाने बौद्धमार्गे परिनिष्ठितो बोधिसत्त्वस्थानीयो विद्वान् शस्त्रसाध्यायां शल्यविद्यायां कुतो वा प्रवृत्तः स्यादित्यपि सन्दिग्धो चेतः । आर्यनागार्जुनेनान्येन तान्त्रिकनागार्जुनेन वाऽस्याः संस्करणे दृढवासनानुस्यूता बौद्धीच्छायाऽवश्यमस्यां प्रवेष्टुमर्हति । न खल्वस्यां संहितायां क्वचन लेशतोऽपि बौद्धसम्प्रदायच्छायाोपलभ्यते, प्रत्युत—
महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै ।।
इति रामकृष्णादीनां महिमोल्लेखस्तत्र तत्र वैदिकमन्त्रप्रयोगः, अध्यात्मविषये सांख्यदर्शनग्रहणं च दृश्यते । तदेवं नागार्जुनस्य सुश्रुतसंहिताप्रतिसंस्कर्तृभाव आत्मनः साधनाय बलवत्प्रमाणमपेक्षते । सुश्रुतस्य पुनः संस्करणमुपलभ्यतेऽस्माभिरिति बहूनां प्राच्यानां पाश्चात्त्यानां च विदुषामभिप्रायः । क्वचिदर्वाचीनविषयाणामप्यनुप्रवेशदर्शनेनात्रापि संस्करणलेखनी प्रविष्टा इति ममाप्यभिप्रेतम् । परमेतदीये संस्करणे चरकसंहितायामिव न पौनरुक्त्यात्मकं संस्करणं प्रायः समीक्ष्यते । संस्कर्ता च उत्तरतन्त्रभागयोजकश्च अयमिति स्पष्टं तु न ज्ञायते, परं मत्सकाशस्थे ६३३ नेवारसंवल्लिखिते ताडपत्रीये सुश्रुत-पुस्तके पुष्पिकायां पूर्वभागे 'सुश्रुते शल्यतन्त्रे' इति, उत्तरतन्त्रान्ते 'इति सौश्रुते महोत्तरतन्त्रे चतुःषष्टितमोऽध्यायः, अतो निघण्टुर्भाविष्यति इति' तदुत्तरगते निघण्टुभागे समाप्ते 'सौश्रुत्यां संहितायां महोत्तरायां निघण्टुः समाप्तः' इति लेखो दृश्यते । इदमर्थप्रत्ययान्तेन सुश्रुतशब्देन सुश्रुतग्रन्थस्यापि ग्रहणं सम्भवति, परं पूर्वापरभागयोरेकनिबन्धुभावे एकेनैव रूपेणोल्लेखरव समुचिततया पूर्वभागे सुश्रुतशब्देन, उत्तरभागे सौश्रुतशब्देन विभिन्नतया निर्देशः पूर्वभागः सुश्रुताचार्यस्य, उत्तरभागस्तद्वंश्यस्य सौश्रुताचार्यस्येति बुद्ध्यावरोहयति । निघण्टुभागे उपक्रमे दिवोदासोपदेशसम्बन्धस्योल्लेखदर्शनेऽपि मूलाचार्यस्यैकतया ग्रन्थस्य समूलत्वेन प्रामाण्यविशेषामाधातुं तथा निर्देशनस्य सम्भावितया, एतदीयलेखस्यकिञ्चिदवतीर्णतया, तस्मिन्निघण्टुभागे उत्तरभागीय-शब्दविशेषाणामपि प्रविष्टतया च स निघण्टुभागोऽपि सौश्रुतस्यैव भवितुमर्हति । उत्तरतन्त्रं संयोज्यापूर्णशापूरकेण सौश्रुताचार्येण पूर्वभागेऽपि क्वचन संस्करणविशेषोऽपि विहितः स्यात् । महाभाष्यकृतः सौश्रुतशब्दघटितनिदर्शनस्य दर्शनेन सौश्रुतानामपि पूर्व प्रसिद्धिः, सुश्रुतवंश्यानां सौश्रुतानां शल्यविद्याविदां पार्थिवैः सह सम्बन्धमादाय सौश्रुतपार्थिवा इति पूर्वतः प्रसिद्धिरिति पूर्वं दर्शितमेव । तेन सुश्रुतस्य वंश्येन साम्प्रदायिकेन वा सौश्रुताचार्येण सुश्रुतस्य पूर्वतन्त्रं संस्कृतमुत्तरतन्त्रं निघण्टुभागश्च योजिते इत्यनुमीयते ।।
पूर्वाचार्यसंहितामुपलभ्यापि प्रस्थानान्तरीयाचार्यग्रन्थेभ्यो विशेषान्तराणामवगमे तान्यप्यनुप्रवेश्य पूर्वसंहिताया न्यूनतापरिहारेण सर्वाङ्गपूर्तये प्रयत्नस्य साधुतया दर्शनेन किल पश्चाद्योजकेन तन्त्रान्तरावगतविषयाणामपि संयोजनं, पूर्वतन्त्रां दिवोदाससंहितामुपादाय निबद्धायां सुश्रुतसंहितायामुत्तरतन्त्ररूपेण विहितं स्यात् । उत्तरभागे निविष्टा विषया विदेहादिपादिकीर्तितशालाक्यादितन्त्रान्तरसम्बद्धा इति तदुक्त्यैव स्पष्टीभवति । तत्रत्ये कौमारभृत्यप्रकरणे मूले आचार्यन्तरनिर्देशे कुमाराबाधहेतुभिरिति सामान्यत उल्लेखेऽपि तट्टीकाकृता पार्वतकबन्धकजीवकादिभिरिति निर्देशनेन जीवकस्यैतद्ग्रन्थोपलम्मेन च काश्यपजीवकादिप्रोक्तास्तदीयविषया-नप्युपादायोत्तरतन्त्रे योजनं कृतं सम्भाव्यते ।।
सुश्रुतोत्तरतन्त्रे रसप्रभेददर्शनपरस्य चतुःषष्ट्यध्यायस्य दोषप्रभेददर्शनपरस्यान्तिमस्य अध्यायस्य चान्तरा पञ्चषष्टि-तमोऽध्यायस्तन्त्रयुक्त्यध्यायः । कौटिलीयर्थशास्त्रेऽप्यन्तिमस्तन्त्रयुक्त्यध्यायः । उभयोर्युगपदालोचने उभयत्र द्वात्रिंशद्विधानां तन्त्रयुक्तीनामधिकरणदीनामूह्यान्तानां तदन्तर्गतानामुद्देशनिर्देशोपदेशप्रदेशातिदेशादीनां ग्रन्थान्तरेष्वदृष्टानामासाधारणभेदानामन्येषां च पदार्थानां केवलं स्वस्ववैद्यकनैतिकविषयकोदाहरणवर्जं निर्वचनसाम्यं दृश्यमानमेकस्यापरत्र छायानुवेधमनुमापयति । तत्र कतरस्यान्यतरस्मिंश्छायानुवेध इति पर्यालोचने कौटिलीये औपनिषदाधिकरणसमाप्तौ ग्रन्थान्ते शास्त्रीययुक्तिप्रदर्शनमिव सुश्रुतोत्तरतन्त्रे सहप्रवेष्टुमर्हयो रसभेददोषभेदप्रकरणयोरन्तरा तन्त्रयुक्त्यध्यायप्रवेशः पूर्वापरसङ्गतिदार्ढ्यमनुपपद्यन्नन्यदीयच्छायानुवेधेन
८० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
संस्करणान्तरे वाऽनुप्रवेशं सम्भावयति । चरकसंहितायामपि ग्रन्थान्ते तन्त्रयुक्तेर्विषया उद्देशमात्रेण निविष्टा दृश्यन्ते । तेऽपि दृढबलपूरितांश एव । पश्चात्तनेऽप्युत्तरतन्त्रे धन्वन्तर्युक्तिरूपतया पूर्वभागसम्बन्धेन प्रामाणिकत्वविशेषमवगमयितुं ‘यथोवाच भगवान् धन्वन्तरिः’ इति पूर्वभागवल्लेखोऽत्राप्यनुप्रवेशितो लेखकेनेति सम्भाव्यते । तदस्यां सुश्रुतसंहितायामनुप्रवेश्यविषयान्तराणि मूलग्रन्थोत्तरमुत्तरतन्त्ररूपेण पृथक्तयैव संयोजितानि न तु चरक इव तन्त्रान्तरालेष्वेवैकशरीरतामापाद्य । येन नवपुराणयोर्विषययोः संहितान्तरसंगृहीतविषयाणामपि परिच्छेदेन दर्शनं सुकरमुपजायते । सुश्रुतसंहितायां प्रथमाध्यायान्ते “सविंशमध्यायशतं पञ्चसुस्थानेषु संविभज्य उत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः” इति मुद्रितपुस्तकपाठदर्शने पूर्वसंहितासमये उत्तरतन्त्रस्यापि सद्भावप्रतीत्या द्वयोर्भागयोः समकालत्वमेवायाति । परं मदीयसङ्ग्रहालयगते प्राचीनताडपत्रपुस्तके तत्र तत्र बहुशः पाठभेदाः सन्ति । अत्रापि ‘........ संविभज्य उत्तरे वक्ष्यामः’ इति पाठोऽस्ति । येन १२० अध्यायान् पञ्चस्थानेषु विभज्य अत उत्तरं वक्ष्याम इत्येव ग्रन्थाशयो, न किलोत्तरतन्त्रनिर्देश इति प्रतिभाति । तृतीयाध्यायादौ अध्यायगणने मुद्रितपुस्तके दृश्यमानः ‘तदुत्तरं षट्षष्टिः’ इत्यंशोऽपि ताडपुस्तके नास्ति । किन्तु ‘अतःपरं स्वनाम्नैव तन्त्रमुत्तरमुच्यते’ इत्यारम्भविरहिता उत्तरतन्त्राध्यायविषयसंग्राहकाः ‘विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि’ इत्यन्ताः श्लोकास्तु ताडपुस्तकेऽपि सन्ति । पश्चादुत्तरतन्त्रभागयोजनोत्तरं तद्विषयसूचीश्लोका इमेऽप्यनुप्रविष्टा बहुशः सम्भवन्ति ॥
वृद्धजीवकीये तु पूर्वतन्याः काश्यपसंहिताया महत्त्वेन वृद्धजीवकेन संक्षिप्य तन्त्रं निर्मितमिति संहिताकल्पाध्यायलेखेन काश्यपीयसंहिता येन रूपेणासीन्न तेनैव स्वरूपेण वृद्धजीवकतन्त्ररूपतामापन्ना, अपितु संक्षिप्तराचनान्तरेण रूपान्तरमापन्ना इति स्पष्टमवबुध्यते । परं वृद्धजीवकेन संक्षेपणेऽपि मूलसंहितामनपेक्ष्य न स्वातन्त्र्येण रचनं विहितमपि तु तदीयोपदेशरूपाणि वाक्यानि तदर्थाश्चान्तर्भाव्यैव मध्ये मध्ये विच्छेदनीयविस्तृतांशानपहाय महत्याः संहिताया लघ्वाकारता केवलं विहिता इति तल्लेखतः प्रतीयते ॥
अत्रादितोऽन्तपर्यन्तं प्रत्यध्यायं पूर्वभागे खिलभागेऽपि ‘इत्याह भगवान् कश्यपः, इति ह स्माह भगवान् कश्यपः’ इत्युपक्रमोपसंहारवाक्ययोरेकरूप्यदर्शनेऽपि तदन्तर्गतानि न सर्वाणि वाक्यानि कश्यपस्य, अपितु सिद्धान्तोपदेशवाक्यान्येव तदीयानि, मध्ये मध्ये तत्तद्विषयोपन्यासाय पूरणिकारूपेण निर्दिष्टानि उपक्रमोपसंहरणवाक्यादीनि पश्चाद्वृद्धजीवकेन तन्त्रस्वरूपतापादने पूरितान्यपि भवितुमर्हन्ति । आद्यन्तयोः सर्वेष्वध्यायेषु ‘इत्याह कश्यपः’ इत्युल्लेखनं तु सर्वस्यास्य विषयस्य स्वकपोलकल्पनारूपत्वमपहृत्य कश्यपोपज्ञाभावेन कश्यपोक्तसंहिताया एव साररूपतया च प्रामाण्यं व्यवस्थापयितुं जीवकेन विहितं स्यात् । ‘इत्याह कश्यपः’ इत्युपक्रम्य निर्दिष्टस्यापि प्रकरणस्याभ्यन्तरे पूर्वभागे ‘साहसादतिबालस्य सर्वं नेच्छति कश्यपः’ (पृ. १२२), मज्जवसायोस्तु मण्डं सर्वेषां कश्यपः पूर्वम् (पृ. १७), ‘अथ कश्यपोऽब्रवीत् सर्वमप्येतदसम्यक्’ इत्यादिषु स्थलेषु, खिलभागेऽपि “पाययेदिति कश्यपः (अ. १० श्लो. ७३), यथास्वमिति कश्यप (अ. १० श्लो. ६६), पेय इति ह स्माह कश्यपः (अ. १० श्लो. ५८)” इत्यादिस्थलेषु पुनः कश्यपशब्दोल्लेखनं तदीयसिद्धान्तानामर्थानुवादं जीवककृतं सूचयति, किंवा वृद्धजीवकोपदेशकस्य मारीचकश्यपस्य तत्र तत्र ‘इति कश्यपः’ इत्यनुदेशनं प्राचीनकश्यपरम्परामभिप्रैति । शब्दतोऽर्थतो वोभयथाऽपि गृहीताः सिद्धान्ताद्युक्तयः प्राधान्येन व्यपदेशा भवन्तीतिन्यायेन काश्यपीयाः संमान्यन्ते । मनुस्मृत्यादिषु प्राचीननिबन्धेषु शिष्येण भृगुणा मनोः, सामश्रवादिभिर्याज्ञवल्क्यस्य शब्दतोऽर्थतश्चोपदेशान् संगृह्य सम्पूर्य च निबद्धेषु मनुसंहितायाज्ञवल्क्यसंहितादिनामभिर्व्यवहारस्योपलम्भेन प्राचीनार्षरचनासु दृश्यमाना शैली अत्राप्युचिता समीक्ष्यते । पूर्वसम्प्रदायोल्लेखे कश्यपस्येव तत्पुत्राणां काश्यपानामपि आचार्यभावेऽवबोधितेऽपि प्रत्यध्यायमुपक्रमोपसंहारयोः ‘इति ह स्माह कश्यपः’ इति, ग्रन्थाभ्यन्तरेऽपि तत्र तत्र ‘कश्यपोऽब्रवीत्, इति कश्यपः’ इत्यादिरूपेण सर्वत्र कश्यपशब्देनैव एतदीय आचार्य उल्लिख्यते ॥
अस्मिन् ग्रन्थे संहिताकल्पान्तः पूर्वभागस्तदुत्तरः खिलभागश्चेति भागद्वयमीक्ष्यते । उभयोर्भागयोः प्रत्यध्यायमुपक्रमोपसंहारयोः ‘इत्याह कश्यपः’ इति कश्यपोक्तरूपत्वेनोल्लेखवाक्यानि सन्ति । ज्वरसमुच्चये कश्यपनाम्नोद्धृतानि वचनानि एतद्ग्रन्थस्य
उपोद्घातः ८१
पूर्वभागस्थानि उत्तरभागस्थानि च संवादाय लभ्यन्ते । उभयत्र कश्यपस्य उपदेष्टृतया पूर्वभागे सर्वत्र जीवकस्य, उत्तरभागेऽपि बहुधा जीवकस्यैव क्वचन व्यक्त्यन्तरस्यापि उपदेश्यतयोल्लेखोऽस्ति । अत्र पूर्वोत्तरभागयोरेकोपदेशत्वबोधकानि पूर्वग्रन्थेन सहोत्तरग्रन्थस्य उत्तरग्रन्थेन सह पूर्वग्रन्थस्य च संयोजकानि वाक्यान्युभयोर्भागयोरुपलभ्यन्ते ॥
एवं दर्शनेन पूर्वोत्तरयोर्द्वयोर्भागयोः परस्परसम्बद्धयोरेकशरीरभावेन समुच्चितस्यास्य ग्रन्थस्य कश्यपसंहितारूपत्वमापातः प्रतीयते । परं पूर्वभागस्यान्ते पूर्वग्रन्थोपसंहारात्मकः संहिताकल्पाध्यायो ग्रन्थसमाप्तेर्निदर्शको लभ्यते । ग्रन्थस्य सावशेषत्वे सर्वान्त एवोपसंहरणं युज्यते । प्राचीने आत्रेयभेदयोरायुर्वेदीये संहिते सूत्रनिदानादिभिरष्टप्रस्थानैर्विंशत्युत्तरशताध्यायैश्च पूर्णे समुपलभ्येते । तथैवात्रापि पूर्वभाग एवाष्टौ स्थानानि तावन्तोऽध्यायाश्च पूर्यन्ते । संहिताकल्पाध्यायलेखेनापि—
सूत्रस्थाननिदानानि विमानान्यात्मनिश्चयः । इन्द्रियाणि चिकित्सा च सिद्धिः कल्पाश्च संहिता ।।
(श्लो. ७)
इति संहिताया अष्टावेवोपविभागाः प्रदर्श्यन्ते । तदन्ते ‘समाप्ता चेयं संहिता, अतः परं खिलस्थानं भविष्यति’ इति संहितासमाप्तिसूचकं पुष्पिकावाक्यमपि दृश्यते । अनेन अष्टभिः स्थानैः सविंशशताध्यायैश्च वर्तमाना वृद्धजीवकेन संक्षिप्त-विन्यासान्तरमापादितेयं पूर्वभागात्मिका काश्यपसंहितेति प्रतीयते ॥
तदुत्तरमनुक्तपरिशिष्टपूरणिकारूपेण पूर्वभागोक्तानां कतिपयानां विषयाणां विकासप्रक्रियया इतस्ततोऽपि सङ्गृहीतानां काश्यपोक्तानां विज्ञेयानां विषयविशेषाणां योजनया च पूर्वभागोक्तक्रममनुपादायैव प्रकीर्णविषयसङ्ग्रहायितः अशीत्यध्यायात्मकः खिलभागः आगन्तूनामन्तेनिवेशन्यायेन सुश्रुते १२०. अध्यायात्मकपूर्वसंहितोत्तरमुत्तरतन्त्रवत् पुनर्योजितः प्रतीयते ॥
मेघदूतादिषु केषुचिद्ग्रन्थेषु कथांशान् द्विधा विभज्य पूर्वोत्तरभागरूपेण विभागदर्शनेन नैवं सर्वत्र नियन्तुं शक्यते, तथाऽपि कादम्बरीदशकुमारादिषु पूर्वोत्तरभागयो रचनाभेदः क्वचन कर्तृभेदस्य स्पष्टमुल्लेखश्च । तादृशेषु पश्चात्पूरितांशस्य केवलमुत्तरभागनाम्नैव पृथग्व्यवहारः । ग्रन्थनाम तु समुच्चितस्यैव कादम्बरीदशकुमारचरितमित्यादिकमेव । रामायणेऽपि रामचन्द्रसदसि कुशलवाभ्यां गीताद्भागादुत्तरो भागः पश्चात्पूरित एव स्यादिति बहूनां विदुषां विचारः । तद्भागस्योत्तरकाण्डनाम्ना व्यवहारेऽपि समुच्चितग्रन्थस्यैकेनैव नाम्ना व्यवहतिः । ईदृशस्थलेषु यत्रोत्तरभागे लेखशैल्या विभेदोऽनुसन्धीयते, तत्र कर्तृभेदेन समयभेदेन वा निर्माणभेदः प्रायिकोऽनुभूयते । सुश्रुतेऽपि पूर्वभागे कौमारभृत्यशालाक्यादिविषयान्तराणां विकासेन संयोजनोचितानां विषयाणामुपलम्भेन एककर्तृत्वे तत्र तत्रैवं सविस्तरं वर्णनौचित्येऽपि पूर्वत्र शल्यप्रस्थानप्राधान्यरक्षायै लेशत
१. पूर्वभागे—
पप्रच्छ विनयाद्विद्वान् कश्यपं वृद्धजीवकः ।
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः । पुनरष्टविधः प्रोक्तो निदाने तत्त्वदर्शिना ।। (पृ. ९३)
सूत्रस्थाने भगवता द्वौ व्रणौ परिकीर्तितौ । तयोर्विस्तरमिच्छामि श्रोतुं लक्षणमेव च ।। (पृ. १२३)
सूतिकोपक्रमाध्याये यच्च वक्ष्ये खिले मुने । तदिहापि प्रयोक्तव्यं सन्निपातचिकित्सितम् ।।
(विशेषकल्पे)
खिलभागे—
कश्यपं सर्वशास्त्रज्ञं सर्वलोकगुरुं गुरुम् । भार्गवः परिपप्रच्छ संशयं संश्रितव्रतः ।
प्रोक्तं ज्वरचिकित्सायां विषमत्वस्य कारणम् । वक्तुमर्हसि तत्त्वेन सविशेषं सविस्तरम् ।
(अ. १. श्लो. ३-४)
अथ खल्वस्माभिः पूर्वं यद्रसविमानेऽभिहितं लालादिचतुर्विंशतिविधमहारमानं तस्येदानीं प्रतिकल्पविशेषानुपदेक्ष्यामः ।।
(अ. ५ गद्य ३)
परिक्षेकास्तु बालानां दन्तजन्मनि ये मया । कीर्तितास्ते प्रयोक्तव्याः परिभूताक्षिरोगिषु ।।
(अ. १३ श्लो. २५)
पूर्वं ज्वरनिदाने तु प्रोक्तः प्रत्येकशो मया । यथावदेषां रूपाणि संप्रवक्ष्याम्यतः परम् ।।
८२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
एव तादृशा विषया दृश्यन्ते। विस्तृताः प्रस्थानान्तरीयविषया उत्तरतन्त्ररूपेण पुनरुपलभ्यमानाः पश्चात् पूरिता इत्यवगन्तुमौचित्येन उत्तरतन्त्रनाम्ना निर्दिश्यन्ते। लेखरचनाभेदेनापि निर्माणभेदोऽनुसन्धीयते। एवमेव काश्यपीयेऽपि खिलभागस्य पूर्वभागेन सहैव रचितत्वे पूर्वभागे प्रविष्टेषु ज्वरादिविषयेष्वेव खिलभागोक्तानां ज्वरादिविषयगतविशेषान्तराणामपि सहयोगेन एकपिण्डभावेन निरूपणौचित्ये विशेषान्तराणां खिलभागे पुनः कथनेन उपदेशस्थानसमयोपदेश्यव्यक्तिभेदाद्यवगमेन च पूर्वग्रन्थस्य खिलभागस्य च कर्तृभेदेन समयभेदेन वा रचनाविभेदोऽनुसन्धातुं शक्यते। ऋग्वेदादिष्वपि खिलरूपेण संयुक्तस्य भागस्य समयान्तरमङ्गीक्रियते विवेचकैः। अत्रापि खिलनाम्ना निर्देशोऽपि समयभेदं कर्तृभेदं चानुमापयति। 'तन्त्रंसखिलमुच्यते' इति संहिताकल्पाध्यायवाक्यदर्शनेन खिलभागसंहितायास्तस्या एव संहिताया वृद्धजीवकीयतन्त्रस्वरूपतामापन्नाया वृद्धजीवकीयतन्त्रत्वं, खिलभागीयविषयाणामपि काश्यपोपदेशात्मकत्वेनात्रानुस्यूततया सखिलस्यास्य ग्रन्थस्य संहितात्वं चोपपन्नं भवति। अत्र पूर्वभागे—
उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः। चोदितो दारुवाहेन वेदनार्थेऽभ्यचोदयत् ।।
(पृ. ३३)
इति दारुवाहप्रेरितस्य वृद्धजीवकस्य कश्यपेनोपदेशनमवगम्यते। तदनुसारेण पूर्वभागे प्रायो बहुष्वध्यायेषु जीवकस्य प्रश्नः कश्यपस्य प्रतिवचनं चास्ति। वत्सस्य भृगुसन्ततितया वात्स्यस्य पूर्वपुरुषत्वेन निर्दिष्टस्य जीवकस्य भार्गवशब्देन सम्बोधनौचित्येऽपि केवलमेकत्र 'भार्गवास्थीनि....' (पृ. ७५) इति भार्गवशब्देन सम्बोधनमस्ति। अन्यत्र तु जीवकशब्देनैव सम्बोधनं दृश्यते। उत्तरभागे तु दारुवाहस्य नामोल्ले खो नास्ति। क्वचनैव जीवकशब्देन सम्बोधनं, प्रायो भार्गवशब्देन सम्बोधनं चास्ति। अन्तर्वत्नीचिकित्सितकुक्कुणकाध्यायादौ क्वचन जीवकभार्गवशब्दाभ्यां सम्बोधनं जीवकप्रश्नं च विहाय 'नृप ! नराधिप ! विशां पते !' इत्यादिरूपेण राज्ञः सम्बोधनानि सन्ति। एकत्र 'इति वार्योविदायेदं' इति (खि.स्थान.अ. १३) वार्योविदस्य कश्यपेनोपदेशनमप्युल्लिखितं दृश्यते। लेखरचनाया अनुसन्धाने पूर्वभागे प्रायो लेखप्रौढिः आर्षभावप्राचुर्यं विषयगाम्भीर्यं च दृश्यते, उत्तरभागे तु प्रायो विकसिता विषयाः, प्राञ्जला निरूपणप्रक्रिया च दृश्यते रेवतीकल्पचर्मदलजातकर्मोत्तरीयशूलचिकित्सिताध्यायादिषु क्वचन पूर्वभागानुरूपा प्रौढा आर्षी रचना विषयगम्भीरभावश्चोपलभ्यते। एवं दर्शनेन प्रायो दारुवाहप्रेरिताय जीवकाय कश्यपेन विहितानुपदेशान् प्राधान्येनोपादाय पूर्वभागः प्रौढप्रायप्रक्रियया, जीवकाय वार्योविदादिभ्योऽन्येभ्यश्चान्यत्रापि समये समये कश्यपोपदिष्टान् विषयानुपादायोत्तरभागो विकसितप्रायप्रक्रियया निबद्धः प्रतीयमानो लेखनीभेदं समयभेदं चानुमापयति। संहिताकल्पाध्यायोक्तौ वृद्धजीवकनिबद्धतन्त्रस्य कञ्चित्कालं लुप्तस्य प्राप्त्या वात्स्येन संस्करणस्य निर्देशोत्तरं—
स्थानेष्वष्टसु शाखायां यद्यन्नोक्तं प्रयोजनम्। तत्तद्भूयः प्रवक्ष्यामि खिलेषु निखिलेन ते ।।
(स.क.श्लो. २८)
इत्युक्तिर्हि वात्स्यस्यैव भवितुमर्हति। तेनाष्टास्थानात्मकमेव काश्यपसहितासंक्षेपरूपं वृद्धजीवकीयं पूर्वतन्त्रं, तत्रानुक्तान् सप्रयोजनानाचार्यान्तरग्रन्थेभ्य उपदेशपरम्परातश्चागतान् कश्यपोपदिष्टविषयानप्युपादाय वात्स्येनैव खिलभागरूपेणान्तेयोजना विहिता इति प्रतिभाति। वात्स्येनाय भागस्य योजनेऽपि काश्यपीयोपदेशानां शब्दतोऽर्थतश्चेतस्ततः सङ्ग्रहणेन उच्चावचरूपेणावस्थितेभ्यस्तत्तद्ग्रन्थान्तरगतेभ्यो लेखेभ्यो गृहीतानामंशानां विभिन्नभावेनात्र खिलभागे क्वचन प्रौढ्या क्वचन साधारणया च प्रक्रियया ग्रन्थलेखदर्शनंसुसङ्गतमेव। वार्योविदकाङ्क्षायनभारद्वाजदारुवाहहिरण्याक्षवैदेहानां पूर्वेषां तत्सामयिकानां चाचार्याणां मतानि निर्दिश्य वृद्धजीवकस्यापि मतविशेषो निर्दिष्टः। अस्य वृद्धजीवकस्य समसमयकान्तेवासितया तदीयमतस्यापि कश्यपेन स्वयं जीवकेन वा पूर्वपक्षश्रेण्यां निर्दिश्यमाने चरमसिद्धान्तरूपेण कश्यपमतनिर्देशनं सम्भवतु नाम, परं पश्चाद्वमनविरेचनाध्याये (सि.स्था.) कौत्सपाराशर्यवृद्धकाश्यपवैदेहवार्योविदानां प्राचां तादात्विकानां चाचार्याणां मतनिर्देशोत्तरं वात्स्यमतं निर्दिश्य सर्वेषामेषां पूर्ववादत्वेन चरमसिद्धान्ततया कश्यपमतनिर्देशस्थले प्रविष्टो वात्स्यः सिद्धान्तवादरूपेण
उपोद्घातः
८३
निर्द्दिष्टात् कश्यपमतात् पूर्वं पूर्ववादरूपेण बहुकालोत्तरोद्भवस्य प्रतिसंस्कर्तुर्वात्स्यस्य कश्यपेन वृद्धजीवकेन वा निर्देशानौचित्येन एतद्ग्रन्थसंस्कर्ता वात्स्य एवायमिति शङ्कितुं न युज्यते। अत्रोल्लिखिताः कौत्सपाराशर्यादयः सर्वे प्राचीनाचार्या एवेति तत्समश्रेण्यां निर्द्दिष्टेन वात्स्येनापि प्राचीनेनैव भवितव्यम्। शतपथे वंशब्राह्मणे भारद्वाजपाराशर्याग्रिवेश्यहारीत-काप्यगालवजातूकण्यंत्रियादयो बहवः प्राचीना ऋषय उपलभ्यन्ते। तैः सह वात्स्यस्याप्युल्लेखोऽस्ति। एतन्नामान आयुर्वेदाचार्या अप्यायुर्वेद-ग्रन्थेभ्योऽवगम्यन्ते। यद्यप्यत्र ब्रह्मविद्यापरम्परानिर्देशनैषामायुर्वेदाचार्यत्वं नायाति, समाननामानोऽन्येऽपि सम्भवन्ति, तथाऽप्येते ब्रह्मविद्याविद एव केवलं, नत्वायुर्वेदविद इति न नियन्तुं शक्यते। एषां पूर्वकक्षयां स्वर्धैद्यत्वेन प्रसिद्धयोरश्विनोरप्युल्लेखेन तत्परम्परागतानामेषामायुर्वेदेऽप्याचार्यभावो न खलु न सम्भवी। आयुर्वेदीयग्रन्थैस्तदीयपूर्वाचार्यत्वेन ज्ञायमानानांम् एषां बहूनां नाम्नामस्मिन् वंशब्राह्मणे प्रायः सहभावेन दर्शनात् एवेमे स्युरिति सम्भावयितुं शक्यते ॥
प्रतिसंस्कर्त्रा वात्स्येन न केवलं खिलभागयोजना विहता, किन्तु—"संस्कृतं तत् पुनस्तन्त्रं वृद्धजीवकनिर्मितम्'। (सं.क. श्लो. २७) इति संहिताकल्पाध्यायलेखेन पूर्वभागेऽपि संस्करणलेखन्यनुप्रवेशितेति स्पष्टमवबुध्यते। परमनेन वात्स्येन स्वीयवक्तव्यान्यप्यनुप्रवेश्य विशेषविषयसंभृतस्य खिलभागस्य पृथङ्गिनबध्य संयोजनेन पूर्वभागे मूलग्रन्थविपर्ययरूपो न तथा विशेषप्रतिसंस्कारोऽस्मिंस्तन्त्रे विहितः स्यात्, अपि तु क्वचन पूरणिकावाक्यानि क्वचन स्वीयमतविशेषं तदात्वे समयागतान् विषयांश्च कांश्चनानुप्रवेश्य यथावस्थित एव पूर्वग्रन्थे तत्र तत्र पदवाक्योपबृंहणमात्रं विहितं स्यादित्यनुसन्धीयते ॥
यस्य कस्यापि वस्तुनो निबन्धस्य वा गुणाधानेनोज्ज्वलीकृतये प्रवर्तन्ते प्रतिसंस्कर्तारः। एवमुद्दिष्टप्रक्रियया संस्करणेन तासु प्राचीनसंहितासु लेखस्य विषयविशेषाणां वा सङ्कोचविकासादिभिर्नवप्रतिभातविषयाणां प्रवेशनेन, असाधुतया दृष्टांशानां परिहाणेन परिवर्तनेन चैवमादिभिः संस्कारविशेषैर्नवीकृतानि दृश्यमानानि रूपान्तराणि सम्पाद्यन्तेति प्रतिसंस्कर्तॄणां प्रयत्नः स्थाने भवतु नाम, परमत्रैवं मनसि प्रतिभाति। एवमासां पुनः पुनः संस्करणेषु प्राचीनसंहितालेखानां प्रतिसंस्कर्तृलेखानां न नीरक्षीरसम्भेदविधानेन प्रतिसंस्कर्तृनिबन्धेषु प्राचीनसंहितानामन्तर्भावः समज्रिन। ततश्च प्राचीननात्रेयसंहिताया अग्निवेशेनोपबृंहणं, अग्निवेशसंहितायाश्चरकाचार्येण संस्करणम्, एवं कश्यपसंहिताया वृद्धजीवकेन संक्षेपणं तदीयतंत्रस्य वात्स्येन पुनः प्रतिसंस्करणमिति इयन्ति पदानि वाक्यानि प्रबन्धाश्चैतदीयानीति दुःशक इदानीं परिच्छेदः। यथा प्राचीननावनीतक मूलग्रन्थस्य नवप्रवेशितलेखेन सह प्रतिसंस्कृतस्य लाहोरप्रदेशात् प्रकाशनेन प्रतिसंस्कर्त्रा अपूर्णविषयपरिपूर्णादिनोपकृतमेव, संस्करणे वाग्भटनगेन्द्रनाथादिपश्चात्तनोद्भाविर्तौषधानामन्यनुप्रवेशनेनानुभवसिद्धैर्बहुभिरौषधैः समुपबृंहितमपीति सन्तोषस्यैव विषयः। परमस्मिन् प्रकाशने लिपिभेदेन कोष्ठकाभ्यन्तरविन्यासादिना व्याख्यारूपेण वा नवपूरितांशस्य यदि प्रकाशनमभविष्यत्तदा इयानंशः प्राचीन इयानंशो नवसंस्करणे प्रवेशित इति सुतरां पर्यच्छेत्स्यत। सम्प्रति मूलनावनीतकमात्रस्य यूरोपे लाहोरप्रदेशे च पृथङ्मुद्रितस्योपलब्ध्या उभयोः सङ्गमने प्राचीननवीनांशानामधुना परिच्छेदः कर्तुं शक्यते, तथाऽपि समयवशेनास्य मूलग्रन्थमात्रपुस्तकस्याानुपलब्धौ प्रतिसंस्कृतपुस्तकमात्रात्तथा परिच्छेतुं नैव शक्येत। वाग्भटनगेन्द्रनाथाद्युल्लेखलिङ्गेन नगेन्द्रनाथविदुषोऽप्यनु मूलनावनीतकोदय इति संशयस्थानं पश्चात्नानां जायेत च। तथैव पुरासमये काश्यपसंहितात्रेयसंहितादीनां तदनुस्यूतानामग्निवेशसंहितावृद्धजीवकीयतन्त्रदीनां चरकवात्स्यादिविहितप्रतिसंस्कारग्रन्थेभ्यः पृथगुपलाम्भः स्यादेव। प्रचलितैः प्रतिसंस्कृतरूपान्तरैः पूर्वस्वरूपाणामप्रचारतो विलोपेन पुरातनानि स्वरूपाणि विलीनान्यभूवन्। प्रतिसंस्करणे च कति पूर्वतनांशास्त्यक्ताः कति वा नवांशाः प्रवेशिताः कति चांशा रूपान्तरमापादिता भवेयुः। येन तत्तदीयांशानां परिच्छेदेन सहाचार्यसमयस्य परिच्छेदोऽपि दुष्करः समज्रिन ॥
नानाविधासूच्चावचासु प्रज्ञाभूमिकासु उदीयमानैः प्रतिभानविशेषैराचार्यान्तरोपदेशादीनामनुसन्धानविशेषैश्च नवनवा अपि विचारविशेषाः समुद्भवन्ति। पूर्वेषामाचार्याणां सिद्धान्ता¹ अपि पश्चात्नीनाचार्यान्तराणां विचारान्तरैरन्यथा प्रतिभासमानाः
१. E. E. E. VI 4 P. 751.
८४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
प्रतिसंस्करणे रूपान्तरं परित्यागमुपगच्छन्तोऽपि सम्भवन्ति। क्वचन निर्मला अपि पूर्वे सिद्धान्ताः पश्चात्संस्करणे पुरुषसुलभैर्दोषैर्मांलिन्यमुपयान्ति। यदि नाम चरकसंहितायां चिकित्सितस्थानीयान्तसप्तदशाध्यायानां सिद्धिकल्पस्थानयोश्च विलोपेन दृढबलाचार्येण पश्चात्पूरिततया तावान्भागो दृढबलस्यैव रचनारूपः, तत्र न आत्रेयस्याग्निवेशस्य चरकाचार्यस्य च लेखन्याः प्रवेश इति अन्तभागे पृथगवस्थितस्य तावद्भागस्य विचारसौष्ठवासौष्ठवे दृंढबलस्यैव शिरसि। एवमेवाग्निवेशचरकाभ्यामपि स्वीयविचारविशेषलेखानां परिच्छेद्यरूपेण पूर्वग्रन्थान्ते पृथक्सन्निवेशो व्यधास्यत, किं वा अग्निवेशतन्त्रमद्यापि पृथगलप्स्यत, तदा उभयोः संवादे तत्र तत्र भागे दृश्यमानाः सदसन्तो विचारा उक्तयश्च तस्मिंस्तरमिन्नेव स्वातिशयमाधास्यन्त। अपि तु पूर्वपश्चाद्बवाचार्याणामुक्तयोर्गङ्गायमुनयोरिवैकत्रैव संमिश्रणे उपजाते पूर्वतन्त्रे च पृथगनुपलब्धे, क्वचन दृश्यमानानां सदसतामुन्मेषाणां यशोऽयशश्च प्राचीनाचार्यस्य पश्चात्नाचार्यस्य वेत्यनिश्चयेन पश्चात्नाचार्यसमये उपजातस्यापि अन्यथाभावस्य प्राचीनाचार्येषु दोषः शङ्कनीयः सम्भवति। न केवलमेष प्रसङ्गश्चरकसंहितायामेव, अपि तु सुश्रुतसंहितायां काश्यपसंहितायामपि पश्चात्संस्करणे प्रविष्टा काश्चन विकृतयः अर्वाञ्चो विषयाश्च क्वचनोपलभ्यमाना अस्येत्यनिश्चीयमाना मूलसंहितानिबन्धॄणां महर्षीणामप्यर्वाग्भावशङ्कायै अपसिद्धान्तशङ्कायै च जायन्ते। यथाहि भारतस्य पश्चादुपबृंहणेन महाभारतभावपत्तौ ततः पश्चाद्वा पुनः पुनः संस्करणे प्रविष्टानां शब्दविशेषादीनां प्रवेशसमयनिर्धारणेन मूलभारतमप्यर्वागाकृष्यमाणमिव दृश्यते। एवं चरकसंहितायां दृश्यमानो विकसितो निग्रहस्थानस्योत्तरो विशेषविषयः आत्रेयस्याग्निवेशस्य चरकस्य वा लेखगत इत्यनिश्चीयमान आत्रेयस्यापि अर्वागाकर्षणशङ्कायै जायते। एवमेव अस्यां काश्यपसंहितायां दृश्यमाना उत्सर्पिण्यपसर्पिण्यादयः केचन शब्दविशेषा वात्स्यीये प्रतिसंस्करणे एव प्रविष्टा भवितुमर्हा अपि काश्यपस्य वृद्धजीवकस्य वात्स्यस्य वेति अनिर्धार्यमाणाः सन्तः कश्यपवृद्धजीवकयोः प्राचीनत्वसाधकेषु बहुषु लक्षणेषु जागरूपकेष्वपि अर्वाचीनत्वशङ्कायै जायन्ते॥
प्राचीनग्रन्थेष्वेव इतस्ततः करणेन नवविचाराणामप्यनुप्रवेशनेन पुनः संस्करणं न केवलं भारतीयपूर्वग्रन्थेष्वेव, अपि तु पूर्वसमये देशान्तरेष्वपीदृश्येव प्रक्रियाऽऽसीत्। ग्रीसदेशीयप्राचीनभिषगाचार्यस्य हिपोक्रिटसस्य ग्रन्थेऽपि एवमेव प्राचीननवीनविषययोस्तितलतण्डुलभावेनाविभागप्रक्रियया पुनः पुनः संस्करणस्योपजाततया तत्रत्यैरपि विवेक्तुं न शक्यते। एवं मिश्रदेशेऽपि एवर्टस-प्येयिरसनामकस्य प्राचीनग्रन्थस्यापि पुनः पुनः संस्करणमजायत। पूर्वग्रन्थेष्वेव नवविचारोदये तेषामपि तदभ्यन्तर एवानुप्रवेशनं, क्वचन पुस्तकप्रान्तभागे लेखनं, टीकाटिप्पण्यादिरूपेण निखिलानां नवविचाराणामपि ग्रन्थमध्य एव प्रवेशं संस्करणेऽभूत्। प्राचीनग्रन्थस्य सारांशमात्रं तत्र विन्यस्तमप्यभूत्। स्थानभेदेन लब्धानां पाठभेदानां मपि तत्रैवानुप्रवेशो व्यधीयत। येन पूर्वग्रन्थे कत्यंशाः प्राचीनाः कत्यंशाः पुनः संस्करणे प्रविष्टा इत्यपि परिच्छेत्तुमशक्या अभूवन्। समये समये जायमानानां नवनवविचाराणामेकत्रैवानुप्रवेशनेन पूर्वापरग्रन्थलेखे मिथो विसंवादो व्याघातश्च दृष्टि पथमुपेताः, इत्थं पूर्वापरविचाराणां मिश्रणस्य प्राचीनः सम्प्रदायः समयेन सर्वतो विप्लवाय समुपस्थितः॥
पूर्वोपदंशिताभिरुपपत्तिभिर्महावग्गपालीजातकतब्बित्तीयकथादिभिरपि प्राक्तनतया दृश्यानां धन्वन्तरिकश्यपजीवकादीनां तत्सामानन्यायेनात्रेयसुश्रुतादीनामपि प्रतिसंस्कारवशात् प्राप्तस्यास्यार्वाचीनविषयावबोधिनः कस्यचित्पदस्य वाक्यस्य विषयस्य वा दर्शनमात्रेण मूलग्रन्थस्याप्यर्वागाकर्षणायासे २३०० वर्षपूर्वमशोकनृपतिना सर्वतः समुद्घाटितेषु सर्वसाधारणचिकित्सालयेषु अपेक्षणीयानां सुविचारपूर्णानां सर्वाङ्गसम्पन्नग्रन्थानां, तेषु परिनिष्ठितानां भिषजां, सुपरीक्षितानामौषधानाम्, अभिनन्दनीयानां भैषज्यप्रक्रियाणां च स्पृहा कथङ्कारं पूर्येत। कश्यपात्रेयसुश्रुतादयः प्राचीनाः प्रौढविद्वांसस्तदीयग्रन्थाश्च पश्चादवतार्यन्ते, नातः पूर्वे ग्रन्थास्तदात्वे प्रसिद्धतया सम्भाव्यन्ते। ४०१ वी. सी समये मेमनूननामकस्य पारसीकसाम्राजो राजकुलवैद्यः टी. सी. यस. नामा यवनवैद्य आसीदिति तदीयेतिहासोपलम्भवद्भारते तदात्वे कस्यापि देशान्तरीयभिषजस्तच्चिकित्सालयेष्वागमनवृत्त किमपि नोपलभ्यते। वी. सी. पूर्वकालिकमहावग्गप्राचीनबौद्धवैद्यकग्रन्थोऽप्यात्रेयादिसिद्धान्तानुसारीति नातः पार्थक्येनावतिष्ठते। सर्वप्राथम्यरूपेणोपलब्धान् कश्यपात्रेयसुश्रुतादिग्रन्थांस्तद्विद्वंश्च परित्यज्य अनुपस्थितानां केषां कल्पनया शिलालेखप्रतिष्ठापितास्ते सर्वसाधारणचिकित्सालया आत्मलाभमासादयेयुः। आत्रेयादीनामशोकचिकित्सालयोद्घाटनोत्तरत्वे लोकोपकारदृशाऽत्यन्त-मुपादेयस्तादृशः साधारणौषधालयः किमित्येभिरुपेक्ष्येत। न खलु तदनुप्रभावितः कोऽपि लेख आत्रेयादीनां दृश्यते॥
उपोद्घातः ८५
एवं केचन स्थूलसिद्धान्ता अपसिद्धान्ता अपूर्णांशा वा क्वचन सुश्रुतादिनिबन्धेष्वद्यत्वे समीक्ष्यमाणा अपि केषाञ्चिच्छ्रद्धायै जायन्ते। तदिदं मूललेखस्य प्रतिसंस्कारस्य च नीरक्षीरायितस्यैव विजृम्भितं सम्भवति। समयवशेन विज्ञानस्य विद्यान्तराणां यन्त्रविशेषाणां चोत्तरोत्तरं परिष्करणेनाद्यत्वे नवनवानां सिद्धान्तानामुन्मेषेण प्राचीनानां पूर्वे सिद्धान्ताः स्थूला अपसिद्धान्ता वा इदानीं प्रतिभासन्तां नाम, परं विचारदृष्टिर्न खलु सीमिता। एकेन साधुदृष्टमप्यन्योऽन्यथा पश्यति। एकस्मिन् समये साधु साधितमपि समयान्तरे अन्यथाऽऽलोच्यते। यथा हि भारतीये वैद्यके पूर्वतः प्रवृत्तां शोधितधातुरसौषधोपयोगपद्धतिं वैदेशिका विद्वांसो बह्वीः शताब्द्यीः अनुपादेयामहितावहां च वदन्त आसंस्त एवाद्यत्वे तामुपोदेयां साध्वीं साधयन्तस्तया व्यवहरन्ति च। एवमेव कति पूर्वेषां सिद्धान्ताः पश्चाद्भवैर्वैज्ञानिकप्रगत्या बहून् समयानपसिद्धान्तीकृता अपि अद्यत्वे पुनर्द्दष्टैः सुपरिष्कारे पुनः प्रतिष्ठाप्यन्ते। प्राचीनसमये विज्ञानसाधनं किमात्मकमासीदिति न परिच्छिद्यते, तथाऽपि प्राचीनसम्प्रदायपरम्परया अनुभवविकासेन चिरतत्परतया तपःप्रणिधानालोकेन चोज्ज्वलेषु पूर्वेषां हृदयेषु प्रतिभाता विषया निर्मला अपि बहुशः सम्भवन्ति॥
स एव विषयः पुनः पुनर्विचारणे परिमार्जनैनौज्वल्यमुपैति। तेनैव ग्रन्थकर्त्रा स्वीयः पूर्वनिबन्धः परिमार्जितविचारान्तरोदये आवापोद्वापप्रक्रियया अन्यथाऽपि संस्क्रियेत तदा स्वस्मिन्नेव हृदये पुनः पुनरपि प्रतिभातानां विचाराणामेकभावानुस्यूततया मिथः सम्पर्केण मुख्यप्रमेयानुबन्धेन तादात्विकानामेव विषयाणामनुप्रवेशेन च स संस्कारो गुणाधानायैव जायते न पुनः समयान्तरे शङ्काविप्लवोदयाय। एवंरूपं संस्करणं प्रशस्यतेऽभियुक्तैः—
‘आवापोद्धरणे तावद्यावद्दोलयते मनः। पदस्य स्थापिते स्थैर्य्ये हन्त सिद्धा सरस्वती’।। इति
किन्तु प्राचीनानां महर्षिप्रभृतीनामुपदेशात्मकेषु ग्रन्थेषु पश्चात्समये आलोचनेऽभिप्रायभेदेन निगूढगर्भाणां पूर्ववाक्यानामन्यथा प्रतिभासेन तत्तत्सामयिकैर्नवविचारैः पूर्वविचाराणामन्यथा प्रतिपत्त्या च नवोदितविचारविशेषादीननुप्रवेश्य पूर्वग्रन्थानामावापोद्वापप्रक्रियया परिवर्तनेन विकासनेन संक्षेपणेन च रूपान्तरकरणात्मके प्रतिसंस्कररो पश्चात्तननां प्रवृत्तिर्न समीचीनाऽवभासते। पूर्वेषां सिद्धान्तानां लेखानां वा विपर्यासे स्वरूपमेव प्रच्यवेत, दोषान्तरशङ्कया वा मलिनिमाऽवभासेत। पूर्वेषामपि सूत्रभाष्यादीन्ममुक्तानुक्तद्विरुक्तादिचिन्तया शोधनीयतादर्शने सूत्राद्यक्षराणि यथावदेवावस्थाप्य वार्त्तिकाद्यात्मना पृथङ्निबन्धनेन विद्वदन्तरैरात्मनो विचारान्तरं प्रदर्श्यते, न पुनस्तदनुसारेण सूत्रभाष्यादिगतानि पदवाक्यादीनि अन्यथात्वमापद्यन्ते। एवमेव समयवशेन नवविचारोदयेन, विचारविकासेन, पूर्वोक्तेरपसिद्धान्तभावदर्शनादिना च पश्चात्प्रतिसंस्करणमभिलष्यद्भिर्मूलग्रन्थान् यथावदेवावस्थाप्य तत्र खिलरूपेण पृथक्संयोजनं समालोचनामयं ग्रन्थान्तरं स्वविचारविशेषसहकृतं व्याख्यानादिकं वा विधीयेत, तदा प्राचीनावर्वाचीनविषयाणाममिश्रणेन पृथक्परिच्छेदो, विचारविकासविज्ञानं, पूर्वापरविचारलेखसौष्ठवासौष्ठवविभागश्चेति सर्वमविप्लवं सम्पद्येत॥
किञ्च, प्राचीनभावानुस्यूतेष्वपि ग्रन्थेषु संशयितानां कतिपयानां शब्दविशेषाणां दर्शनमात्रेणापि समस्तस्य ग्रन्थस्यार्वाचीनत्ववादे केषाञ्चिदाधुनिकानां विदुषां दृष्टिः प्रवणीभवति। परं प्राचीनग्रन्थेष्वसंस्कारविशेषेणापि तादृशानां शब्दानामनुप्रवेशस्य सम्भवेन न तावतैव साधनेन ग्रन्थस्यार्वाचीनत्वं कल्पयितुं युज्यते। केचन विवेचका ईदृशान् शब्दविशेषानन्यान् वा कांश्चन तत्र प्रतिभातान् विषयान्तरननुसन्धाय किल स्वाभिप्रेतं ससाधनं विषयं बहिरप्रकाशयैव केवलमस्य ग्रन्थास्यायं कालः स्यादित्येव प्रदर्श्य सांशयिकीं दृशं पुरःसारयन्ति। परं तेषां तथा दृष्टौ कानि साधनान्यनुसंहितानीति न ज्ञायन्ते। एवमव्यक्तैः साधनैर्विमर्शपथः समाच्छाद्यते। तेषां मनसि प्रतिभातानामसाधारणानां साधनानां स्पष्टतयाऽवगम एव याथातथ्यं निर्द्धारयितुमनुमन्तुं च परेषां विचारदृशः प्रवृत्तये सौकर्यं जायेतेति मे प्रतिभाति॥
| ८६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
अस्य ग्रन्थस्य संहितात्वं तन्त्रत्वं च
अस्मिन् ग्रन्थे संहिताकल्पाध्याये ‘संहिताकल्पं व्याख्यास्यामः’ इत्युपक्रम्य—
‘स पृष्टोऽन्येन वैद्येन प्रब्रूयात् संहिताविधिम् । कति स्थानमिदं तन्त्रं कस्मात्तन्त्रमितिस्मृतम् ।
इन्द्रियाणिचिकित्सा च सिद्धिः कल्पाश्च संहिताः । अष्टौ स्थानानि बोध्यानि ततोऽतस्तन्त्रमुच्यते ।
खिलान्यशीतिरध्यायास्तन्त्रं सखिलमुच्यते । पारणं ह्यस्य तन्त्रस्य वेदानां पारणं यथा ।
तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे । जगृहेऽग्रे महातन्त्रं सञ्चिक्षेप पुनः स तत् ।
ततः कलियुगे नष्टं तन्त्रमेतद्यदृच्छया । अनायासं प्रसाद्याथ लब्धं तन्त्रमिदं महत् ।
संस्कृतं तत्पुनस्तन्त्रं वृद्धजीवकनिर्मितम्’ ।
इत्युल्लिख्य ‘समाप्ता चेयं संहिता’ इत्युपसंहारेण संहितात्वेन तन्त्रत्वेन चोभयथाऽस्य व्यवहारो मूले पुष्पिकावाक्येष्वपि दृश्यते । उपक्रमोपसंहारग्रन्थयोरस्मिन् पुस्तके खण्डिततया कथं ग्रन्थावतारणं कथं वोपसंहरणमिति द्वयमपि परोक्षम्, अतस्ततो विज्ञेयो विशेषो निलीनः ॥
परं संहिताशब्दव्यवहारकालस्तन्त्रशब्दव्यवहारकालात् पूर्वतनः । पुरा ह्यार्षे युगे निबद्धा ग्रन्थाः प्रायस्तत्तत्संहितारूपेण, ततः परं पूर्वाचार्यैर्निबद्धा ग्रन्थाः ‘प्रायस्तन्तरूपेण व्यवह्रियन्त । संहिताशब्दो हि, संहननक्रियात्मकं विप्रकीर्णानां तेषां तेषा-मर्षप्रातिभज्ञानबलप्राप्तप्रकाशानामुपदेशादीनां सामूहिकरूपेणैकत्र व्यूहनरूपमर्थं गर्भीकरोति । तन्त्रशब्दश्च प्रकरण-सन्दर्भादिविशेषोपन्यासैः शास्त्ररूपतामापन्नमर्थं दर्शयति । अतः आत्रेयधन्वन्तरिकश्यपादिभिरुपदिष्टा ग्रन्थाः संहितारूपेण, अग्निवेशसुश्रुतवृद्धजीवकादिभिर्मूलसंहितासु प्रकरणोपन्यासपूरणादिभिः सन्दृब्धशास्त्ररूपतासम्पादनेन निबद्धास्तन्तरूपेण निबद्धास्तन्तरूपेण व्यवहृता भवितुमर्हन्ति ॥
‘तन्त्रप्रणेता प्रथममग्निवेशो यतोऽभवत् ।
अथ भेदादयश्चक्रुः ! स्वं स्वं तन्त्रं ......’
इति चरके उपक्रमणिकाग्रन्थेऽग्निवेशादीनां तन्त्रकर्तृत्वेनोल्लेख इममेवार्थमुपोद्वलयति ॥
संहितासु स्वयमेव किं वा तदुपदिष्टं शब्देनार्थेन वा सङ्गृह्य शिष्यादिभिर्निबन्धनस्य प्रायिकः सम्प्रदायः । शिष्यादिभिर्निबन्धनेऽपि तेषामनुवादकमात्ररूपतया मूलाचार्यानाम्नैव संहिताव्यवहारः समीक्ष्यते । तन्त्रकृतो मूलसंहितामन्तर्भाव्य उपक्रमोपसंहारप्रश्न-प्रतिवचनस्वीयविशेषान्तराणि मतान्तराणि चसन्निवेश्य तन्तरूपतां प्रापयन्ति । विशेषान्तराण्यनुप्रवेश्य प्रतिसंस्कर्तारो बृहदाकारं सम्पादयन्ति इति प्रतिसंस्कर्तुर्निबन्धने तन्त्रं, तदभ्यन्तरे संहिताऽन्तर्भवति ॥
यथा हि चरकसुश्रुतसंहितयोरात्रेयधन्वन्तर्युक्तयो गुरुसूत्रतया, अग्निवेशसुश्रुतपूरितोक्तयः शिष्यसूत्रतया, आचार्यान्तरोक्तय एकीयसूत्रतया, चरकदृढबलाद्युक्तयः प्रतिसंस्कर्तृसूत्रतया एकत्रैव ^१ग्रथिता उपलभ्यमानसंहितयोरन्तर्भवति । तथैवात्रापि कश्यपोक्तयो गुरुसूत्ररूपेण, वृद्धजीवकीयोक्तयः शिष्यसूत्ररूपेण, आचार्यान्तरोक्तयः एकीयसूत्ररूपेण, वात्स्योक्तयः प्रतिसंस्कर्तृसूत्ररूपेणैकत्रैव सन्निविष्टाः भवेयुः ॥
तेन यथा आत्रेयेण महर्षिणा प्रथमोपदिष्टां संहितामुपादायाग्निवेशश्चिकित्सातन्त्रं व्यरचयत्, तदेव चरकाचार्यः प्रतिसंस्कृत्य प्रकाशयामासेति आत्रेयसंहितैव अग्निवेशतन्त्ररूपतामापन्नाऽद्यत्वे चरकसंहितारूपेण दृश्यते । यथा वा अष्टप्रस्थानात्मकं धन्वन्तर्युपदेशं गृहीतवता दिवोदासेन प्रस्थानान्तराणामुपदेशस्य विलोपेऽपि शल्यप्रस्थानमेकं प्रधानीकृत्योपदिष्टां संहितामादाय सुश्रुतः स्वीयं तन्त्रं निबबन्ध, तदेव समयान्तरे संस्कृतमित्यद्यत्वे धन्वन्तरिसंहिता विशेषतः शल्यप्रस्थाने सुश्रुतसंहितारूपेण
१. चतुर्विधानि हि सूत्राणि भवन्ति तद्यथा—‘प्रतिसंस्कर्तृसूत्रमेकीयसूत्र शिष्यसूत्रं गुरुसूत्रं च’ इति चक्रदत्तेन निर्दिष्टानि । (चरकव्याख्यायां) सू. अ. १ ।
उपोद्घातः ८७
दृश्यते । तथैव संहिताकल्पाध्यायलेखात् काश्यपसंहित संक्षिप्तरूपान्तरेण वृद्धजीवकीयतन्त्रत्वं समयान्तरे वात्स्यीयप्रतिसंस्करणञ्चोपेता एतद्ग्रन्थात्मनाऽस्माभिरुपलभ्यते । यथा यथोत्तरा कक्षा समुत्पन्ना तथा तथा पूर्वा कक्षा पृथग्वर्तमानाऽपि आवापोद्वापविवर्धनसंस्कारादिनिष्पन्नस्य स्वरूपान्तरस्योदयेन प्रचारेण च विलोपमुपगता, किंवा उत्तरकक्षायामन्तःप्रविष्टा एकशरीरतामुपगता, इति तार्तीयीकीं संस्कारकक्षामुपैत्य परिनिष्पन्ना इमाः संहितास्तन्त्राणि प्रतिसंस्कृततन्त्राणि वाऽस्माकं दृशोर्विषयीभवन्ति । यद्यपि पूर्वापरग्रन्थापर्यालोचने क्वचन प्राचीनप्रौढतरतमलेखशैल्याः क्वचन साधारण्या लेखप्रक्रियाया दर्शनेन मिथः प्राचीनतरतमलेखसंवादनेनापि सूक्ष्मेक्षिकायां क्वचन परिच्छेदालोकः प्रकाशेत, तथाऽपि चरकसंहितायां कियानंश आत्रेयस्य, कियान् वा अग्निवेशस्य, को वा चरकाचार्यस्य लेखः, सुश्रुतसंहितायां च कियानंशो धन्वन्तरेर्मूलसंहितायांः, को वा दिवोदासस्य, कतमो वा सुश्रुतस्य, कश्च प्रतिसंस्कर्तुर्लेखः; अस्यां काश्यपसंहितायामपि कियानशः कश्यपसंहितायाः, को वा वृद्धजीवकस्य, कतमो वा वात्स्यस्य लेखः शब्द आर्थो वा कीदृशोऽत्र वृद्धजीवकस्य संक्षेप इति सर्वांशतो याथातथ्येन परिच्छेत्तुं न शक्यते ।।
कश्यपात्रेय-भेडसुश्रुत-ग्रन्थानां-तुलना विमर्शः
प्राचीनसंहितासु प्रागुपलब्धाश्चरकभेडसुश्रुतसंहिता इमां नवोपलब्धां काश्यपसंहितां च पुरो निधाय स्थानाध्यायप्रकरणादिग्रन्थरचनाया विषयाणां च विचारणे मिथः साम्यं वैषम्यं चैवमीक्ष्यते—
अस्याः काश्यपसंहितायाः प्रकरणान्यध्यायाश्च ग्रन्थकृतैव कल्पस्थानस्यान्तिमाध्याये इत्यमुपवर्णितानि—
‘अष्टौ स्थानानि वाच्यानि ततोऽतस्तन्त्रमुच्यते । अध्यायानां शतं विंशं योऽधीते स तु पारगः ।।
सूत्रस्थाननिदानानि विमानान्यात्मनिश्चयः । इन्द्रियाणि चिकित्सा च सिद्धिः कल्पाश्च संहिताः ।।
सूत्रस्थानं चिकित्सा च त्रिंशदध्यायके उभे । निदानानि विमानानि शारीराण्यष्टकानि तु ।।
सिद्धयो द्वादशाध्यायाः कल्पाश्चैवेन्द्रियाणि च । खिलान्यशीतिरध्यायास्तन्त्रं सखिलमुच्यते’ ।।
ततश्चास्याः संहितायाश्चरकभेडसुश्रुतसंहितानां च स्थानाध्यायसंमेलने इत्थं परिदृश्यते—
| स्थानानि | वृद्धजीवकीये. (अध्यायाः) | चरके | भेडतन्त्रे, | सुश्रुते |
|---|---|---|---|---|
| सूत्रस्थानम् | ३० | ३० | ३० | ४६ |
| निदानस्थानम् | ८ | ८ | ८ | १६ |
| विमानस्थानम् | ८ | ८ | ८ | × |
| शारीरस्थानम् | ८ | ८ | ८ | १० |
| इन्द्रियस्थानम् | १२ | १२ | १२ | × |
| चिकित्सास्थानम् | ३० | ३० | ३० | ४० |
| सिद्धिस्थानम् | १२ | १२ | ९..(१२ ?) | × |
| कल्पस्थानम् | १२ | १२ | ८..(१२ ?) | ८ |
| योगः | १२० | १२० | १२० | १२० |
| खिलभागः | ८० | ६६ |
चतुर्ष्वेषु ग्रन्थेषु खिलवर्जं काश्यपीयचरकभेडसंहितानांत्रयाणां स्थानान्यष्टौ, तेष्वध्याया अपि तावन्तः, अध्यायसमष्टिरपि १२० मितैव¹। केवलं काश्यपीयचरकसंहितयोः सिद्धिकल्पस्थानयोः पौर्वापर्यव्यत्ययः । ग्रन्थावयवविभजने प्राथमिकस्य
¹ १. भेडसंहिताया अध्याया अन्येषु स्थानेषु समानाः, सिद्धिकल्पयोः खण्डितयोरपि चरककाश्यपीयतौल्यानुमानेन १२० समष्ट्यध्याया ज्ञायन्ते ।
७ का.सं.
८८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
द्वैतीयिकेन तार्तीयिकेन च छायाग्रहणं, किं वा एकपूर्वाचार्यसम्प्रदायानसरणं लक्ष्यते । सर्वेषामेषामाचार्याणां तत्र तत्र पश्चिमविभागे वर्तितया सन्निकर्षेण समच्छायाग्रहणमुपपद्यते च । तत्रापि चरकभेडसंहितयोरेकचिकित्साप्रस्थानीयत्वेन, एकस्यैवात्रेयस्योपदेशमादायाग्निवेशभेदादिभिस्तन्त्रस्य प्रणयनोल्लेखेन च विषयाणां बहुशः सन्निकर्षेण नामनिर्देशे विषयनिरूपणे च विशेषतः साम्यमनुभूयते । यथा च चरके निदानस्थाने अष्टौ प्रधानरोगा उपात्तास्तथैव भेडग्रन्थेऽपि । चिकित्सितस्थाने उभयोरपि तानेव पूर्वोद्दिष्टानष्टौ रोगान् प्रथमत उपादाय तदुत्तरं स्वस्वबुद्ध्यापरूढा अन्ये बहवो रोगा अपि चिकित्सायै निर्दिष्टाः । उभयोः सूत्रस्थाने समाननामानस्तुल्यविषया अध्यायाः पूर्वं प्रदर्शिता एव । एवमुत्तरत्रापि बहुशश्छायानुवेधः पर्यालोचनपथमवतरति । केवलं भेडस्य संक्षिप्तमनतिसारगर्भितं साधारणम्, आत्रेयस्य किं वाऽग्निवेशस्य तु प्रथमत एव प्रौढतरलेखशैल्या विषयगाम्भीर्येण पश्चाच्चरकदृढबलाभ्यां संस्कारेणापि विकासितमगाधावबोधमनेकरहस्यपूर्णमसाधारणं निबन्धनं समीक्ष्यते ।।
अस्याः काश्यपसंहितायाः कौमारभृत्यप्रस्थानान्तरीयतया बालविषयानुबन्धेन धात्री गर्भिणीसूतिकाद्यनुसम्बन्धेन च नानाविशेषविषयग्रहरोगभेदभैषज्यप्रक्रियादीनां बहुशो विभेदेऽपि उपलब्धभागे स्नेहाध्यायादयः समाननामानः साधारणा विषया अनतिविसंवादिप्रक्रियया एवमीक्ष्यन्ते—
| काश्यपसंहितायाम्— | आत्रेय(चरक)संहितायाम्— |
|---|---|
| २२ सङ्ख्यः स्नेहाध्यायः | १३ सङ्ख्यः स्नेहाध्यायः |
| २३ सङ्ख्य स्वेदाध्यायः | १४ सङ्ख्य स्वेदाध्यायः |
| २४ सङ्ख्य उपकल्पनीयाध्यायः | १५ सङ्ख्य उपकल्पनीयाध्यायः |
| २५ सङ्ख्य वेदनाध्यायः | १६ सङ्ख्य चिकित्साप्राभृतीयाध्यायः |
| २६ सङ्ख्य चिकित्सासम्पदीयाध्यायः | १७ सङ्ख्य कियन्तःशिरसीयाध्यायः |
| २७ सङ्ख्य रोगाध्यायः | १८ सङ्ख्य त्रिशोथाध्यायः |
| १९ सङ्ख्य अष्टोदरीयरोगाध्यायः | |
| २० सङ्ख्य महारोगाध्यायः | |
| २१ सङ्ख्य अष्टौनिन्दितीयाध्यायः |
आत्रेयसंहितायां काश्यपसंहितायां च क्वचन शब्दानुपूर्व्या क्वचन शब्दरचनायां विभेदेऽपि विषयोपन्यासे क्वचन लेखप्रक्रियायामपि मिथः समानेव च्छाया समीक्ष्यते ।।
(१) काश्यपसंहिताया वृद्धजीवकीये खिलभागे (अ. ३ श्लो. १०६)
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतोपमम् ।।
आत्रेय(चरक)संहितायां सूत्रस्थानप्रथमाध्याये—
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतं यथा ।।
इति समानानुपूर्वकः श्लोक उभयत्र दृश्यते । तदीदृशः श्लोकः पूर्वतनस्यैकस्य पश्चात्तनैनापरेण गृहीतः, किंवा अन्यस्यैव पूर्वाचार्यस्य श्लोकोऽयं पश्चादुभाभ्यां गृहीतोऽपि सम्भवति ।।
(२) काश्यपीयायाम्—
औषधं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम् । विषं च विधिना युक्तं भेषजायोपकल्पयेत् ।।
उपोद्घातः ८९
आत्रेयीयायाम्—
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः । विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते ।।
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम् ।।
(च.सू.अ. १)
एवं काश्यपीयायां खिले ज्वरचिकित्सायाम् (अ. २ श्लो. ४२)
सर्पिः पित्तं शमयति शैत्यात् स्नेहाच्च मारुतम् । समानगुणमप्येतत् संस्काराज्जीयते कफम् ।।
आत्रेयीयायां ज्वरनिदाने १ अध्याये—
स्नेहाद्वातं शमयति शैत्यात् पित्तं नियच्छति । घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम् ।।
(च.नि.अ. १)
काश्यपीयायाम्—
मज्जावसे वसन्ते, प्रावृषि तैलं पिबेच्छरदि सर्पिः । सर्पिर्वा सर्वेषां सर्वस्मिन् शस्यते पातुम् ।।
अनुपानमुष्णमुदकमुक्तं घृतस्य, तैलस्य यूषमिच्छन्ति । मज्जवसयोस्तु मण्डं, सर्वेषां कश्यपः पूर्वम् ।।
आत्रेयीयायाम् (चरकसंहितायाम्)
सर्पिः शरदि पातव्यं वसा मज्जा च माधवे । तैलं प्रावृषि नात्युष्णाशीते स्नेहं पिबेन्नरः ।।
जलमुष्णं घृते पेयं, यूषस्तैले च शस्यते । वसामज्ज्योस्तु मण्डः स्यात् सर्वेषूष्णामथाम्बु वा ।।
(च.सू.अ. १३)
इति स एवार्थ उभयोः केवलं रचनाभेदेन दृश्यते ।।
(३) काश्यपीये रोगाध्याये (पृ. ३९) रोगविषये एकाद्यष्टान्तभेदपक्षा असंख्येयवादश्च, एवमेव आत्रेयीयायामपि सूत्रस्थाने २६ अध्याये रसविषये एकाद्यष्टान्तभेदपक्षा असंख्येयवादश्चेति समाना प्रक्रिया ।।
(४) रोगोद्देशेऽपि काश्यपीये अशीतिर्वातिकाः, चत्वारिंशत्पैत्तिकाः, विंशतिः श्लैष्मिकाः इति (पृ. ४१) ये ये रोगा निर्दिष्टास्त एव तावन्त एव नाम्नाऽपि प्रायः समानाश्चरकीयेऽपि सूत्रस्थाने २० अध्याये उद्दिष्टा इत्येतद्विषयेऽपि बहुशः साम्यमनुसन्धीयते ।।
(५) काश्यपीयायां लक्षणाध्याये (प. ५१) सात्त्विकराजसतामससत्त्वानां यथाऽवान्तरविभागाः, आत्रेयीयायां शारीरे ७ अध्याये केवलं सात्त्विकेष्वेकविभेद न्यूनतया अन्ये समाना एव विभागाः । उभयोर्लेखशैलीपर्यालोचनेऽपि गभिरविचारानुस्यूतो नवनवोन्मेषविशेषसन्दृब्धः प्रौढतरो लेखोऽनुभूयते ।।
सुश्रुतसंहितायास्तु खिलात्पूर्वतने भागे १२० मिताया अध्यायसमष्टिसंख्यायाः साम्येऽपि विमानेन्द्रियसिद्धिवर्जं पञ्चैव स्थानानि, तेष्वध्यायसंख्या अप्यसमाना । गर्भावक्रान्त्यध्यायादौ बालधात्र्यादिसम्बद्धविषयाणामप्यनुस्यूततया कर्णवेधस्तन्यपरीक्षासामुद्रिकलक्षणसत्त्वप्रभेदादीनां केषाञ्चिद्विषयाणां प्रायो वृद्धजीवकीयोक्ततौल्यमस्ति । शल्यप्रधाने सुश्रुतेसत्त्वप्रधानविषयसम्बद्धविषयाः पूर्वभागे शालाक्यादिप्रस्थानान्तरियविषयाः खिलभागे सन्ति । खिलभागाध्यायाश्च ६६ एव । वृद्धजीवकीये तु बालकोपयोगिनः प्रधानविषयान् पूर्वभागे संक्षिप्तप्रक्रियया निर्दिश्य खिलभागेऽपि प्रायस्तादृशा धात्र्यादिसम्बद्धाश्च विशेषविषयाः केचन पूर्वभागोक्ता अपि पुनर्विशेषरूपेण च प्रतिपादिताः, अत्र खिलभागाध्यायाः ८० मिता इति कयाचिद्दृष्ट्या साम्यम्, अन्यया दृष्ट्या भिन्नमार्गप्रस्थायितया विषयाणां विभागानां निरूपणप्रक्रियाया रोगनिर्देशादीनां वैषम्यं च समीक्ष्यते ।।