काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 77, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ६३
तत्र हि "तस्य निमित्तं संयोगोत्पातौ (५-१-३८)" इति सूत्रे तस्य निमित्तप्रकरणे “वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानं कर्तव्यं, सन्निपाताच्चेति वक्तव्यम्” इति वार्त्तिकयोः परवशताया ‘वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकम्' इत्युदाहरणानि दत्तानि। एवम् “उदःस्थास्तम्भोः पूर्वस्य (८-४-६१)” इति सूत्रे “उदःपूर्वत्वे स्कन्दे च्छन्दस्युपसंख्यानं, रोगे” इति वार्त्तिकोदाहरणत्वेनावश्यकवक्तव्यतया ‘उत्कन्दको रोगः' इत्युदाहृतं भाष्यकृता। परं यत्र तथा अन्यथा वोदाहर्तुमुपन्यस्तुं वा स्वातन्त्र्यं ग्रन्थकृतस्तत्र तदुपन्यासस्तदीयामन्तर्वासनामवगमयति। भाष्यकृता “ह्वः संप्रसारणम् (६-१-३२)” इति सूत्रव्याख्याने “अन्तरेणापि निमित्तशब्दं निमित्तार्थोऽवगम्यते” इत्युपन्यस्य “दधित्रपुसं प्रत्यक्षो ज्वरः, ज्वरनिमित्तमिति गम्यते; नड्वलोदकं पादरोगः, पादरोगनिमित्तमिति गम्यते; आयुर्वे घृतम्, आयुर्निमित्तमिति गम्यते” इति निदर्शनानि प्रदत्तानि। 'आयुर्वे घृतम्' इतिवत् दधित्रपुसं प्रत्यक्षो ज्वरः, नड्वलोदकं पादरोग इत्यपि प्राचीनाचार्यवाक्ययोरुद्धरणमवगमयते। तत्र निमित्त-निमित्तिनोरभेदोपचारप्रदर्शकेषु अन्येष्वपि बहुषु निदर्शनेषु सम्भवत्स्वेतदुपादानमस्याचार्यस्य वैद्यकसम्प्रदायवित्वमवबोधयति लोकान्। नैतावताऽय चरकाचार्यत्वमायाति। यदि नामानयोरैक्यं स्यात्तदा व्याकरणग्रन्थे प्रसङ्गोपात्ता ईदृशा विषयाः स्वीये वैद्यक ग्रन्थे असाधारण्येन किमिति नोल्लिख्येरन्। दधित्रपुसस्य ज्वरहेतुभावेन, नड्वलोदकस्य पादरोगहेतुतया उल्लेखश्चरके कथं नोपलभ्यते। न च उत्कन्दको नाम कश्चन रोगो भावप्रकाशादौ लभ्यमानोऽपि चरके लभ्यते। महाभाष्यकृतस्तथा परिचयेन निवासेन प्रेम्णा वा बहुवारमुल्लेखपदं गतं पाटलिपुत्रं चरकसंहितायां किमिति सकृदपि नोपलभ्यते। गर्गादिगणे प्रविष्टान्यग्निवेशपराशरजतूकर्णपदानि वैद्याचार्यस्मारकाण्युपादायोदाहरणदानौचित्येऽपि भाष्यकृता न तदुदाहरणानि दत्तानि। अन्यत्र स्थल^१त्रये अग्निवेश्योल्लेखेऽपि स्वरविषय एवोपादानेन वैद्याचार्यत्वरूपेणाग्निवेशस्यावबोधनं परिचयो वा भाष्यकृता न क्वापि कृतः। चर्कनिर्देशानामन्येषां प्राचीनवैद्याचार्याणामसाधारणं नामापि महाभाष्यकृता न कीर्तितम्॥
ऋतूक्थादिसूत्र (४-२-६०) व्याख्याने उक्थादिगणे प्रविष्टस्याप्यायुर्वेदशब्दस्य ठक्प्रत्ययरूपस्यान्यिदर्शनम्; तत्रैव विद्यालक्षणेत्यादिवार्तिकसम्बन्धिविद्योदाहरणे ‘वायसविधिकः, सार्पविधिकः, आङ्गविद्यः, धर्मविद्यः, त्रैविद्यः' इति निदर्श्यापि स्वयमाचार्यभावेनाधिष्ठिताया आयुर्वेदविद्यायाः ससम्भ्रमं नामानुपादानं; रोगाख्यायां वुल्बहुलम् (३-३-१०८) इति सूत्रव्याख्याने रोगवाचकशब्दोदाहरणादानं; रोगाच्चापनयने (५-४-४९) इति चिकित्सारूपविलक्षणार्थेतसिल्प्रत्ययस्य काशिकादाविव 'प्रवाहिकातः कुरु' इत्यादेरेकस्याप्युदाहरणस्यादानमपि भाष्यकारस्य चरकाचार्यभावे कौतुकं जनयति॥
‘चतुर्थ्यर्थे बहुलं छन्दसि' (२-३-६२) इति सूत्रे षष्ठ्यर्थे चतुर्थी वाच्या, इति वार्तिकोदाहरणत्वेनोदाहृते तैत्तिरीय^२वाक्ये रजस्वलाभिः पालनीया धर्मशास्त्रानुरूपा नियमाः, अन्यथाभावे सन्तत्यनिष्टोत्पत्तिरूपफलानि च सविशेषं महाभाष्येनिरूपितानि। इत्थमेव सुश्रुते शारीरद्वितीयाध्याये (पृ. २९१) सफलनिर्देशं विशदरूपेण प्रायः संवादिना स्वरूपेण निर्दिष्टमस्ति। सम्भावितपतञ्जल्यभेदेन चरकाचार्येण तु शारीरजातिसूत्राध्याये (पृ. ३३७) महाभाष्ये सविशेषमुद्धृता अपि रजस्वलानियमाः सामान्यत एवोक्ताः, फलानि च नोल्लिखितानि, पात्रांशेऽपि विसंवादश्चेत्यप्यवधेयम्॥
भाष्यकारोक्त्या स्त्यैधातोर्घनीभावार्थकात् स्त्रीशब्दः, सूधातोः प्रवृत्त्यर्थकात् पुंस्शब्दो निष्पाद्यते, तेन घनीभावरूपार्थमादाय स्त्रीत्वव्यवहार इत्यायाति। चरकलेखाद्धनीभावमादाय पुरुषत्वं प्रदर्श्यते। प्रसवस्य मातृधर्मत्वेन 'षूङ् प्राणिगर्भविमोचने'
१. आद्यन्तवदेकस्मिन् (१-१-२०) स्वरितात्संहितायामनुदात्तानाम् (१-२-३९) समासस्य (६-१-२२३) सूत्रभाष्येषु। २. तिस्रो रात्रीः या खर्वेण पिबति तस्यै खर्वो जायते, यां मलवद्वाससं सम्भवन्ति यस्ततो जायते सोऽभिशस्तः, यामरण्ये तस्यै स्तेनः, यां पराचीं तस्यै ह्रीतमुख्यन्नगल्भः, या स्नाति तस्या अप्सु मारुकः, याऽभ्यङ्क्ते तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याऽङ्क्ते तस्यै काणः, या दतो धावते तस्यै श्यावदन्, या नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबः, या रज्जुं सृजति तस्या उद्बन्धुकः, या पर्णे न पिबति तस्य उन्मादको जायते, अहल्यायै जारमनायै तन्तुः॥