भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 78, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 78

६४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

इति पाणिनीयधातुपाठाच्च लोके इव स्त्री सूते, माता सूते इति प्रयोगः स्वारसिक एव। भाष्य¹कारोक्तप्रक्रियया तु प्रसवस्य पुरुषधर्मत्वेन निर्देशात् पुमान् सूते इत्येव स्वारसिकः प्रयोगः, माता सूते इति प्रयोगस्तु अर्थान्तरविवक्षया औपचारिक इत्यवबुध्यते, इति चरकस्य भाष्यकारस्य च प्रक्रियाभेदः। एवमुपदर्शितैः साधकैर्बाधकैश्च चरकाचार्यस्य पतञ्जलेश्चाऽभेदसाधनापेक्षया भेदाभ्युपगम एव प्रणीभवति मदीयदृष्टिकोणोन्मेषः ॥

किञ्च, चरकसंहितायां शारीरस्थानप्रथमाध्याये पुरुषवर्णनप्रसङ्गे दृष्टस्य योगविषयस्य पातञ्जलयोगविषयेण सह संवा²दोल्लेखविषयेऽपि विमृश्यमाने एवं प्रतिभाति। शारीरे प्रथमाध्याये पूर्वोद्दिष्टेषु त्रयोविंशतिप्रश्नेषु षड्धातुसमवायात्मके चतुर्विंशतितत्त्वसमवायात्मके वा वेदनायोगनिवर्तनाहे कर्मपुरुषे एकविंशतिप्रश्नान् समाधाय—‘‘क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः’’ इत्युपन्यस्तस्य सर्ववेदनानिवृत्तपुरुषविषयकस्य प्रश्नान्तरस्योत्तरणाय—

‘‘योगे मोक्षे च सर्वासां वेदनानामवर्तनम्। मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः’’ ।।

इति अन्तःकरणविषयदुर्योर्गजनितसुखदुःखराहित्यावस्थोदयस्वरूपस्य योगस्योपादानमस्ति। पुनः पञ्चमाध्याये पूर्वोक्तमेव विषयं विवरीतुमग्निवेशपृष्ठेनात्रेयेण प्रवृत्तिनिवृत्ती विभज्य दर्शयता निवृत्त्यात्मकेऽपवर्गे पूर्वोक्ताः सत्सङ्गब्रह्मचर्यादयः साधनत्वेन गद्यवाक्यैः सविशेषं पुनः प्रतिपादिताः। अनयोः पूर्वापराध्याययोरेक एव विषयो भङ्गीभेदेनात्रेयेणैव निरूपित इति प्रतिसंस्कर्तृचरकत्वेन सम्भावितात् पतञ्जलेः प्राक्तन एवासौ लेखविषय इति भाति ॥

सुश्रुते चिकित्साशास्त्रोपयोगितया तदधिकृतस्य पञ्चमहाभूतशरीरिसमवायात्मकस्य कर्मपुरुषस्य, भेडसंहितायामपि तथाविधस्यैव षड्धातुचेतनाममवाायरूपस्य, अस्यां काश्यपीयायामपि ‘‘शरीरेन्द्रियात्मसत्त्वसमुदयं (रूपं) पुरुषमाचक्षते आत्मानमेके (पृ. ६७)’’ इति शरीरशरीरिसमवायात्मकस्यैव निर्देशनेन एतदनुरूपप्राचीनसिद्धान्तरीत्या आत्रेयेणापि तावदेवनिर्दिश्य स्वीयवैद्यदर्शनपरिपालनस्यौचित्येऽस्मिन् प्रकरणे मोक्षोपयोगिनो योगविषयस्य निदर्शनं पश्चाच्चरकेणैव प्रतिसंस्करणे प्रवेशितं स्यादित्यभ्युपगमेऽपि एतदीया पातञ्जलसूत्रोक्ता च योगप्रक्रिया नैक्यरूप्येण लभ्यते। पातञ्जले ‘‘योगश्चित्तवृत्तिनिरोधः (१.२), ता एव सबीजः समाधिः (१.४५), तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः (१. ५०)’’ इत्यादिसूत्रैः अन्तःकरणस्य बहिर्वृत्तीर्निरुध्य आत्माकारैकवृत्तिस्थापनमन्तत आत्माकारवृत्तेरपि निरोधेन निवातदीपायितत्वव्यवस्थापनमिति सम्प्रज्ञाता-सम्प्रज्ञातकक्षाभेदाभ्यां द्विधा विभिन्नो योगः, तादृशयोगोदये च ऋतम्भरप्रज्ञादीनि फलानि, मोक्षस्वरूपं च ‘‘तदा द्रष्टुः स्वरूपेऽवस्थानम् (१.३), पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपनिष्ठा वा चितिशक्तेः, (४. ३४)’’ इति आत्मनोऽसङ्गकूटस्थचित्स्वरूपमात्रविश्रान्तिश्चरमसिद्धान्तरूपेण वर्ण्यते। चरकसंहितायां तु—

‘‘आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते। सुखदुःखमानरम्भादात्मस्थे मनसि स्थिरे। निवर्तते तदुभयं वशित्वं चोपजायते। सशरीरस्य योगज्ञास्तं योगमृषयो विदुः। ’’ इति

इन्द्रियान्तःकरणादिकं बहिर्विषयेभ्यः परावर्त्य मनसं आत्मनि स्थैर्यापादनं योग इति,

‘‘मोक्षो रजस्तमोऽभावाद्वलवत्कर्मसंक्षयात्। वियोगः कर्मसंयोगैरपुनर्भव उच्यते ॥’’ इति

रजस्तमोगुणनिवर्तने केवलसात्त्विकत्वापादनेन कर्मक्षये शरीरान्तःकरणादिभिः सह आत्मनः स्थायी वियोगो मोक्ष इति चोपवर्ण्यते ॥


१. स्त्रियाम् (४/१/३) सूत्रमहाभाष्ये ॥ २. प्रत्यक्षशारीरभूमिकायां पृ. ८ ॥