भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 80, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 80

६६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

महाभारते “¹अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्” इत्यारभ्योपन्यस्तायां योगविद्यायामप्येवमेव इन्द्रियनिरोधपूर्वकं मनस आत्मनि स्थैर्यपूर्वकं मोक्षयोगः कार्यः, तदुपायतया योगशास्त्राभ्यासः, एकान्तशीलतया संयमः, इन्द्रियजयादयः कार्याः, एवं योगेन यथेष्टं नानाशरीरप्रतिपत्तिः, देवानामति वशीकरणं, निर्भयत्वमक्लेशो निस्पृहत्वमित्यादीनि च जायन्ते इति निरूपितो यः प्राचीनयोगविषयस्तस्य सर्वांशे छायाननुविधानेऽप्येतदीयप्रक्रियायाः सान्निध्यमस्यां चरकीययोगप्रक्रियायां दृश्यत इति प्राचीन एव योगस्य पन्था अनेनोपात्तो न तु पातञ्जल उक्त इति भाति । तेनानयोराचार्ययोरिमौ विभिन्नौ योगप्रक्रियाविशेषौ नाभेदसाधनाय, प्रत्युत भेदसाधनायैव पुरःसरतः ॥

योगसूत्रकृतः पतञ्जलेर्महाभाष्यकृतः पतञ्जलेरप्यैक्यं विभेदो वेत्यत्रापि विदुषां मतभेदोऽस्ति । महाभाष्यकारसमयस्य धातुरसायनविषयोत्यानात् प्राक्तनत्वेन रसायनशास्त्राचार्यः पतञ्जलिरपि विभिन्नः, केवलं नामसाम्यमेषामित्यपि केषा²ञ्चिद्विचारः । तदेषामैक्यमनैक्यं वेति विमर्शान्तरे प्रकृतविच्छेदभियेदानीं विरम्यते ॥

अल्बेरूनीनामको लेखकस्तु अग्निवेशचरकयोरभेदमन्सुसन्धत्ते । 'तत्तु अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते' इति तन्त्रकर्तृतया प्रतिसंस्कर्तृतया चानयोः स्पष्टं विभेदोल्लेखेन प्रतिहन्यते । विभिन्नयोराचार्ययोर्व्यक्तिभेदेऽपि तदीयकृत्योरेकेनैव स्वरूपेण शिष्यमाणतया यशःशेषयोरनयोर्ग्रन्थतात्पर्येण हन्त ! साम्प्रतमैक्यमिव सञ्जातम् ॥

उपलभ्यमानप्रतिसंस्कृतचरकसंहितायामपि प्राचीनसांख्यदर्शनस्यैवातिमात्रयाऽवलम्बनेन, बौद्धमतच्छायाया अप्रवेशेन, संस्कारप्रविष्टतया संभाव्यमानेषु लेखविषयेष्वपि प्राचीनप्रौढरचनादर्शनेन च प्रतिसंस्कर्ता चरकोऽपि नार्वाचीनः प्रतिभाति । किन्तु भिषग्जितीयाध्याये न्यायदर्शनीया न्यायनिग्रहस्थानादयो बहुशः पदार्थाः समीक्ष्यमाणा अस्य विषयस्य प्राचीनतरत्वमभ्युपेतुं प्रतिघट्टयन्ति । श्रौतदार्शनिकग्रन्थेषु गौतमसूत्रात्पूर्वं, बौद्धदार्शनिकग्रन्थेषु नागार्जुनीयोपाय (कौशल्य) हृद³यादिग्रन्थेभ्यः पूर्वं, न्यायच्छलजातिनिग्रहस्थानादीनां विगृह्यसम्भाषायामुपयोगिनां पदार्थानां निरूपणानुपलम्भेन बौद्धानां महायानिकविचारोदये सत्युभयतः सङ्घर्षे पक्षप्रतिपक्षजयपराजयनियमव्यवस्थाया विकासस्यानुसन्धेयतया कतिपयपूर्वसमयाल्लघुमात्रया प्रवृत्त एष विवादविषयो गौतमानागार्जुनादिभिर्ग्रन्थप्रणयनेनोभयतः परिष्कृत्य नियमितोऽवगम्यते । पक्षप्रतिपक्षभावेन विवादो हि पश्चाद्भवैर्दिङ्नाग-धर्मकीर्तिप्रभृतिभिर्बौद्धाचार्यैः प्रमाणसमुच्चयप्रमाणवार्तिकवादन्यायहेतुबिन्द्वादिग्रन्थेषु, न्यायवैशेषिकाचार्यैर्वात्स्यायन-


१. महाभारते आश्वमेधिके अनुगीतापर्वणि १९ अध्याये—
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । युञ्जन्तः सिद्धिमात्मानं यथा पश्यन्ति योगिनः ॥१५॥
तस्योपदेशं वक्ष्यामि यथातत्त्वं निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१६॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥१७॥
तपस्वी सततं युक्तो योगशास्त्रमथाचरेत् । मनीषी मनसा विप्रः पश्यन्नात्मानमात्मनि ॥१८॥
स चेच्छक्नोत्ययं साधुर्युक्तमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१९॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथाऽयमात्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥२०॥
............................................
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । न तस्येशेश्वरः कश्चित् त्रैलोक्यस्यापि यः प्रभुः ॥२४॥
अन्यान्‌न्यांश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न शोचति न हृष्यति ॥२५॥
देवानामति देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥२६॥ इति ॥

२. I. History of Indian Philosophy by Dasagupta Vol I. P. 261.
II. Yoga System of Patanjaly by J. H. Woods.

३. उपायहृदयं नाम बौद्धदार्शनिकाचार्येण नागार्जुनेन प्रणीतो विवादविषयको ग्रन्थः, तस्य मूलग्रन्थस्य लोपेऽपि चीनभाषायामनुवादोपलम्भेन प्रो. तुच्ची महाशयेन संस्कृते प्रत्यनुवादः कृतोऽस्ति ॥