भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 197, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 197

१५६ कथासरित्सागर प्रहारमूर्च्छितं बद्ध्वा श्रीदत्तं भग्नसैनिकम्। निन्युश्चोरा स्वपल्लीं ते स्वीकृत्य सकलं धनम् ॥१८८॥ ते च तं प्रापयामासुश्चण्डिकासद्म भीषणम्। उपहाराय घण्टानां नाधमृत्युरिहाह्वयत् ॥१८९॥ तत्रापश्यच्च तं पत्नी सा पल्लीपतिपुत्रिका। सुन्दरी द्रष्टुमायाता देवीं बालसुतान्विता ॥१९०॥ निषिद्धहत्या मध्यस्थान्दस्यूनानन्दपूर्णया। स श्रीदत्तस्तया साकं सन्मन्दिरमथाविशत् ॥१९१॥ सद्यश्च पल्लीराज्यं तत्प्राप पित्रा यदर्पितम्। प्रागेवानन्यपुत्रेण सुन्दर्या गच्छता दिवम् ॥१९२॥ स च घोरसमाक्रान्तं सपितृव्यपरिच्छदम्। सकलत्रं च लब्धैतौ तं सङ्गं च मृगाङ्ककम् ॥१९३॥ तत्रैव शूरसेनस्य सुतां तां परिणीय च। श्रीदत्तोऽपि महान् राजा नगरे समपद्यत ॥१९४॥ प्रजिघाय स दूतांश्च ततः श्वशुरयोस्तयोः। विम्बकस्तस्य तस्यापि शूरसेनस्य भूपतेः ॥१९५॥ समुपाजग्मतुस्तौ च सेनासमुदयान्वितौ। तं विज्ञाय च सम्बन्धं मुदा दुहितृवत्सलौ ॥१९६॥ तेऽपि स्वव्रणाः स्वस्थास्तद्वियुक्ता वयस्यकाः। बाहुशालिप्रभृतयस्तद्बुद्ध्यैव तमुपाययुः ॥१९७॥ अथ श्वशुरसंयुक्तो गत्वा तं पितृघातिनम्। चक्रे विक्रमशक्तिं स वीरः क्षेमानलाहुतिम् ॥१९८॥ ततश्च साब्धिवसयां धीमत्तः प्राप्य मेदिनीम्। ननन्द विरहोत्तीर्णः स मृगाङ्कवतीसखः ॥१९९॥ इत्थं नरपत दीर्घवियोगव्यसनार्णवम्। तरन्ति च लभन्ते च कल्याणं धीरचेतसः ॥२००॥ इति संश्रुतवाञ्छ्रुत्वा कथां स दयितोत्सुकः। तां निनाय निशां मार्गे सहस्रानीकभूपतिः ॥२०१॥ ततो मनोरथारूढ पुरः प्रहितमानसः। प्रात सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति ॥२०२॥