भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 231, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 231

९९ कथासरित्सागर संस्मृत्य स च तद्वृत्तं समुवाच विभीषणः । यदि ते कौतुकं दृष्टांस्तदिदं शृणु वच्मि ते ॥१३७॥ पुरा प्रतिश्रुतोपार्ता नागानां दासभावतः । निष्क्रष्टुकामो जननीं गरुडः कश्यपात्मजः ॥१३८॥ तन्मूल्यभूतां देवेभ्यः सुधामहर्तुमुद्यतः । बलस्य हेतोर्भक्ष्यार्थी स्वपितुर्निकटं ययौ ॥१३९॥ स चन याचितोऽवादीन्महान्तौ गजकच्छपौ । अब्धौ स्तः पुत्र ! तौ भुङ्क्ष्व गच्छ शापच्युताविति ॥१४०॥ ततः स गरुडो गत्वा नख्यादादाय तावुभौ । महतः कल्पवृक्षस्य शाखायां समुपाविशत् ॥१४१॥ तां च शाखां भरात्सद्यो भग्नां धृष्ट्वा बभार सः । अधःस्थिततपोनिष्ठबालखिल्यानुरोधतः ॥१४२॥ लोकोपमर्दभीतेन ततश्च पितुराज्ञया । आनीय विजने त्यक्ता सा शाखेह गरुत्मता ॥१४३॥ रम्या पृष्ठे कृता सङ्गा तेन काष्ठमयीह भूः । एतद्विभीषणाच्छ्रुत्वा लोहजङ्घस्तुतोष सः ॥१४४॥ ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥१४५॥ भक्त्या च देवस्य हरस्येहपुरारिणः कृते । हस्तेऽस्याम्भोजदामाक्षचक्रान्हेममयान्ददौ ॥१४६॥ तद्गृहीत्वाखिलं तस्मिन्विभीषणसमर्पिते । आरुह्य विहगे लक्षं योजनानां प्रयातति । उत्पत्य व्योममार्गेण लङ्कायास्तीर्णवारिधिः । स लोहजङ्घो मथुरामेकक्षणेनाजगाम ताम् ॥१४८॥ तस्यां शून्ये विहारे च बाह्ये व्योम्नोऽवतीर्य सः । स्थापयामास रत्नौघं स बबन्ध च पक्षिणम् ॥१४९॥ आपणे रत्नमेकं च गत्वा विक्रेतुमांस्ततः । अथ वस्त्राङ्गरागादि क्रीत्वा भोजनं तथा ॥१५०॥ तद्विहारे च तन्नैव भुक्त्वा दत्त्वा च पक्षिणे । वस्त्राङ्गरागपुष्पाद्यैरात्मानं तं समभूषयत् ॥१५१॥