भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 247, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 247

२६ कथासरित्सागर जानुभ्यां पर्यटन्तं च बालं जातु पिपीलिका। कण्ठदेशे ददंशैनं मुक्तचूत्कारकातरम्॥५९॥ तावता तुमुलाक्रन्दमन्तःपुरमजायत। राजापि पुत्र पुत्रेति चक्रन्द प्राकृतो यथा॥६०॥ क्षणात्तस्मिन्समाश्वस्ते बालेऽपास्तपिपीलिके। दुःखकारणं राजा स निनिन्दैकपुत्रताम्॥६१॥ अस्ति कश्चिदुपायो मे येन स्युर्बहवः सुताः। इति सत्परितापेन पप्रच्छ ब्राह्मणांश्च सः॥६२॥ ते च प्रत्यब्रुवन् राजन्नुपायोऽत्र तवास्त्ययम्। हृत्वैतं त्वत्सुतं वह्नौ सन्मांसं हूयतेऽखिलम्॥६३॥ तद्धूमगन्धाघ्राणतो राज्ञ सर्वा प्राप्स्यन्ति तं सुतान्। एतच्छ्रुत्वा स राजा तत्तथा सर्वमकारयत्॥६४॥ स्वपत्नी समसंख्यांश्च स पुत्रान् प्राप्तवान्नृपः। अतस्त्वपि होमेन साधयामो वय सुतम्॥६५॥ इत्युक्त्वा धनदत्तं च ब्राह्मणाः कल्पितदक्षिणम्। होमं चक्रुस्ततस्तस्य वणिजो जातवान्सुतः॥६६॥ गुहसेनाभिधानश्च स बालो ववृधे क्रमात्। पितास्य धनदत्तोऽन्य भार्यामिन्विष्यति स्म सः॥६७॥ तत स सत्पिता तेन तनयेन समं ययौ। द्वीपान्तरं स्नुषाहेतोर्वणिज्याव्यपदेशतः॥६८॥ तत्र देवस्मितां नाम धर्मगुप्ताद्वणिग्वरात्। स्वपुत्रगुहसेनस्य कृते कन्यामयाचत॥६९॥ धर्मगुप्तस्तु सम्बन्धं न तमङ्गीचकार सः। आलोच्य ताम्रलिप्तीं तां दूरां दुहितृवत्सलः॥७०॥ सा तु देवस्मिता दृष्ट्वा गुहसेनं दधेथ तम्। तद्गुणाकृष्टचित्तत्वाद् वन्यत्यागेकनिश्चया॥७१॥ अङ्गीमूल्यं कृत्वा च सङ्केतं सह तेन सा। प्रियण पितृयुक्तेन रात्रौ द्वीपात्ततो ययौ॥७२॥ ताम्रलिप्तीमथ प्राप्य तयोः कृतविवाहयोः। जायापत्योमिषः प्रेमपाशबद्धमभून्मनः॥७३॥