भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 251, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 251

२१० कथासरित्सागर प्रीतिपूर्वं च तामूचुर्भगवत्यस्मदीप्सितम्। साध्यते यत्त्वया तत्ते दास्यामोऽर्थान् बहूनिति॥८९॥ साप्युवाच ध्रुवं यूनां कापि स्त्री वाञ्छितेह य। तद्ब्रूत साधयाम्येष धनलिप्सा च नास्ति मे॥९०॥ अस्ति सिद्धिकरी नाम शिष्या मे बुद्धिशालिनी। तत्प्रसादेन सम्प्राप्तमसख्यं हि धन मया॥९१॥ सिद्धि कथा कथ शिष्याप्रसादेन भूरि प्राप्तं धनं त्वया। इति तैः सा वणिक्पुत्रैः पृष्टा प्रव्राजिकाब्रवीत् ॥९२॥ कौतुकं यदि तत्पुत्राः श्रूयतां वर्णयामि वः। इह कोऽपि वणिक्पूर्वमाययावुत्तरापथात् ॥९३॥ तस्यह्रस्वस्य मञ्जिष्ठय्या सा गत्वा शिक्षिय गृहे। युक्त्या कर्मकरीभावं कृतरूपविवर्तना ॥९४॥ विश्वास्य वणिजं तं च तद्गृहात् स्वजसञ्चयम्। सर्वं मुषित्वा प्रच्छन्नं प्रत्यूषे साच निर्ययौ ॥९५॥ नगरीनिर्गतां दृष्ट्वा खट्वापीठप्रगतिं च ताम्। मृदङ्गहस्तो मायाय डोम्बः कोऽप्यन्वगाद्द्रुतम् ॥९६॥ न्यग्रोधस्य तलं प्राप्य सा दृष्ट्वा समुपागतम्। डोम्बं सिद्धिकरी धूर्ता सदैवमेवमब्रवीत् ॥९७॥ भर्त्रा सहाद्य कलहं कृत्वाहं निर्गता गृहात्। मर्त्तुं तन्मम पाशोऽत्र त्वया मे बध्यतामिति ॥९८॥ पाशेन म्रियतामेषा किमेनां हन्म्यहं स्त्रियम्। मत्वेति तत्र वृक्षोऽसौ डोम्बः पाशमसज्जयत् ॥९९॥ ततः सिद्धिकरी डोम्बं सा मुग्धेव जगाद तम्। क्रियते कथमूद्वन्धरस्त्वया मे दर्श्यतामिति ॥१००॥ ततः स डोम्बस्तं दत्त्वा मृदङ्गं पादयोरधः। इत्थं क्रियत इत्युक्त्वा स्वकण्ठे पाशमर्पयत् ॥१ १॥ सापि सिद्धिकरी सद्यस्तं मृदङ्गमचूर्णयत्। पादाघातेन डोम्बोऽथ सोऽपि पाशं व्यपद्यत ॥१ २॥ तत्कालेमागतोऽन्वष्टुं वृक्षमूले ददर्श सः। मुषिताशेषकोशों तां दूररसिद्धिकरीं वणिक् ॥१ ३॥