भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 609, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 609

५५८ कथासरित्सागर

ततः सत्यव्रतोऽवादीदसौ दवो वटद्रुमः। अस्याधः सुमहावर्त्तमधस्ताद् वडवामुखम् ॥११०॥ एतच्च परिवर्त्यैव प्रदेशमिह गम्यते । अत्रावर्त्ते गतानां हि न भवत्यागमः पुनः ॥१११॥ इति सत्यव्रते तस्मिन् वदत्यवाम्बुवेगतः । तस्यामेव प्रवृत्ते गन्तुं तद्वहनं दिशि ॥११२॥ तद्दृष्ट्वा शक्तिधव स पुनः सत्यव्रतोऽब्रवीत् । ब्रह्मन् ! विनाशकालोऽय ध्रुवमस्माकमागतः ॥११३॥ यदकस्मात् प्रवहणं पश्यात्रैव प्रमाथ्यते । शक्यत नैव रोद्धुं च कथमप्यधुना मया ॥११४॥ तदावर्त्ते गभीरेऽद्य वयं मृत्योरिवानने। क्षिप्ता एवाम्बुनाकृष्य कर्मणेव' बलीयसा ॥११५॥ एतच्च नैव मे दुःखं शरीरं कस्य हि स्थिरम्। दुःखं तु यन्न सिद्धस्ते कृच्छ्रेणापि मनोरथः ॥११६॥ एतावद् वारयाम्येतदहं प्रवहणं मनाक। तावदस्यावलम्बस्वा- शाखां वटवरोद्गताम् ॥११७॥ कदाचिज्जीवितोपायो भवेद् भव्याकृतेस्तव । विधेर्विलासगम्भीरेष्व तरङ्गानको हि तर्कयेत् ॥११८॥ इति सत्यव्रतस्यास्य धीरसत्त्वस्य जल्पतः । बभूव निकटे तस्म तरोः प्रवहणं क्षणात् ॥११९॥ तत्क्षणं स कृतोत्फालः शक्तिदेवो विसाध्वसः । पृथुलामग्रहीच्छाखां तस्याम्बिटशालिनः ॥१२०॥ सत्यव्रतस्तु महता वेगेन वहनेन च। परावर्त्तस्खलितनात्र विवेश वडवामुखम् ॥१२१॥ शक्तिदेवश्च शाखाभि पूरिताक्षस्य तस्य सः। आधिरूयापि तरो शाखां निराशः समचिन्तयत् ॥१२२॥ न सावस्था च कनकपुरी दृष्टा मया पुरी। अपथे मग्नता तावद्दाक्षेन्द्रेणोऽप्येष माश्रितः ॥१२३॥ यदि वा सततन्यस्तपदा सर्वस्य मूर्धनि। कामं भगवती केन भज्यत भवितव्यता ॥१२४॥


१ आप्येनेत्यर्थः ।