कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 697, कुल 876 में से
संदर्भ में पढ़ें१४२ कथासरित्सागर इत्थ कृतार्थतां देव ! सुषेणः प्राप कन्यया। कन्या युष्मादृशां गेहेष्वीदृश्याऽवतरन्ति हि ॥९४॥ तदषा कापि दिव्या ते जाता शापच्युता गृहे। कन्या नूनमतो मा गाः शुचं तज्जन्मना विभो ॥९५॥ इति श्रुत्वा कथां राजा गृहवृद्धाद्विजन्मनः। कलिङ्गदत्तं नृपतिर्जहौ चिन्तां सुतोष च ॥९६॥ तां स चक्रे निजसुता नयनानन्ददायिनीम्। नाम्ना कलिङ्गसेनेति बालामिन्दुकलोपमाम् ॥९७॥ सापि तस्य पितुर्गेहे राजपुत्री शनैः क्रमात्। कलिङ्गसेना ववृधे वयस्यामध्यवर्तिनी ॥९८॥ विजहार च हर्म्येषु सा गृहेषु वनेषु च। क्रीडारसमयस्येव लहरी शैशवाम्बुधेः ॥९९॥ कलिङ्गसेना सखित्वे सोमप्रभाया आगमनम् कदाचिदथ हर्म्यस्थां केलिसक्तां ददर्श ताम्। मयासुरसुता यान्ती व्योम्ना सोमप्रभाभिधा ॥१००॥ सा तामालोक्य रूपेण मुनिमानसमोहिनीम्। सोमप्रभा नभःस्थैव जातप्रीतिरचिन्तयत् ॥१०१॥ सेयं किमेन्दवी मूर्तिः कान्तिस्तस्या दिवा कुतः। रतिर्वा यदि कामः क्व कन्यका तदवैम्यहम् ॥१०२॥ अत्र राजगृहे कापि दिव्या शापच्युता भवेत्। जाने जन्मान्तरे चाभून्नूनं सख्यं ममैतया ॥१०३॥ एतद्धि मे यदस्यामस्तिस्नेहाह्वयं मनः। तद्युक्तं कत्तुमेतां मे स्वयवरसगीं पुनः ॥१०४॥ इति सञ्चिन्त्य याणायास्तस्या नेत्राभनन्दूया। सोमप्रभा सा गगनादङ्गणितमवातरत् ॥१०५॥ मनुष्यकन्यकाभावमाश्रित्येवाप्तकारणम् । सास्या कलिङ्गसेनायाः शनैरुपससर्प च ॥१०६॥ दृष्ट्वा राजसुता सापि स्वयमप्यद्भूताकृतिः। अमी गतागता पार्श्वमचितयं शशी मम ॥१ ०७॥ इति सहर्शनानेव विविस्मयोत्थाय चादरात्। वलिङ्गमवाप्यामिन्द्रसा तां सोमप्रभां तदा ॥१०८॥