कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 803, कुल 876 में से
संदर्भ में पढ़ें७४४ कथासरित्सागर संरम्भतः साम्प्रतमात्मना त्व मात्मानमेकं जगदेकरत्नम् ! वत्सेश्वरेकार्पितमन्तरङ्गे । वरं त्वदार्यं हि निजं प्रकर्य ॥१९२॥ अहं हि नेष्यामि सखि! त्वदन्तिक स्थिताधुना स्वं पतिमन्दिरे यत् । सखीगृहे संप्र न यान्ति सत्स्त्रियः सुगात्रि भर्त्राद्य निवारितास्मि च ॥१९३॥ न चाप्यगुप्तमिहागमं क्षमो मे त्वदतिस्नेहवशात्स दिव्यदृष्टिः । तद्वैत्ति हि मत्पतिः कथम्चित्तमनुज्ञाप्य किलागताहमद्य ॥१९४॥ इह नास्त्यधुना हि मामकीनं सखि कार्यं तव यामि तद्गृहम् । यदि मामनुमन्यते च भर्त्ता तदिहैष्यामि पुनर्बिलङ्घ्य लज्जाम् ॥१९५॥ इत्थं सबाष्पमभिधाय कलिङ्गसेनां तामश्रुधौतवदनां मनुजेन्द्रपुत्रीम् । आश्वास्य चाङ्गि विगलत्सुरेन्द्रपुत्री सोमप्रभा स्वभवनं नभसा जगाम ॥१९६॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके षष्ठस्तरङ्गः
सप्तमस्तरङ्गः वत्सराजस्य कलिङ्गसेनायाश्च कथा (पूर्वानुवृत्ता) गतां सोमप्रभां यातां स्मरन्ती तां सखीं प्रियाम् । कलिङ्गसेना सन्त्यक्तनिजदेशस्वबान्धवा ॥१॥ सा विलम्बितवत्सेशपाणिग्रहमहोत्सवा । नरेन्द्रकन्या कौशाम्ब्यां मृगीवासीद् वनच्युता ॥२॥ कलिङ्गसेना वीवाहविलम्बनविषण्णधीः । गणकान् प्रति सासूय इव वत्सेश्वरोऽपि च ॥३॥