कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 809, कुल 876 में से
संदर्भ में पढ़ें७५ कथासरित्सागर ततः स तस्मै चुक्रोध परिव्राड्विधुरो ब्रुवन्। सोऽपि गीतं विमुच्याथ कार्पटिकस्तमभाषत ॥३३॥ अहो प्रव्राजकोऽसि त्वं धर्मस्वार्थं न वेत्स्यसि। मूर्खेणापि मया ज्ञातं सारं धर्मस्य यत्पुनः ॥३४॥ तच्छ्रुत्वा किं त्वया ज्ञातमिति तेन च कौतुकात्। प्रव्राजकेन पृष्टः सन्कार्पटिकः स जगाद तम् ॥३५॥ इहोपविश प्रच्छाये शृणु यावद् वदामि ते। अस्मिन्प्रदेशे विद्यन्ते ब्राह्मणा भ्रातरस्त्रयः ॥३६॥ ब्रह्मदत्तः सोमदत्तो विष्णुदत्तश्च पुण्यकृत्। येषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ॥३७॥ स तयोर्ज्येष्ठयोराज्ञां कुर्वन् कर्मकरो यथा। मया सहासीदुच्छिन्नग्रहः तेषां हि कार्पिकः ॥३८॥ तौ च ज्येष्ठौ व्यबुध्येतां मृदु सं धृतिवर्जितम्। साधुमप्यत्यन्तसं मार्गमृजुमायासवज्जितम् ॥३९॥ एकदा भ्रातृजायाभ्यां सकामाभ्यां रहोऽथितः। कनिष्ठो विश्वदत्तोऽथ मातृत्वत्ते निराकरोत् ॥४० ॥ ततस्ते निजयोर्भर्त्रोरग्रे गत्वा मृषोचतुः। वाञ्छत्यावां रहस्येष कनीयान्युवयोरिति ॥४१॥ तेनं त प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः। सदसद् वा न विद्मस्तु कुस्त्रीवचनमोहितौ ॥४२॥ अथतौ भ्रातरौ जातु विश्वदत्तं तमूचतुः। गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं त समीकुरु ॥४३॥ तथेत्यागत्य वल्मीक कुद्दालेनाखनत् स तम्। मा मैवं कृष्णसर्पोऽत्र वसतीत्युदितो मया ॥४४॥ तच्छ्रुत्वापि स वल्मीकमखनद्दृढभवत्त्विति। पापैषिणोरप्यादेशं ज्येष्ठभ्रात्रोरलङ्घयन् ॥४५॥ खन्यमानात्तत प्राप कलश हेमपूरितम्। न कृष्णसर्पं धर्मो हि सान्निध्यं कुरुते सताम् ॥४६॥ तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत्। निवार्यमाणोऽपि मया ज्येष्ठाभ्यां दृढभक्तितः ॥४७॥