भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 821, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 821

७६२ कथासरित्सागर मार्जाराद्दूरगं हन्यादुलूको नकुलश्च माम्। तच्छत्रुसङ्कटगतः क्व गच्छामि करोमि किम् ॥११९॥ हन्त ! मार्जारमेवेह श्रयाम्यापद्गतो ह्ययम्। आत्मत्राणाय मां रक्षोत्पाशच्छेदोपयोगिनम् ॥१२०॥ इत्यालोच्य शनैर्गत्वा मार्जारं मूषकोऽब्रवीत्। बदे त्वम्ववितुर्श मे तत्ते पाशं छिनद्म्यहम् ॥१२१॥ ऋजूनां जायते स्नेहः सहवासाद्विपुष्वपि। किं तु मे नास्ति विश्वासस्तव चित्तमजानतः ॥१२२॥ तच्छ्रुत्वोवाच मार्जारो भद्र विश्वस्यतां मया। अद्य प्रभृति मे मित्रं भवान् प्राणप्रदायकः ॥१२३॥ इति श्रुत्वैव मार्जारातस्योत्सङ्गे स शिश्रिये। तद्दृष्ट्वा नकुलोलूकौ निराशौ ययतुस्ततः ॥१२४॥ ततो जगाद मार्जारो मूषकं पाशपीडितः। गतप्राया निशा मित्र ! तत्पाशाच्छिन्धि मे द्रुतम् ॥१२५॥ मूषकोऽपि शनैश्छिन्दल्लुब्धकागमनोन्मुखः। मुधा कटकटायद्भिर्दशनैरकरोद्चिरम् ॥१२६॥ क्षणान्नात्रौ प्रभातायां लुब्धके निकटमागते। मार्जारैर्दूर्यमाने द्राक्पाशांश्छिच्छेद मूषकः ॥१२७॥ छिन्नपाशोऽथ मार्जारे रभ्यस्त्रासविद्रुते। मूषको मृत्युमुक्तः सम्प्लाव्य प्राविशद् बिलम् ॥१२८॥ नावसत् पुनराहूतो मार्जारेण जगाद च। कालयुक्त्या ह्यरिर्मित्रं जायते न च सर्वदा ॥१२९॥ एवं बहुभ्यः शत्रुभ्यः प्रज्ञयात्माभिरक्षितः। मूषकेन तिरश्चापि किं पुनर्मानुषेषु यत् ॥१३०॥ एतदुक्तस्तदा राजा मया यत्तन्मया श्रुतम्। धृत्या कार्यं निजं रक्षेद्वेबीसरक्षणादिति ॥१३१॥ बुद्धिनां च सर्वत्र मुख्यं मित्रं न पीड्यम्। योगेश्वर तथा चैतामत्रापि त्वं कथां शृणु ॥१३२॥ १ इयं कथा महाभारतस्य शान्त्य पर्वणि पञ्च तन्त्र चोपलभ्यते।