भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 85, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 85

५० कथासरित्सागर प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम्। योगनन्दो मया तत्र हेमकोटिं स याचितः ॥१०३॥ ततः स शकटालस्य सत्यमन्त्रस्य मन्त्रिणम्। सुवर्णकोटिमेतस्मै दापयेति समादिशत् ॥१०४॥ मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमधिनः। स तत्त्वं ज्ञात्वा मन्त्री किमज्ञेयं हि धीमताम् ॥१०५॥ देव ! दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत्। नन्दस्य तनयो बालो राज्यं च बहुशत्रुमत् ॥१०६॥ तत्सम्प्रत्यत्र रक्षामि तस्य देहमपीदृशम्। निश्चित्यैतत्स तत्काल शवान्सर्वानदाहयत् ॥१०७॥ चारैरन्विष्य तन्मध्ये रुद्ध्वा देवगृहान्तरे। व्याडिं विधूय तद्देहमिन्द्रदत्तकलेवरम् ॥१०८॥ अत्रान्तरे च राजानं हेमकोटिसमर्पण। त्वरमाणमथाह स्म शकटाली विचारयन् ॥१०९॥ उत्सवाक्षिप्तचित्तोऽयं सर्वं परिजनः स्थितः। क्षण प्रतीक्षतामय विप्रो यावद्ददाम्यहम् ॥११०॥ अथैत्य योगनन्दस्य व्याडिनाक्रन्दित पुरः। भवद्भाष्यमनुत्क्रान्तजीवो योगस्थितो द्विजः ॥१११॥ अनादृत्यैव इत्यद्य वलाद्दग्धस्त्ववोदधे। तच्छ्रुत्वा योगनन्दस्य काप्यवस्थाभवत्तथा ॥११२॥ गेहे बाह्यास्थिरे तस्मिञ्ज्ञाते निर्गत्य मे वशे। सुवर्णकोटिं स तत शकटाली महामतिः ॥११३॥ योगनन्दोऽथ विजने सशोको व्याडिमब्रवीत्। शूद्रीभूतोऽस्मि विप्रोऽपि कि धिया स्थिरमपि मे ॥११४॥ तच्छ्रुत्वाश्वास्य तं व्याडि कालोचितमभाषत। ज्ञातोऽसि शकटालेन तद्वैतं चिन्त्यमाधुना ॥११५॥ महामन्त्री ह्ययं स्वऋद्धमचिरात्त्वां विनाशयेत्। पूर्वनन्दसुतं कुर्याच्चन्द्रगुप्त हि भूमिपम् ॥११६॥ तस्माद् वररुचि मन्त्रिमुरुयत्व कुरु यत्नं ते। एतद्बुद्ध्या भवद्राज्य स्थिर दिव्याश्रुभाषया ॥११७॥