भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 155, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 155

१३२ कथासरित्सागर सर्वाः प्रकृतयोऽप्यत्र तस्य शृङ्गभुजस्य तम्। गुणातिशयमालोक्य दधुस्तद्बहुरागिताम् ॥२३९॥ ततोऽन्यदुर्गुणज्येष्ठ तज्ज्येष्ठेष्वपि सत्सु सः। पिता वीरभुजो राजा यौवराज्येऽभिषिक्तवान् ॥२४०॥ स च प्राप्ताभिषेकः सन् दिग्विजयाय ययौ ततः। विज्ञाप्य पितरं सर्वबलैः शृङ्गभुजः सह ॥२४१॥ बाहुवीर्यजिताशेषवसुधाधिपमण्डलम् । आदाय जायतौ दिक्षु प्रविकीर्य यशःश्रियम् ॥२४२॥ ततो वहन् राज्यभारं प्रणतैर्भ्रातृभिः सह। निश्चिन्तभोगसुखितौ रञ्जयन् पितरौ कृती ॥२४३॥ दानं ददद् ब्राह्मणेभ्यस्तस्थौ शृङ्गभुजः सुखी। रूपवत्यार्थसिद्धयेश स रूपशिखया सह ॥२४४॥ इत्यनया पतिं साध्व्यः सर्वकारमुपासते। एते गुणवरारूपशिखे श्वश्रूसूनू यथा ॥२४५॥ इति नरवाहनदत्तो हरिशिखमुखात् कथामिमां श्रुत्वा। रत्नप्रभासमेतः साध्विति जल्पंस्तुतोष परम् ॥२४६॥ उत्थाय चाह्निकमथाशु विधाय गत्वा वत्सेश्वरस्य निकटं स पितुः सभायाम्। भुक्त्वापराह्णमतिवाह्य च गीतवाद्यैः स्वान्तःपुरे सदयितो रजनीं निनाय ॥२४७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके पञ्चमस्तरङ्गः।

षष्ठस्तरङ्गः मघवद्गवियोगदुःखयोः परस्परं वाग्विलासः ततः प्रातः पुनर् रत्नप्रभासद्मनि तं स्थितम्। नरवाहनदत्तं ते गोमुखाद्या उपागमन् ॥१॥