कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 323, कुल 1079 में से
संदर्भ में पढ़ें[Page Header] २१२ कथासरित्सागर
[Main Text] उपविश्य स चोवाच, 'तन्वि यद्यपि मे कृता। त्वयावज्ञा सदस्यथा प्रेक्ष्यान्ते वर्धमानया ॥२५३॥ तथापि तावल्लोलाक्षि दृष्टमात्रेण मे त्वया। सौन्दर्येणेव नूनेन लोचने सफलीकृते ॥२५४॥ इति सूर्यप्रभेणोक्ता सा प्रह्लादसुताऽब्रवीत्। 'नार्यपुत्रापराधोऽस्तो मम सोऽत्रापराध्यति ॥२५५॥ यनाहं संसदि कृता भग्नाभिनमसञ्चिता'। एतच्छ्रुत्वा जितोऽस्मीति' हृष्टम् सूर्यप्रभोऽब्रवीत् ॥२५६॥ जग्राह च करेणास्याः करं राजसुतोऽथ सः। बलात्कारग्रहाद् भीतमिव सस्वेदवेपथुम् ॥२५७॥ मुञ्चार्यपुत्र कत्याह पितृवश्येति भाविनम्। ततो सुरेन्द्रतनयो प्रज्ञाड्यस्तामुवाच सः ॥२५८॥ कन्यानां किं न गान्धर्वो विवाहो देवि विद्यते। न च प्रदास्यत्यन्यस्मै पिता त्वां रूक्षिताशयः ॥२५९॥ एतस्य चात्र सम्मानं निश्चितं स करिष्यति। तदलं साध्वसेनेन्दुमुखा मा भूत् समागमः ॥२६०॥ एवं महल्लिकां यावत् प्रज्ञाढ्यस्तां ब्रवीति सः। तावत्सभाम्यन्तर तत्र प्रबुद्धामूत् कलावती ॥२६१॥ अपश्यन्ती च तं सूर्यप्रभं सा शयनीयके। प्रतीक्ष्य किञ्चिदुद्विग्नशङ्किता निरगाद् बहिः ॥२६२॥ दृष्ट्वा महल्लिकोपेतं तं चात्र निजवल्लभम्। सरोषा च सलज्जा च सभया च बभूव सा ॥२६३॥ महल्लिकाऽपि दृष्ट्वैव तामासीद् भीतसज्जिता। सूर्यप्रभश्च निस्पन्दस्तस्थावाक्षिप्तितो यथा ॥२६४॥ दृष्ट्वा वाथ पलायञ्चे जिह्रेमीर्ष्यामि वा यदि। इति सपादमेवागात् कलावत्यपि सा ततः ॥२६५॥ कुशलं शशि शुभं त्वमागतैर्बमितो निशि। एवं महल्लिकां सां च साभ्यसूयमुवाच सा ॥२६६॥ हता महल्लिकायाचमर्थतद्गृहमेव तु। त्वमग्यास्ताङ्गूढात् प्राप्ता प्रापुणिकाय मे ॥२६७॥