भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 53, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 53

३४ कथासरित्सागर यद्यद्वस्तूपयुक्तं च तस्यास्तत्तदविलम्बयन् । व्योम्नैव प्रापयामास तत्र तेन गजेन स ॥६५॥ स्वयं तदनुरक्तश्च तत्रैवासीत्सदा निशि । आययौ राजकार्यार्थं रत्नकूटे दिवा पुनः ॥६६॥ एकदा स तया साकं प्रत्यूषे राजसत्तमः । राजा प्रतिघ्नन्सुस्वप्नं सिषेवे पानमङ्गलम् ॥६७॥ तेन मत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ । रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ॥६८॥ तत्र तस्थौ सशङ्कन कुर्वन्कार्याणि चेतसा । क्षीबा किमकरोन्मुक्ता सा मयेतीव त्रसता ॥६९॥ तावच्च राजवत्ता सा स्थाने तत्रातिदुर्गमे । महानसादिब्यप्रासु वासीष्वेकाकिनी स्थिता ॥७०॥ द्वारे निधिमिवान्यं तत्तद्रक्षाविजिगीषया । आगतं पुरुषं कञ्चिदृष्ट्वाश्चर्यदायकम् ॥७१॥ कस्त्वं कथमिदं स्थानमगम्यं चागतो भवान् । इति च भ्रान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ॥७२॥ ततः स दृष्टबहुलक्लेशस्तां पुंस्कोऽब्रवीत् । मुग्धे पवनसेनाख्यो वणिक्पुत्रोऽस्मि माथुरः ॥७३॥ हृतस्वो गोत्रजैः सोऽह्रमनाथः प्रमयात्पितुः । गत्वा विदेशे कृपणां परसेवामशिश्रियम् ॥७४॥ ततः कृच्छ्रेण सम्प्राप्य धनलेशं वणिग्मया । गच्छन्देशान्तरं मार्गे मुषितोऽस्म्येत्य तस्करैः ॥७५॥ ततो भिक्षां भ्रमंस्तुल्यैः सहायैर्गतवानहम् । रत्नानामाकरस्थानं कनकक्षेत्रसञ्ज्ञकम् ॥७६॥ तत्राङ्गीकृत्य भूपस्य भागं संवत्सरावधि । खातं ननक्षिति रत्नं नैकमप्यस्मि लब्धवान् ॥७७॥ मन्दत्सु लब्धरत्नेषु मन्विधेष््वपरेषु च । गत्वाम्भोतीरे दुःखात्तं काष्ठान्यहमुपाहरम् ॥७८॥ अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः । धीवदताभिधस्तावत्कोऽप्यत्र वणिगाययौ ॥७९॥