भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 853, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 853

७४ कथासरित्सागर स कश्चिद्भ्रिष्टतिलान् भृष्ट्वा भुक्त्वा स्वादूनवेत्य तान्। भृष्टानवापयद् भूरींस्तादृशोत्पत्तिवाञ्छया ॥८॥ जलेऽग्निक्षेपककथा भृष्टेषु तदजातेषु नष्टार्थं तं जनोऽहसत् । तिलवापिक उक्तोऽसौ जलऽग्निक्षेपकं शृणु ॥९॥ मन्दबुद्धिरभूत्कश्चित् पुमान्निशि स चैकदा। प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ॥१०॥ उपयुक्तौ मम स्नानधूपार्थ्य जलानलौ। स्थापयामि तदेकत्र्यौ तौ शीघ्रं प्राप्नुयां यथा ॥११॥ इत्यालोच्याम्बुकुम्भान्त क्षिप्त्वाग्नि संविवेश स । प्रातश्च वीक्षते यावद् गतोऽग्निर्नष्टमम्बु च ॥१२॥ अङ्गारमलिने तोये दृष्टे तस्याभवन्मुखम्। सावगण्डं सहास्यस्य लोकस्यासीत् पुन स्मितम् ॥१३॥ नासिकारोपणकथा श्रुतस्त्वयाग्निकुम्भाख्यो नासिकारोपणं शृणु। बभूव कश्चित्पुरुषो मूर्खो मूढमतिः क्वचित् ॥१४॥ स भार्यां चिपिटघ्राणां गुरुं चोत्तुङ्गनासिकम्। दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्वाप्रहीद् गुरोः ॥१५॥ गत्वा च नासिकां छित्वा भार्यायास्तामरोपयत् । गुरुर्नासा मुखे तस्या न च तत्राऽरुरोह सा ॥१६॥ एवं भार्यागुरू तेन च्छिन्ननासौ कृतावुभौ। मूर्खपशुपालस्य कथा अधुना वनवासी च पशुपालो निशम्यताम् ॥१७॥ पशुपालो महामुग्ध कोऽप्यासीद्गहनारन्ये । तस्य धूर्ता समाश्रित्य मित्रत्वे बहवोऽमिलन् ॥१८॥ ते च जगदुराढ्यस्य सुता नगरवासिनः । त्वत्कृते याचितास्माभि सा च पित्रा प्रतिश्रुता ॥१९॥