कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 48, कुल 114 में से
संदर्भ में पढ़ें४२ कात्यायनश्रौतसूत्रम् । तस्मात्सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः । आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥” इति । तथा च स्मृतौ पशुसोमादिना शक्याकरणसम्भवे प्रत्याम्नाय उपदिश्यते । “ क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे । इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ॥” क्लृप्तानामारब्धानां पशुसोमानामनुष्ठानासम्भवे तस्मिन् निष्कृत्य त- त्प्रत्याम्नायत्वेनाब्दपर्यये वर्षस्यान्ते वैश्वानरीमिष्टिं निर्वपेदवश्यं निर्वपेदित्यन्वयः। तथा याज्ञवल्क्योऽपि “ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि । एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥” इति । स्वस्वकाले तत्प्रत्याम्नायरूपां वैश्वानरीमिष्टिं कुर्यादित्यर्थः ॥१२॥ चातुर्मास्येषु चर्तुमुखश्रुतेः ॥ १ । २ । १३ ॥ चातुर्मास्येषु च न याथाकाम्यम् । कुतः ? ऋतुमुखश्रुतेः । “ ऋतुमुखे ऋतुमुखे चातुर्मास्यैर्यजेत” इति वीप्साश्रवणात् । ऋतोर्मुखं प्रथमदिनम्प्रतिपत्तत्रे- त्यर्थः । अतएव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि पतिपद्येव क्रियन्ते । न पौर्णमास्यामित्यवसीयते । यतः प्रतिपदेवर्तुमुखं न पौर्णमासीति । तथाच श्रूयते- “ एषाह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरा एषो- त्तमा या पूर्वा ” इति ॥१३॥ नित्यत्वे कारणान्तरमाह— नियतसहपाठात् ॥ १ । २ । १४ ॥ नियतैर्नित्यैरग्निहोत्रादिकर्मभिः सहपाठादपि चातुर्मास्यान्यपि तद्वदव- श्यं कर्तव्यानीत्यवसीयते । तेषु न याथाकाम्यं प्रतीयते । तथाहि- “ त एवा- न्वज्ञक्रतूँस्तेनिरेऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धऽ सौम्यमध्वरम्” इति नित्यैः सहपाठेन तत्सदृशत्वमवगम्यत इत्येतदभिप्रायः ॥१४॥ दर्शनाच्च ॥ १ । २ । १५ ॥ गवामयनेषूपायन्तरेण श्रुतौ चातुर्मास्यानामनन्तराद्दर्शनाच्च चातुर्मास्येषु