कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 82, कुल 114 में से
संदर्भ में पढ़ेंर्थमित्यर्थः, न तु अप्राप्तानां पूतीकानां विधानार्थम्, विचारस्यैतत्प्रयोजनम्, प्रतिनिधिनियमपक्षे पूतीकविनाशे सोमसदृशस्योपादानं द्रव्यान्तरविधाने तु पू- तीकसदृशमुपादेयमिति। कथमन्यार्थमिति चेत्, उच्यते, प्रक्रान्तं कर्म तावदवश्यं समापनीयमेव, अतो द्रव्यान्तरोपादानं प्राप्नोत्येव। ननूक्तम् सोमस्योत्पत्तिशिष्ट- त्वान्न प्रतिनिधिमपेक्षेति, तत्रोच्यते, यजेतेत्येतत्पदं यत्किञ्चिद्द्रव्यमपेक्षमाणं सो- मेनेति निराकाङ्क्षीक्रियते, यथाग्नेयोऽष्टाकपाल इति वाक्यं वाक्यान्तरेण व्रीहि- भिर्यजेतेत्यनेन, पदान्तरवाक्यान्तरप्राप्तयोर्नैव कश्चिद्विशेषोऽस्ति, अपेक्षाया- स्तुल्यत्वात्, अतः तदङ्गत्वप्रतिनिध्यपेक्षा भवत्येव। यच्चोक्तम्, सत्यपि प्रतिनिधिना पूतीकानामीषत्सदृशत्वात्प्राप्तिर्नास्तीति, अभावविधिरे