कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 260, कुल 361 में से
संदर्भ में पढ़ें२२८ अथर्ववेदीय-कौशिकसूत्रम् । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे ॥ अद्यानो धेहि भेषजम् ॥ स्वाहेत्यग्नौ जुहुयात् ॥४॥ तत्रैवैतान् होमाञ्जुहुयात् ॥५॥ आरादग्निं क्रव्यादं निरूहञ्जीवा- तवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधा- नावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वा- हेति हुत्वा ॥ ६ ॥ अपेत एतु निर्ऋतिरित्येतेन सूक्तेन जुहुयात् ॥७॥ अपेत एतु निर्ऋतिर्नैहास्या अपि किञ्चन । अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा अप यजामसि ॥ निरितो यन्तु नैर्ऋत्या मृत्यव एक- शतं परः ॥ सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महा- न्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ ब्रह्म आजडुदगादन्तरिक्षं दिवं च ब्रह्मा- वाघूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मा- स्मदप हन्तु शमलं तमश्च ॥८॥ वरमनड्वाहमिति समा- नम् ॥९॥५॥९७॥ अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् ॥ १ ॥ अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः। अच्युतो ऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठाति जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरि- इत्यादि से आहुति देकर ॥ ४ ॥ वही इन होमों को भी देवे ॥ ५ ॥ “आरादग्निं क्रव्यादं०” इस सूक्त से आहुति देवे ॥ ६ ॥ ७ ॥ “अपेत एतु०” इत्यादि से आहुतियां देवे ॥ ८ ॥ दक्षिणा में कर्त्ताको बैल देवे ॥ ९ ॥ ५ ॥ ९७ ॥ यह सत्तानवेवी काण्डिका खतम हुई ॥ जहां भूकम्प होवे वहां आहुति देवे ॥ १ ॥ “अच्युता द्यौरच्युत०”