काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 129, कुल 381 में से
संदर्भ में पढ़ेंवल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन ॥” उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः । (३) । यथा— “अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥” अत्रार्थे—“मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव । दीर्घापाङ्गनदीं विलङ्घ्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा मृगदृशो मामभ्यषिञ्चन्दृशः ॥ शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः । (४) । यथा— “जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः । अत्रार्थे— “सन्मार्गालोकनप्रौढिनिरजीकृतजन्तवः । जयन्त्यपूर्वव्यापाराः पुरारेः पादपांसवः ॥” तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः । (५) । यथा—“स्नानाद्रार्द्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसन्नसभगाः प्राप्ताः पयोबिन्दवः ।