भारतकोश
संग्रह पर लौटें

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन ॥” उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः । (३) । यथा— “अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥” अत्रार्थे—“मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव । दीर्घापाङ्गनदीं विलङ्घ्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा मृगदृशो मामभ्यषिञ्चन्दृशः ॥ शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः । (४) । यथा— “जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः । अत्रार्थे— “सन्मार्गालोकनप्रौढिनिरजीकृतजन्तवः । जयन्त्यपूर्वव्यापाराः पुरारेः पादपांसवः ॥” तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः । (५) । यथा—“स्नानाद्रार्द्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“लक्ष्म्‍याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसन्नसभगाः प्राप्ताः पयोबिन्दवः ।

कविरहस्ये त्रयोदशोऽध्यायः । ७७

ते वः पान्तु विशेषसस्पृहदृशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः ॥” पूर्वं सदृशः पश्चाद्द्भिन्नो जीवञ्जीवकः । (६) । यथा— “नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु । सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणै(णे)व काचिदासीत् ॥” अत्रार्थे—“भास्वत्कपोलतलकुण्डलपारिहार्य- सन्मेखलामणिगणप्रतिबिम्बितेन । चन्द्रेण भाति रमणी रमणीयवक्त्र- शोभाभिभूतवपुषेव निषेव्यमाणा ॥” प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा । (७) । यथा— “ताम्बूलवल्लीपरिणद्धपूगा- खेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥” अत्रार्थे— “निश्चेतनानामपि युक्तयोगदो नूनं स एनं मदनोऽधितिष्ठति । एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताऽधिरोहति ॥” पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी(धिनी) । (८) । यथा— “हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ । वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरच्चन्द्रात्त्वया शिक्षितः ॥” अत्रार्थे—“मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया बाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।

७८ काव्यमीमांसायाम्

व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम् ॥” इत्यर्थहरणोपाया द्वात्रिंशदुपदर्शिताः । हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥ किं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः । अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥ किञ्च—शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः । किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति- सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशोऽध्यायः ॥

चतुर्दशोऽध्यायः जातिद्रव्यक्रियासमयस्थापना । अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः । “नन्वेष दोषः । कथङ्कारं पुनरुपनिबन्धनार्हः ?” इत्याचार्याः । “कविमार्गानुग्राही कथमेष दोषः?” इति यायावरीयः। “निमित्तं तर्हि वाच्यम्” इत्याचार्याः । “इदमभिधीयते” इति यायावरीयः । पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनि- बन्धो यः स कविसमयः । कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदर्शिभिः प्रयुक्तो रूढश्च । तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्परो- पक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः । स च त्रिधा स्वर्ग्यो भौमः

कविरहस्ये चतुर्दशोऽध्यायः । ७९

पातालीयश्च [इति] । स्वर्गपातालीययोर्भौमः प्रधानः । स हि महा- विषयः । स च चतुर्द्धा जातिद्रव्यगुणक्रियारूपार्थतया । तेऽपि प्रत्येकं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च । तत्र सामान्यस्यासतो निबन्धनं यथा—नदीषु पद्मोत्पलादीनि । जलाशयमात्रेऽपि हंसादयः । यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च । नदीपद्मानि यथा— “दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥” नदीनीलोत्पलानि—“गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत् दिनपतिसुतयेव व्यक्तदत्ताङ्गपालीम् ॥” एवं नदीकुमुदाद्यपि । सलिलमात्रे हंसा यथा— “आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गे‌श्वरम् । हेलान्दोलितहंससारसकुलक्केङ्कारसम्मूर्च्छितै- रित्याघोषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ॥” पर्वतमात्रे सुवर्णं यथा— “नागावासश्चित्रपोताभिरामः स्वर्णास्फीतिव्यासदिक्‌चक्रवालः । साम्यात्सख्यं जग्मिवानम्बुराशे- रेष ख्यातस्तेन जीमूतभर्त्ता ॥” रत्नानि यथा— “नीलाश्मरश्मिपटलानि महेभमुक्त- सूत्कारशीकरविसृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥”

१ A वा. २ AB वारि. ३ A स्वर्णस्फीति.

८० काव्यमीमांसायाम् एवमन्यदपि । सतोऽप्यनिबन्धनं तद्यथा—न मालती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु । तत्र प्रथमः—"मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् । आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥" द्वितीयः—"यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि सन्तापमपहरति ॥" तृतीयः—"दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः । नाGeneric? नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥" अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः । तद्यथा—समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि । तयोः प्रथमः— "गोत्राग्रहारं नयतो गृहत्वं खनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः ॥" द्वितीयः—"कामं भवन्तु सरितो भुवि सप्रतिष्ठाः खादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः ॥" असतोऽपि द्रव्यस्य निबन्धनम् । तद्यथा—मुष्टिग्राह्यत्वं सूचीभे- द्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः । तत्र प्रथमम्—"तनुलग्ना इव ककुभः भूवलयं चरणचारमात्रमिव । दिवमिव चालिकदघ्नीं मुष्टिग्राह्यं तमः कुरुते ॥" यथा च—"पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥" द्वितीयम्—"³यैश्चन्द्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्राग्भूत् । १ C जनितः. २ V कुम्भोपवाह्यत्वं. ३ V शङ्खद्रावित० C तन्त्रद्रावित० तन्त्र is explained as औषध.

कविरहस्ये चतुर्दशोऽध्यायः। ८१ उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका ॥” द्रव्यस्य सतोऽनिबन्धनम् । तद्यथा—कृष्णपक्षे सत्या अपि ज्यो- त्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । तयोः प्रथमम्— “ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । 5 बलभद्रप्रलम्बघ्नौ पक्षाविव सितासितौ ॥” द्वितीयम्—“मासि मासि समा ज्योत्स्ना पक्षयोः शुक्लकृष्णयोः । तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ॥” द्रव्यनियमः । तद्यथा—मलय एव चन्दनस्थानं, हिमवानेव भूर्- जोत्पत्तिस्थानम् । 10 तत्र प्रथमः—“तापापहारचतुरो नागावासः सुरप्रियः । नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः ॥” द्वितीयः— “न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणा- 15 मनङ्गलेखक्रिययोपयोगम् ॥” प्रकीर्णकद्रव्यकविसमयस्तु तद्यथा—क्षीरक्षारसमुद्रयोरैक्यं, सागरमहासमुद्रयोश्च । तयोः प्रथमः—“शेतां हरिर्भवतु रत्नमनन्तमन्त- र्लक्ष्मीप्रसूतिरिति नो विवदामहे हे(ऽब्धे) । 20 हा दूरदूरसपयस्तृषितस्य जन्तोः ३किं त्वन्न(न्न) कूपपयसः स मरोजंघन्यः ॥” द्वितीयः—“रङ्गतत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः । स ददर्श पुरो गङ्गां सससागरवल्लभाम् ॥” असतोऽपि क्रियार्थस्य निबन्धनम् । यथा—चक्रवाकमिथुनस्य 25 निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च । १ V उत्सेक्या. २ V ऽद्भो. ३ V किन्वस्ति सिक्त. ११

८२ काव्यमीमांसायाम् तत्र प्रथमः—"सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयःपूरान् । रथचरणाव्हयवयसां किं नोपकृतं निदाघेन ॥" द्वितीयः—"एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव- श्चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विधुतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥" सतोऽपि क्रियार्थस्यानिनबन्धनम् । तद्यथा—दिवा नीलोत्पलाना- मविकासो, निशानिमित्तश्च शेफालिकाकुसुमानामवस्रंसः । तत्र प्रथमः—"आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजिनचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्ये- त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥" द्वितीयः— "त्वद्विप्रयोगे किरणैस्तथोग्रै- र्दग्धाऽस्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥" नियमस्तु तद्यथा—ग्रीष्मादौ सम्भवतोऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः । तयोः प्रथमः—"वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" द्वितीयः—"मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥" कवीनां समयः सोऽयं जातिद्रव्यक्रियागतः । गुणस्थोऽथ ततः स्वर्ग्यः पातालीयश्च कथ्यते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे जातिद्रव्यक्रियासमयस्थापना चतुर्दशोऽध्यायः ॥


१ A भवि. २ C गुणस्थैष.

कविरहस्ये पञ्चदशोऽध्यायः । ८३ पञ्चदशोऽध्यायः गुणसमयस्थापना । असतो गुणस्य निबन्धनम् । यथा—यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम्। तत्र यशःशौक्ल्यम्— "स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्ति- र्मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः। इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः॥" हासशौक्ल्यम्—"अट्टहासच्छलेनास्याद्यश्स्यं फेनौघपाण्डुराः। जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः॥" अयशःकृष्णत्वम्— "प्रसरन्ति कीर्त्तयस्ते तव च रिपूणामकीर्त्तयो युगपत्। कुवलयदलं संवलिताः प्रति‍दिनमिव मालतीमालाः॥" पापकार्ष्ण्यम्—"उत्खातनिर्मलमयूखकृपाणलेखा- श्यामायिता तनुरभूद्द्यकन्धरस्य। सद्यःप्रकोपकृतकेशववंशनाश- सङ्कल्पसंजनितपापमलीभसैव ।" क्रोधरक्तता—"आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण। भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोर्दरवर्त्तिनेव ॥" अनुरागस्परक्तता यथा—"गुणानुरागमिश्रेण यशसा तव सर्पता। दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम्॥" सतोऽपि गुणस्यानिवन्धनम् । कुन्दकुद्मलांनां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुपुष्पाणां च पीतत्वम्। १ V स्याः पश्य. २ V प्रतिदिशमिव. ३ V चलनो.

कुन्दकुड्मलाग्ररक्तता— “द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः सितैः। लपितेवाभवत्तस्य शुद्धवर्णा सरस्वती॥” १पद्ममुकुलाहरितत्वम्— “उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया। तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः॥” प्रियङ्गुपुष्पापीतत्वम्—“प्रियङ्गुश्याममम्भोदिरन्ध्रीणां स्तनमण्डलम्। अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः॥” गुणनियमस्तु तद्यथा—सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां कृष्णता च। तत्र प्रथमः—“सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघ(व)नराजिषु सम्भृतानि। रत्नानि ते दधति क्वचिदिहायताक्षि मेघोदरोदितदिनाधिपबिम्बशङ्काम्॥” पुष्पशुक्लता— “पुष्पं प्रवालोपहितं यदि स्या- न्मुक्ताफलं वा स्फुटविद्रुमस्थम्। ततोऽनुकुर्याद्विशदस्य तस्या- स्ताम्रौष्ठपर्यस्तर्रुचः स्मितस्य॥” मेघकार्ष्ण्यम्—“मेघश्यामेन रामेण पूतवेदिर्विमानराट्। मध्ये महेन्द्रनीलेन रत्नराशिरिवाभौ॥” कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः। कथम्। कृष्णनी- लयोरैक्यम्— “नदीं तूर्णं कर्णोत्पलनूतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटच(त)लाबद्धवानीरहाराम्। १ C B पद्ममुकुलानां हरितत्वं. २ V दानवनुतै०.

तटे सह्यस्योच्चैः खसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः ॥” कृष्णहरितयोरैक्यम्— “मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः ॥” कृष्णश्यामलयोरैक्यम्— “एतत्सुन्दरि नन्दनं शशिमणिलिग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिला- मुद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥” पीतरक्तयोरैक्यम्— “लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥” शुक्लगौरयोरैक्यम्— “कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम् ॥” एवं वर्णान्तरेष्वपि । चक्षुरादेरनेकवर्णोपवर्णनम् । तत्र चक्षुषः शुक्लता— “तिष्ठन्त्या जनसङ्कुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ व्रीडामृदुं प्रेङ्खति । हीनम्लाननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः ॥” श्यामता— “अथ पथि गमयित्वा रम्यकृत्सोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥” १ B व्रीह्नां मृदुः २ V पुरमविशदयोध्यां.

८६ काव्यमीमांसायाम्

कृष्णता—"पादन्यासक्वणितरशनास्तत्र लीलावधूतै- रत्नच्छायाखचितवलिभिश्वामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्याप्य वर्षाग्रबिन्दू- नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥" मिश्रवर्णता—"तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥" इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे गुणसमयस्थापना पञ्चदशोऽध्यायः ॥ षोडशोऽध्यायः स्वर्ग्यपातालीयकविरहस्यस्थापना । भौमवत्स्वर्ग्योऽपि कविसमयः । विशेषस्तु चन्द्रमसि शशहरिण- योरैक्यम् । यथा—"मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥" यथा च—"अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुराक्षिप्तमृगयूथो¹ मृगाधिपः ॥" कामकेतने मकरमत्स्ययोरैक्यं यथा— "चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः ॥" यथा च—"मीनध्वजस्त्वमसि नो न च पुष्पधन्वा. केलिप्रकाश तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः ॥"


¹ B पृषो.

यथा वा—"आपातमारुतविलोड़ितसिन्धुनाथो हात्कारभीतपरिवर्त्तितमत्स्यचिह्नम् । उल्लङ्घ्य यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि ॥" अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम्— "वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सप्त ये तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रोऽभवत् । एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्योऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः ॥" २यथा च—"यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा- मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । १ अयं कस्सम्बन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥" बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वम् । "मालायमानामरासन्धुहंसः कोटीरवल्लीकुसुमं भवस्य । दाक्षायणीविभ्रमदर्पणश्री बालेन्दुखण्डं भवतः पुनीतात् ॥" कामस्य[मूर्तत्वम्]३ मूर्त्तत्वं च यथा— "अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्त्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥" यथा च—"धनुर्माला मौर्वी कणदलिकुलं लक्ष्यमबला- मनो भेद्यं शब्दप्रभृति य(तय) इमे पञ्च विशिखाः । इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥"

१ B कृता. २ V adds this verse after the verse वन्द्या ३ ABC मूर्तत्वं च.

८८ काव्यमीमांसायाम् द्वादशानामप्यादित्यानामैक्यम्— “यस्याधोऽधस्तथोपर्य्युपरि निरवधि भ्राम्यतो विश्वमश्वै- रावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकार्त्तस्वरसरलशरस्पर्द्धिभिर्धामदण्डै- रूहण्डैः प्रापयन्वः प्रचुरतमतमःस्तोममस्तं समस्तम् ॥” नारायणमाधवयोश्च यथा— “येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाम . सोऽव्याद(?)ष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥” एवं दामोदरशेषकूर्मादेः, कमलासम्पदोश्च । यथा— “दोर्मेन्दी(न्दे)रितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयत् । तां लक्ष्मीं पुरुषोत्तमः पुनरसौ लीलाश्रितभ्रूलता- निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥” भौमस्वर्ग्यवत्पातालीयोऽपि कविसमयः । तत्र नागसर्पयोरैक्यम्— “हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्ट्य मन्दराद्रेः । सोढाविषह्यवृषवाहनयोगलीला- पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥” दैत्यदानवासुराणामैक्यम् । यथा—तत्र हिरण्याक्षहिरण्यकशिपु- प्रह्लाद्विरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोम- प्रभृतयो दानवाः, वलवृत्रविश्वरस्त्वृषपर्वाद्योऽसुराः । तेषामैक्यं यथा—“जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥” १ C सोऽव्यादिष्ट०. २ BC विष्ठरत्रुषपर्वाद्यो.

कविरहस्ये सप्तदशोऽध्यायः । ८९ यथा च—"तं शम्बरासुरशराशनिशल्यसारं१ केयूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः ॥" यथा च—"अस्ति२ दैत्यो हयग्रीवः सुहृद्वेश्मासु यस्य ताः । ५ प्रथयन्ति बलं बाहोः सितच्छत्रस्सिताः श्रियः ॥" यथा च हयग्रीवं प्रति— "दानवाधिपते भूयो भुजोऽयं किं न नीयते । सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥" यथा च—"३महासुरसमाजेऽस्मिन् न चैकोऽप्यस्ति सोऽसुरः । १० यस्य नाशनिनिष्पेष४नीराजितमुरःस्थलम् ॥" एवमन्येपि भेदाः—सोऽयं कवीनां समयः काव्ये सुप्त इव स्थितः । स साम्प्रतमिहास्माभिर्यथाबुद्धि विबोधितः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे स्वर्ग्यपातालीयकविरहस्यस्थापना षोडशोऽध्यायः ॥ १५ सप्तदशोऽध्यायः देशविभागः । देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति । जगज्जगदेकदेशाश्च देशः । "द्यावापृथिव्यात्मकमेकं जगत्"इत्येके । तदाहुः—"हलमनु बलस्यैकोऽनड्डान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । २० प्रैवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेहग्दृष्टं दरिद्रकुटुम्बकम् ॥" "दिवस्पृथिव्यौ द्वे जगती" इत्यपरे । १ B V सारके. २ V आसीहै. ३ C महासुरसमाजेषु. ४ C निष्पेष०. ५ V प्रभवति.

तदाहुः- "रुणद्धि रोदसी वा (चा) स्य यावत्कीर्त्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥" "स्वर्ग्यमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके । यदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयायसे ॥" "तान्येव भूर्भुवःस्वः" इत्यन्ये । तदाहुः- "नमस्त्रिभुवनाभोगधृतिखेदभरादिव । नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने ॥" "महर्जनस्तपःसत्यमित्येतैः सह सप्त" इत्यपरे । तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्त्तेः प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥" "तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् । तदाहुः- "निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्ति- र्जयति चतुर्दशलोकवल्लिकन्दः ॥" "तानि सप्तभिः पातालैः सहैकविंशतिः" इति केचित् । तदाहुः- "हरहासहरावासहरहारनिभप्रभाः । कीर्त्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥" "सर्वमुपपन्नम्" इति यायावरीयः । अविशेषविवक्षा यदेकयति विशेषविवक्षात्वनेकयति । तेषु भूर्लोकः पृथिवी । तत्र सप्त महा- द्वीपाः । "जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः कुशोऽतः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः ॥


पाद-टिप्पणी (Footnotes): १ V स्वर्गमृत्यु०. २ V लोकत्रयात्मकः. ३ V भोगधृति०. ४ V शार्ङ्गधन्विने. ५ V स्थितमनिवर्तित०.

कविरहस्ये सप्तदशोऽध्यायः । ९१ लावणो रसमयः सुरोदकः सर्पिषो दधिजलः पयःपयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥” “एक एवायं लावणः समुद्रः” इत्येके । तदाहुः— “द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता खाङ्गखण्डै- रेकोऽम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् । कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरव(च)र्ये चक्रे पुञ्जेन दातुं तदिदमिति धिया वेधसे यश्चकोप ॥” “त्रयः” इत्यन्ये । तदाहुः— “आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । वीर्येण संहतिभिदा विहँतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ॥” यथा वा—“मातङ्गानामभावे मदमलिनमुखैः प्राप्तमाशाकरीन्द्रैः जाते रत्नापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् । छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदश्वत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत् ॥” “चत्वारः” इत्यपरे । तदाहुः— “चतुःसमुद्रवेलोर्मिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लङ्घ्य यस्य क्वापि गतं यशः ॥” “भिन्नाभिप्रायतया सर्वमुपपन्नम्” इति यायावरीयः । सप्तसमु- द्रीवादिनस्तु शास्त्रादनपेता एव । तदाहुः— “आगस्त्यचुलुकोच्छिष्टसप्तवारिधिवारिणि । मुहूर्त्तं केशवेनापि तदन्तः पूतरायितम् (?) ॥ “कविप्रसिद्ध्या वाऽविमृष्टपरमार्थं सर्वमुपपन्नम्” (इति या- यावरीयः । ) मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः । यो मूर्त्ता(योऽमर्त्या)नामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥


१ V प्रस्सरो०. २ V पर्यासं मे न दातुः ३ V विहितो०. ४ V अगस्त्यचुलकोत्क्षिप्त०. ५ V तरता पूतरायितम्. ६ V adds here this line.

९२ काव्यमीमांसायाम् तमेनमवधीकृत्य देवेनाम्बुजजन्मना । तिर्यगूर्ध्वमधस्ताच्च विश्वस्य रचना कृता ॥ स भगवान्मेरुराद्यो वर्षपर्वतः । तस्य चतुर्दिशमिलावृतं वर्षम् । तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च । रम्यकं, हिरण्मयम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि । दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च । हरिवर्षं, किं- पुरुषं, भारतमिति च त्रीणि वर्षाणि । तत्रेदं भारतं वर्षम् । अस्य च नव भेदाः। इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णी, गभस्तिमान्, नाग- द्वीपः, सौम्यो, गन्धर्वो, वरुणः, कुमारीद्वीपश्वायं नवमः। पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणा- त्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते । तान्येतानि यो जयति स सम्राडित्युच्यते । कुमारीपुरात्प्रभृति बिन्दुसरोऽवधि योज- नानां दशशती चक्रवर्त्तिक्षेत्रम् । तां विजयमानश्चक्रवर्त्ती भवति । चक्रवर्त्तिचिह्नानि तु—“चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि सर्वेषां चक्रवर्त्तिनाम् ॥” अत्र च कुमारीद्वीपे—“विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥” तत्र विन्ध्यादयः प्रतीतस्वरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमः— “आ मूलयष्टेः फणिवेष्टितानां सचन्दनानां जननन्दनानाम् । कक्कोलकैलामरिचैर्युतानां जातीतरूणां च स जन्मभूमिः ॥” द्वितीयः— “यस्योत्तमां मौक्तिककामधेनु- रुप्रत्यकामर्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥


१ A and V B ब्रह्मणा पुण्यकर्मणा. २ V वर्षमन्त्यमस्य च. ३ V A and V B drop अद्रिराजं. ४ V कुमारीद्वीपे च.

तत्र द्रुमा विद्रुमनामधेया वंशेषु मुक्ताफलजन्म तत्र । मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः ॥” तृतीयः— “विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य । सदाफलैः पुष्पलताप्रवालै- राश्चर्यमूलं मलयः स तत्र ॥” चतुर्थः— “सा तत्र चामीकररत्नचित्रेः प्रासादमालावलभीविटङ्कैः । द्वारार्गलाबद्धसुरेश्वराज्ञा लङ्केति या रावणराजधानी ॥ प्रवर्त्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी । तेभ्यश्चतुर्भ्योऽपि वसन्तमित्र- मुदङ्मुखो दक्षिणमातरिश्वा ॥” पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्त्तः । तस्मिं- श्चातुर्वर्ण्यं चातुराश्रम्यं च । तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्क- लमगधमुद्गरविदेहनेपालपुण्ड्रप्राग्ज्योतिषताम्रलिप्तकमलदैमल्लवर्त्तक- सुह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गृहलोहितगिरिचकोरदर्दुरनेपा- लकामरूपाद्यः पर्वताः । शोणलौहित्यौ नदौ । गङ्गाकरतोयाकपि- शाद्याश्च नद्यः । लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तुरिकादीनामुत्पादः । माहिष्मत्याः परतो दक्षिणापथः । यत्र महाराष्ट्रमाहिषकाश्म- कविदर्भकुन्तलक्रथकैशिकसूर्पारकाञ्चीकेरलकावेरमुशलवानवासक- सिंहलचोर्डदण्डकपाण्ड्यपल्लवगाङ्कनासिक्यकौङ्कणकोल्लगिरिवल्लार- (ल)प्रभृतयो जनपदाः । विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपाल्म- १ V पुष्पलतावितानैः. २ V A परतः. ३ V मलजद. ४ V माहिष्मक. ५ V वैदर्भ. ६ V चौड. ७ V वेल्लुर. A वल्लर.

९४ काव्यमीमांसायाम् अरसश्चश्रीपर्वतादयः पर्वताः । नर्मदातापीपयोष्णीगोदावरीकावे- रीभैमरथीवेणाकृष्णवेणावञ्चुरातुङ्गभद्रांताम्रपर्ण्युत्पलावतीरावणग- ङ्गाद्या नद्यः । तदुत्पत्तिमलयोत्पत्त्या व्याख्याता । देवसभायाः परतः पश्चाद्देशः । तत्र देवसभसुराष्ट्रदशेरकत्रव- 5 णभृगुकच्छकच्छीयानर्त्ताबुँदब्राह्मणवाहयवनप्रभृतयो जनपदाः । गोवर्धनगिरिनगरदेवसभामाल्यशिखराऽर्बुदादयश्च पर्वताः । सरख- तीश्वभ्रवतीवार्तघ्नीमहीहिडिं३वाद्या नद्यः । करीरपीलुगुग्गुलुखर्जू- रकरभादीनामुत्पादः । पृथूदकात्परत उत्तरापथः । यत्र शककेकयवोक्काणहूणवॉणायुज- 10 काम्बोजवाह्लीकवह्लवलिम्पाककुलूतकीरतङ्गणतुं५बारतुरुष्कबर्बरहरहू- रवहूहुकसहुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमा६लयक- लिन्देन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरस्वतीशतद्रुचन्द्र- भागायमुनेरावतीवितस्ताविपाशाकुहूद्देविकाद्या नद्यः। सरलदेवदारु- द्राक्षाकुङ्कुमचमराजिनसौवीरस्रोतोऽञ्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः। 15 तेषां मध्ये मध्यदेश इति कविव्यवहारः । न चायं नानुगन्ता शास्त्रार्थस्य । यदाहुः- “हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥” तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धि- 20 सिद्धमिति न निर्दिष्टम् । द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ॥ “विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदी(दि) । तदपेक्षया दिशो विभजेत” इत्याचार्याः । “तत्रापि महोदयं मूलमवधीकृत्य” 25 इति यायावरीयः । “अनियतत्वादिशामनिश्चितो दिग्विभागः” इत्येके । तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति । “अवधिनिबन्ध- नमिदं रूपमितरत्त्वनियतमेव” इति यायावरीयः । “प्राच्यवाची- प्रतीच्युदीच्यः चतस्रो दिशः” इत्येके । १ V भमरवीवेणीकृष्णवेणी. २ V ताम्रपर्णीपलावती. ३ V हिण्डिवा. ४ V बनायुज- कम्बोज. ५ V तुवार. ६ V हिमालयजालन्धर.

तदाहुः- "चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥" "ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी चाष्टौ दिशः" इत्येके । तदाहुः- "एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि- र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्त त्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो- र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥" "ब्राह्मी नागीया च द्वे । ताभ्यां सह दशैताः" इत्यपरे । तदाहुः- "दशदिक्कटपर्यन्तसीम सङ्कटभूमिके । विषमा स्थूललक्ष्यस्य ब्रह्माण्डग्रामके स्थितिः ॥" सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता । तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, ध्रुवेणोदीची, तदनुसारेणावाची, अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधस्तान्नागीयेति । द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च । तत्र प्राक्सिद्धे प्राची- "द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकै- र्ज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्धसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप् ॥" दक्षिणा- "दक्षिणो दक्षिणामाशां यियासुः सोऽधिकं बभौ । जिहासुर्दक्षिणामाशां भगवानिव भास्करः ॥" पश्चिमा- "पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । दीर्घया प्रतिमया सरोम्भस- स्तापनीयमिव सेतुबन्धनम् ॥ १ V A दशदिकूट०. २ V द्विधा च दिव्यव्यवहारः. ३ C प्रसिद्धो. ४ V यियासन्. ५ V जिहासन्.