काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 143, कुल 381 में से
संदर्भ में पढ़ेंतदाहुः- "रुणद्धि रोदसी वा (चा) स्य यावत्कीर्त्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥" "स्वर्ग्यमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके । यदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयायसे ॥" "तान्येव भूर्भुवःस्वः" इत्यन्ये । तदाहुः- "नमस्त्रिभुवनाभोगधृतिखेदभरादिव । नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने ॥" "महर्जनस्तपःसत्यमित्येतैः सह सप्त" इत्यपरे । तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्त्तेः प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥" "तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् । तदाहुः- "निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्ति- र्जयति चतुर्दशलोकवल्लिकन्दः ॥" "तानि सप्तभिः पातालैः सहैकविंशतिः" इति केचित् । तदाहुः- "हरहासहरावासहरहारनिभप्रभाः । कीर्त्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥" "सर्वमुपपन्नम्" इति यायावरीयः । अविशेषविवक्षा यदेकयति विशेषविवक्षात्वनेकयति । तेषु भूर्लोकः पृथिवी । तत्र सप्त महा- द्वीपाः । "जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः कुशोऽतः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः ॥
पाद-टिप्पणी (Footnotes): १ V स्वर्गमृत्यु०. २ V लोकत्रयात्मकः. ३ V भोगधृति०. ४ V शार्ङ्गधन्विने. ५ V स्थितमनिवर्तित०.