भारतकोश
संग्रह पर लौटें

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

तदाहुः- "रुणद्धि रोदसी वा (चा) स्य यावत्कीर्त्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥" "स्वर्ग्यमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके । यदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयायसे ॥" "तान्येव भूर्भुवःस्वः" इत्यन्ये । तदाहुः- "नमस्त्रिभुवनाभोगधृतिखेदभरादिव । नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने ॥" "महर्जनस्तपःसत्यमित्येतैः सह सप्त" इत्यपरे । तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्त्तेः प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥" "तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् । तदाहुः- "निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्ति- र्जयति चतुर्दशलोकवल्लिकन्दः ॥" "तानि सप्तभिः पातालैः सहैकविंशतिः" इति केचित् । तदाहुः- "हरहासहरावासहरहारनिभप्रभाः । कीर्त्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥" "सर्वमुपपन्नम्" इति यायावरीयः । अविशेषविवक्षा यदेकयति विशेषविवक्षात्वनेकयति । तेषु भूर्लोकः पृथिवी । तत्र सप्त महा- द्वीपाः । "जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः कुशोऽतः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः ॥


पाद-टिप्पणी (Footnotes): १ V स्वर्गमृत्यु०. २ V लोकत्रयात्मकः. ३ V भोगधृति०. ४ V शार्ङ्गधन्विने. ५ V स्थितमनिवर्तित०.

कविरहस्ये सप्तदशोऽध्यायः । ९१ लावणो रसमयः सुरोदकः सर्पिषो दधिजलः पयःपयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥” “एक एवायं लावणः समुद्रः” इत्येके । तदाहुः— “द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता खाङ्गखण्डै- रेकोऽम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् । कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरव(च)र्ये चक्रे पुञ्जेन दातुं तदिदमिति धिया वेधसे यश्चकोप ॥” “त्रयः” इत्यन्ये । तदाहुः— “आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । वीर्येण संहतिभिदा विहँतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ॥” यथा वा—“मातङ्गानामभावे मदमलिनमुखैः प्राप्तमाशाकरीन्द्रैः जाते रत्नापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् । छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदश्वत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत् ॥” “चत्वारः” इत्यपरे । तदाहुः— “चतुःसमुद्रवेलोर्मिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लङ्घ्य यस्य क्वापि गतं यशः ॥” “भिन्नाभिप्रायतया सर्वमुपपन्नम्” इति यायावरीयः । सप्तसमु- द्रीवादिनस्तु शास्त्रादनपेता एव । तदाहुः— “आगस्त्यचुलुकोच्छिष्टसप्तवारिधिवारिणि । मुहूर्त्तं केशवेनापि तदन्तः पूतरायितम् (?) ॥ “कविप्रसिद्ध्या वाऽविमृष्टपरमार्थं सर्वमुपपन्नम्” (इति या- यावरीयः । ) मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः । यो मूर्त्ता(योऽमर्त्या)नामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥


१ V प्रस्सरो०. २ V पर्यासं मे न दातुः ३ V विहितो०. ४ V अगस्त्यचुलकोत्क्षिप्त०. ५ V तरता पूतरायितम्. ६ V adds here this line.

९२ काव्यमीमांसायाम् तमेनमवधीकृत्य देवेनाम्बुजजन्मना । तिर्यगूर्ध्वमधस्ताच्च विश्वस्य रचना कृता ॥ स भगवान्मेरुराद्यो वर्षपर्वतः । तस्य चतुर्दिशमिलावृतं वर्षम् । तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च । रम्यकं, हिरण्मयम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि । दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च । हरिवर्षं, किं- पुरुषं, भारतमिति च त्रीणि वर्षाणि । तत्रेदं भारतं वर्षम् । अस्य च नव भेदाः। इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णी, गभस्तिमान्, नाग- द्वीपः, सौम्यो, गन्धर्वो, वरुणः, कुमारीद्वीपश्वायं नवमः। पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणा- त्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते । तान्येतानि यो जयति स सम्राडित्युच्यते । कुमारीपुरात्प्रभृति बिन्दुसरोऽवधि योज- नानां दशशती चक्रवर्त्तिक्षेत्रम् । तां विजयमानश्चक्रवर्त्ती भवति । चक्रवर्त्तिचिह्नानि तु—“चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि सर्वेषां चक्रवर्त्तिनाम् ॥” अत्र च कुमारीद्वीपे—“विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥” तत्र विन्ध्यादयः प्रतीतस्वरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमः— “आ मूलयष्टेः फणिवेष्टितानां सचन्दनानां जननन्दनानाम् । कक्कोलकैलामरिचैर्युतानां जातीतरूणां च स जन्मभूमिः ॥” द्वितीयः— “यस्योत्तमां मौक्तिककामधेनु- रुप्रत्यकामर्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥


१ A and V B ब्रह्मणा पुण्यकर्मणा. २ V वर्षमन्त्यमस्य च. ३ V A and V B drop अद्रिराजं. ४ V कुमारीद्वीपे च.

तत्र द्रुमा विद्रुमनामधेया वंशेषु मुक्ताफलजन्म तत्र । मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः ॥” तृतीयः— “विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य । सदाफलैः पुष्पलताप्रवालै- राश्चर्यमूलं मलयः स तत्र ॥” चतुर्थः— “सा तत्र चामीकररत्नचित्रेः प्रासादमालावलभीविटङ्कैः । द्वारार्गलाबद्धसुरेश्वराज्ञा लङ्केति या रावणराजधानी ॥ प्रवर्त्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी । तेभ्यश्चतुर्भ्योऽपि वसन्तमित्र- मुदङ्मुखो दक्षिणमातरिश्वा ॥” पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्त्तः । तस्मिं- श्चातुर्वर्ण्यं चातुराश्रम्यं च । तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्क- लमगधमुद्गरविदेहनेपालपुण्ड्रप्राग्ज्योतिषताम्रलिप्तकमलदैमल्लवर्त्तक- सुह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गृहलोहितगिरिचकोरदर्दुरनेपा- लकामरूपाद्यः पर्वताः । शोणलौहित्यौ नदौ । गङ्गाकरतोयाकपि- शाद्याश्च नद्यः । लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तुरिकादीनामुत्पादः । माहिष्मत्याः परतो दक्षिणापथः । यत्र महाराष्ट्रमाहिषकाश्म- कविदर्भकुन्तलक्रथकैशिकसूर्पारकाञ्चीकेरलकावेरमुशलवानवासक- सिंहलचोर्डदण्डकपाण्ड्यपल्लवगाङ्कनासिक्यकौङ्कणकोल्लगिरिवल्लार- (ल)प्रभृतयो जनपदाः । विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपाल्म- १ V पुष्पलतावितानैः. २ V A परतः. ३ V मलजद. ४ V माहिष्मक. ५ V वैदर्भ. ६ V चौड. ७ V वेल्लुर. A वल्लर.

९४ काव्यमीमांसायाम् अरसश्चश्रीपर्वतादयः पर्वताः । नर्मदातापीपयोष्णीगोदावरीकावे- रीभैमरथीवेणाकृष्णवेणावञ्चुरातुङ्गभद्रांताम्रपर्ण्युत्पलावतीरावणग- ङ्गाद्या नद्यः । तदुत्पत्तिमलयोत्पत्त्या व्याख्याता । देवसभायाः परतः पश्चाद्देशः । तत्र देवसभसुराष्ट्रदशेरकत्रव- 5 णभृगुकच्छकच्छीयानर्त्ताबुँदब्राह्मणवाहयवनप्रभृतयो जनपदाः । गोवर्धनगिरिनगरदेवसभामाल्यशिखराऽर्बुदादयश्च पर्वताः । सरख- तीश्वभ्रवतीवार्तघ्नीमहीहिडिं३वाद्या नद्यः । करीरपीलुगुग्गुलुखर्जू- रकरभादीनामुत्पादः । पृथूदकात्परत उत्तरापथः । यत्र शककेकयवोक्काणहूणवॉणायुज- 10 काम्बोजवाह्लीकवह्लवलिम्पाककुलूतकीरतङ्गणतुं५बारतुरुष्कबर्बरहरहू- रवहूहुकसहुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमा६लयक- लिन्देन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरस्वतीशतद्रुचन्द्र- भागायमुनेरावतीवितस्ताविपाशाकुहूद्देविकाद्या नद्यः। सरलदेवदारु- द्राक्षाकुङ्कुमचमराजिनसौवीरस्रोतोऽञ्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः। 15 तेषां मध्ये मध्यदेश इति कविव्यवहारः । न चायं नानुगन्ता शास्त्रार्थस्य । यदाहुः- “हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥” तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धि- 20 सिद्धमिति न निर्दिष्टम् । द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ॥ “विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदी(दि) । तदपेक्षया दिशो विभजेत” इत्याचार्याः । “तत्रापि महोदयं मूलमवधीकृत्य” 25 इति यायावरीयः । “अनियतत्वादिशामनिश्चितो दिग्विभागः” इत्येके । तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति । “अवधिनिबन्ध- नमिदं रूपमितरत्त्वनियतमेव” इति यायावरीयः । “प्राच्यवाची- प्रतीच्युदीच्यः चतस्रो दिशः” इत्येके । १ V भमरवीवेणीकृष्णवेणी. २ V ताम्रपर्णीपलावती. ३ V हिण्डिवा. ४ V बनायुज- कम्बोज. ५ V तुवार. ६ V हिमालयजालन्धर.

तदाहुः- "चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥" "ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी चाष्टौ दिशः" इत्येके । तदाहुः- "एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि- र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्त त्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो- र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥" "ब्राह्मी नागीया च द्वे । ताभ्यां सह दशैताः" इत्यपरे । तदाहुः- "दशदिक्कटपर्यन्तसीम सङ्कटभूमिके । विषमा स्थूललक्ष्यस्य ब्रह्माण्डग्रामके स्थितिः ॥" सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता । तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, ध्रुवेणोदीची, तदनुसारेणावाची, अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधस्तान्नागीयेति । द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च । तत्र प्राक्सिद्धे प्राची- "द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकै- र्ज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्धसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप् ॥" दक्षिणा- "दक्षिणो दक्षिणामाशां यियासुः सोऽधिकं बभौ । जिहासुर्दक्षिणामाशां भगवानिव भास्करः ॥" पश्चिमा- "पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । दीर्घया प्रतिमया सरोम्भस- स्तापनीयमिव सेतुबन्धनम् ॥ १ V A दशदिकूट०. २ V द्विधा च दिव्यव्यवहारः. ३ C प्रसिद्धो. ४ V यियासन्. ५ V जिहासन्.

[Page Header] ९६ काव्यमीमांसायाम्

उत्तरा— "अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥" विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा— "यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन । नो चेन्निरन्तरधराधरसेतुसृति- राकल्पमेष न विरंस्यति वो वियोगः ॥ दक्षिणोत्तरौ यथा—"काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः ॥" उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावप्युत्तरदिगभिधानम् । तयोः प्रथमम्—"तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः ॥" द्वितीयम्—"सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥" एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् । साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वर्णनियमः । तत्र पौरस्त्यानां श्यामो वर्णः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डुः, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च । पौरस्त्यश्यामता—"श्यामेष्वङ्गेषु गौडीनां सूत्रहारैकहारिषु । चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति ॥"

[Footnotes] १ B पुष्प. २ B तो.

कवि रहस्ये सप्तदशोऽध्यायः। ९७ दाक्षिणात्यकृष्णता-“इदं भासां भर्तुहृतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम्। अथैष प्राचींतः सरति मुरलीगण्डमलिन- स्तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः॥” पाश्चात्यपाण्डुता-“शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु॥” उदीच्यगौरता-“पुष्पैः सम्प्रति काञ्चनारतरवः प्रत्यङ्गमRow/आलिङ्गिताः वाल्हीकीदशनव्रणारुणतरैः पत्रैरशोकोऽर्चितः। जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः॥” यथा वा-“काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु। द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्॥” मध्यदेश्यकृष्णता यथा- “युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः। पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव॥” तदून्मध्यदेश्यश्यामता। न च कविमार्गे श्यामकृष्णयोः पाण्डु- गौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम। मध्यदेश्यगौरता- “तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः। अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन॥” विशेषस्तु पूर्वदेशे राजपुत्र्यादीनां गौरः पाण्डुर्वा वर्णः। एवं दक्षिणदेशेऽपि। तत्र प्रथमः-“कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरः स्फारोडरमरपुलक॑ वक्त्रकमलम्।


१ V प्राचीनः. २ V नागवल्लीदलेषु. ३ V कोसलेन्दुपुत्रि. B पुत्रिकायाः ४ A कै.

९८ काव्यमीमांसायाम् मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥” द्वितीयः— “तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् । शब्दविद्येव विद्यानां मध्ये जज्वल रुक्मिणी ॥” एवमन्यदपि यथासम्भवमभ्यूह्यम् । निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः । तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ॥ इत्थं देशविभागो मुद्रामात्रेण सूत्रितः सुधियाम् । यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे देशविभागः सप्तदशोऽध्यायः ॥

अष्टादशोऽध्यायः कालविभागः । कालः काष्ठादिभेदभिन्नः । तथा चै¹— काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठाः कथिताः केलेति² । त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता राज्यहनी समेते ॥ ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः; ततः परं मौहूर्त्तिकी निशा- वृद्धिः दिवसहानिश्च । आश्वयुजात्परतः पुनरेतदेव विपरीतम् । राशितो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं शिशिराद्युत्तरायणं द्व्ययनः संवत्सर इति सौरं मानम् । पञ्चद- शाहोरात्रः पक्षः । वर्द्धमान³सोमः शुक्लो, वर्द्धमानकृष्णिमा कृष्ण इति पित्र्यं मासमानम् । अमुना च वेदोदितः कृत्स्नोऽपि क्रिया- कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्‌यावर्त्तवासि- नः कवयश्च मानमाश्रिताः । एवं च द्वौ पक्षौ मासः । द्वौ मासा- वृत्तुः । षण्णामृतूनां परिवर्त्तः संवत्सरः । स च चैत्रादिरिति

१ V adds this line. २ V कला तु. ३ V सोमशुक्लिमा, वर्धमानसोमकृष्णिमा.

कविरहस्ये अष्टादशोऽध्यायः । ९९ दैवज्ञाः, श्रवणादिरिति लोकयात्राविदः । तत्र नभा नभस्यश्च वर्षाः, इष ऊर्जश्च शरत्, संहः सहस्यश्च हेमन्तः, तपस्तपस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः । तत्र “वर्षासु पूर्वो वायुः” इति कवयः। “पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता” इत्याचार्याः । ५ तदाहुः- “पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्” इति । तदाहुः- “प्रावृष्यम्भोभृताम्भोदभरनिर्भरमम्बरम् । कादम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥” “वस्तुवृत्तितरतन्त्रं, कविसमयः प्रमाणम्” इति यायावरीयः । तदाहुः- “पौरस्त्यस्तोयदत्तोः पवन इव पतन्पावकस्येव धूमो १० विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । सन्ध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥” शरद्यनियतदिक्को वायुर्यथा- “उषःसु ववुराकृष्टजडावश्यायशीकराः । १५ शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥” “हेमन्ते पाश्चात्यो वायुः” इत्येके । “उदीच्य” इत्यपरे । “उभयमपि” इति यायावरीयः । तयोः पाश्चात्यः- “भञ्जन्भूर्जद्रुमालीस्तुहिनगिरितटेपूद्गतास्त्वक्करालाः रेवाम्भःस्थूलवीचीचयचकितचलच्चातकान् व्याधुनानः । २० पाश्चात्यो वाति वेगाद्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्रुतरसरलतरत्सारसारी समीरः ॥” उदीच्यः- “लम्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्चन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डाः । २५ एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाल्हवीनां कौतूतीकेलिकाराः परिचितहिमं वायवो वान्त्युदीच्याः ॥” १ V सहाः. २ V कदम्ब. ३ V B & V C विश्वस्येवादिमार्गः. ४ V A & V B सरत्सारसारी. ५ V B & V C चन्द्रभागां विवितसुमनसः कुङ्कुमान् कम्पयन्तः.

शिशिरेऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा। वसन्ते दक्षिणः। तदुक्तम्— “¹धुन्वँल्लङ्कावनालीर्मुहुरलकलता लासयन्केरलीना- मन्ध्रीधम्मिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः। उद्दामं दाक्षिणात्यो म(मि)लितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः॥” “अनियतदिक्को वायुर्ग्रीष्मे” इत्येके। नैर्ऋतः” इत्यपरे। “उभय- मपि” इति यायावरीयः। तत्र प्रथमः— “वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संगृह्णन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्॥” द्वितीयः— “सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति॥” किञ्च— “³गर्भान्वलाकासु निवेशयन्तो वंशाङ्कुरान्स्वनिनदैः ²सृजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति॥ स सल्हकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलिकः। दग्धोर्वरासुन्दरगन्धबन्धुरर्धत्ययं वारिमुचामनेहा॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि॥ चकोरहर्षी यतिषारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः॥ या केलियात्रा ⁴कैँरिकामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भं सा वारिदत्तौः प्रथमातिथेयी॥ १ V चुम्बँल्लङ्का० २ V सूच. ३ V गर्भ. ४ V B & V C किल कामिनीभिः.

कविरहस्ये अष्टादशोऽध्यायः। १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः। शिखण्डिकुलताण्डवामुदितमण्डूकङ्काहयो वियोगिषु घनागमः सरविषं विषं मुञ्चति॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः। कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः॥” वर्षाः॥ “द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान्। १० शरत्स्रसमभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि॥ सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु। शेफालिकासपलाशकाशभाण्डीरसौगन्धिकमालतीषु॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति। कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि। मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः। शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान्॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलातभासं च नभः समन्तात्। २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम्। दीपालिकायां विविधा बिलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही। भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम्। १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावत्तारा. ४ V B & V C जीर्णाब्जखण्डानि.

१०० काव्यमीमांसायाम्

शिशिरेऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा। वसन्ते दक्षिणः। तदुक्तम्— "धुन्वंल्लङ्कावनालीर्मुहुरलकलता लास्यन्केरलीना- मन्ध्रीधम्मिल्लवन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः। उद्दामं दाक्षिणात्यो म(मि)लितमलयजः सारथिर्मोनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः॥" "अनियतदिक्को वायुग्रीष्मे" इत्येके। नैर्ऋतः" इत्यपरे। "उभय- मपि" इति यायावरीयः। तत्र प्रथमः— "वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संशृण्वन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्॥" द्वितीयः—"सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति॥"

"गर्भान्वलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनादैः सृजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति॥ स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः। दग्धोर्वरासुन्दरगन्धबन्धुर्धुर्यं वारिमुचामनेहा॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि॥ चकोरहर्षी यतिषारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः॥ या केलियात्रा कैरिकामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भ सा वारिदत्तौः प्रथमातिथेयी॥"


१ V चुम्बँल्लङ्का० २ V सूच. ३ V गर्भ. ४ V B & V C किल कामिनीभिः.

कविरहस्ये अष्टादशोऽध्यायः । १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमद्गुकङ्काहयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः । कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः ॥” वर्षाः ॥ “१द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । १० शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥ सा भाति पुष्पाणि २निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु । शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि । मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति ॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि ॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् । दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही । भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम् । १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावदारा. ४ V B & V C जीर्णाब्जखण्डानि.

१०२ काव्यमीमांसायाम्

एर्वारुकं स्फुटननिर्गतगर्भ गन्ध- मम्लीभवन्ति च जरत्रपुसीफलानि ॥ गेहाजिरेषु नवशालिकणावपात- गन्धानुभावसुभगेषु कृषीवलानाम् । 5 आनन्दयन्ति मुसलोल्लसनावधूत- पाणिस्खलद्वलयपद्धतयो वधूट्यः ॥ तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचिन्तां 10 कामी दरिद्र इव शोषमुपैति पङ्कम् ॥ नद्यो वहन्ति कुटिलक्रमयुक्तशुक्ति- रेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमान- मीनानुसारिबकदत्तकरालफालाः ॥ 15 अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्वलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥” शरत् ॥ 20 “द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु । पञ्चषफलिनीकुसुमो जयति हिमर्तुर्नवावतरः ॥ पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः । वक्त्रोल्लसत्कुङ्कुमसिक्र्थकाङ्काः सुगन्धतैलाः कबरीर्वहन्ति ॥ यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । 25 तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥ वराहवघ्राणि नवौदनानि दधीनि सन्नद्धशराणि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥


पाद-टिप्पणी (Footnotes): १ V चित्तं. २ V मेघः. ३ V दन्त. ४ V सिक्तकाङ्काः. ५ B वर्ष्मा. A घ्राणि. ६ V ०रसानि.

रहस्ये अष्टादशोऽध्यायः । १०३ अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र खदतेऽन्नपानम् । सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवेऽस्मै ॥ विमुक्तबर्हा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥ सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च । त्रिशङ्कुतिलका रात्र्यः पच्यन्ते लवणानि च ॥ उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥ कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति । कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते चाप्यपूर्वा ॥ येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः । लीलावह्निर्निहुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति ॥” इति हेमन्तः । हेमन्तधर्मः(र्मा) शिशिरः । विशेषस्तु—“रात्रिर्विचित्रसुरतोचितयामदैर्घ्या चण्डो मरुद्वहति कुङ्कुमपङ्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्य- दर्घन्ति चात्र विततागुरुधूपधूमाः ॥ आश्लेषिणः पृथुरतक्लमपीतशीत- मायामिनीं घनमुदो रजनीं युवानः । ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल- पादान्तसंवलिततूलपटाः क्षपन्ति ॥ पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र । नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ॥ १ V हरन्ति च. २ B षाह. ३ V दीर्घा.

१०४ काव्यमीमांसायाम् पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि । सौभाग्यमेणतिलकाद्ब्रजतेऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥ ५ सिद्धार्थयष्टिषु यथोत्तरहीयमान- सन्तानभिन्नघनसूचिपरम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ उदीच्यचण्डानिलताडितासु १० १सुलीनमीनासु जलस्य मूले । नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ॥ माद्यन्मतङ्गः पृषतैकतोषी २पुष्यद्द्वराहो धृतिमल्लुलायः । १५ दरिद्रनिन्द्यः ३सधनैकवन्द्यः स एष कालः शिशिरः करालः ॥ अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रखे- २० र्विरहिवनितावक्त्रौपम्यं बिभर्त्ति निशाकरः ॥ स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपनै- र्नितम्बफलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवनाः सकलरात्रिसंश्लेषितै- र्हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि ॥” २५ शिशिरः ॥ “चैत्रे मदद्धिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् । १ V निलीनमीनासु. २ V B & V C पुष्यद्दराहा. ३ V C सधनैकमन्यः.

कवि रहस्ये अष्टादशोऽध्यायः । १०५ पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुनरेष एव ॥ मनोऽधिकं चात्र विलासलासैः प्रेङ्खासु दोलासु च सुन्दरीणाम् । गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥ पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ॥ पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥ अयं प्रसूनेाद्धुरकर्णिकारः पुष्पप्रपञ्चार्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ॥ रोहीतकास्रातककिङ्किराता मधूकमोचाः सह माधवीभिः । जयन्ति शोभाञ्जनकश्च शाखी सकेसरैः पुष्पभरैर्वसन्ते ॥ यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलाकलारुते कथने च लाभः । पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥ १. V रजतां. २ V शेखरः. ३ V रुतेः. १४

१०६ काव्यमीमांसायाम् नालिङ्गितः कुरबकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥ चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनैर्नरेभ्यः चेतोयोनेः भूर्भुवःस्वस्त्रयेऽपि ॥ गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खर्जूराणां ताडताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्तः ॥ वसन्तः ॥ विकाशकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः । पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मोऽयमुल्लासितधातकीकः ॥ खर्जूरजम्बूपनसाग्रमोच- प्रियालपूगीफलनालिकेरैः । द्वन्द्वानि खेदालसताँमु(म)पास्य रतानुसन्धानमिहाद्रियन्ते ॥ स्रोतांस्यनम्भांसि सकूपकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ सँमभ्यर्थि(र्धि)तसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ॥ यत्कायमानेषु दिनार्द्धनिद्रा यत्स्नानकेलिर्दिवसावसाने । १ V द्रुमाणां. २ V मालिकानां. ३ V ०मपास्य. ४ V समभ्यर्चितसक्तुधाने०.

कविरहस्ये अष्टादशोऽध्यायः । १०७

यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ॥ या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला । या तालवृन्तैरुदबिन्दुवृष्टि- र्जलाञ्जलिं सा शुचये ददाति ॥ कर्पूरचूर्णं सहकारभङ्ग- स्ताम्बूलमार्द्रक्रमूकोपक्लृप्तम् । हाराश्च तारास्तनुवस्त्रमेत- न्महारहस्यं शिशिरक्रियायाः ॥ मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । स्रजश्च मौलौ स्सि(सि)तचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥” अत्र हि—“पच्यन्त इव भूतानि ताप्यन्त इव पांसवः । कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ॥ ऐणाः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः । ताम्यत्तिमीनि च सरांसि जलस्य शोषा- दुद्धारघट्टघटिकावलयाश्च कूपाः ॥ करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् । करवीरकरीरपुष्पिणीः स्थलभूमिरधिरुह्य चासते ॥ सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः ।


१ V चूर्णः. २ V एण्यः. ३ A ०दुद्धारघट०.