काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 141, कुल 381 में से
संदर्भ में पढ़ें८८ काव्यमीमांसायाम् द्वादशानामप्यादित्यानामैक्यम्— “यस्याधोऽधस्तथोपर्य्युपरि निरवधि भ्राम्यतो विश्वमश्वै- रावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकार्त्तस्वरसरलशरस्पर्द्धिभिर्धामदण्डै- रूहण्डैः प्रापयन्वः प्रचुरतमतमःस्तोममस्तं समस्तम् ॥” नारायणमाधवयोश्च यथा— “येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाम . सोऽव्याद(?)ष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥” एवं दामोदरशेषकूर्मादेः, कमलासम्पदोश्च । यथा— “दोर्मेन्दी(न्दे)रितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयत् । तां लक्ष्मीं पुरुषोत्तमः पुनरसौ लीलाश्रितभ्रूलता- निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥” भौमस्वर्ग्यवत्पातालीयोऽपि कविसमयः । तत्र नागसर्पयोरैक्यम्— “हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्ट्य मन्दराद्रेः । सोढाविषह्यवृषवाहनयोगलीला- पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥” दैत्यदानवासुराणामैक्यम् । यथा—तत्र हिरण्याक्षहिरण्यकशिपु- प्रह्लाद्विरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोम- प्रभृतयो दानवाः, वलवृत्रविश्वरस्त्वृषपर्वाद्योऽसुराः । तेषामैक्यं यथा—“जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥” १ C सोऽव्यादिष्ट०. २ BC विष्ठरत्रुषपर्वाद्यो.