भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 139, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 139

८६ काव्यमीमांसायाम्

कृष्णता—"पादन्यासक्वणितरशनास्तत्र लीलावधूतै- रत्नच्छायाखचितवलिभिश्वामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्याप्य वर्षाग्रबिन्दू- नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥" मिश्रवर्णता—"तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥" इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे गुणसमयस्थापना पञ्चदशोऽध्यायः ॥ षोडशोऽध्यायः स्वर्ग्यपातालीयकविरहस्यस्थापना । भौमवत्स्वर्ग्योऽपि कविसमयः । विशेषस्तु चन्द्रमसि शशहरिण- योरैक्यम् । यथा—"मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥" यथा च—"अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुराक्षिप्तमृगयूथो¹ मृगाधिपः ॥" कामकेतने मकरमत्स्ययोरैक्यं यथा— "चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः ॥" यथा च—"मीनध्वजस्त्वमसि नो न च पुष्पधन्वा. केलिप्रकाश तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः ॥"


¹ B पृषो.