काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 69, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये चतुर्थोऽध्यायः । १५ पुण्यैः सङ्घटते विवक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव(ष) सुधियां काव्यश्रमज्ञो जनः ॥ स्वामी मित्रं च मन्त्री च शिष्यश्चाचार्य एव च । कवेर्भवति ही चित्रं किं हि तद्यन्न भावकः ॥ काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना । नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥ सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे । द्वित्रास्तु भावकमनःशिलापट्टनिकुट्टिताः ॥ सत्काव्ये विक्रियाः काश्चिद्भावकस्योल्लसन्ति ताः । सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न याः ॥ वाग्भावको भवेत्कश्चित्कश्चिद्बुद्ध्यभावकः । सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥ गुणादानपरः कश्चिद्दोषहानपरोऽपरः । गुणदोषाहृतित्यागपरः कश्चन भावकः ॥ अभियोगे समानेऽपि विचित्रो यदयं क्रमः । तेन विद्मः प्रसादोऽत्र नृणां हेतुरमानुषः ॥ न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः । विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥ कवित्वं न स्थितं यस्य काव्ये च कृतकौतुकः । तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥ प(य)दाऽन्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः । तदा स सिद्धो मन्तव्यः कुकविः कविरेव वा ॥” कारयित्रीभावयित्र्यावितीमे प्रतिभाभिदे । अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे चतुर्थोऽध्यायः पदवाक्यविवेकः । काव्यविशेषेषु कारयित्रीभावयित्री नाम समीक्षा ॥
१ BC दोषादान०. २ A गुणदोषा हृदि. ३ A सोत्मानं. ४ C शिष्यविशेषेषु.