काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 68, कुल 381 में से
संदर्भ में पढ़ें१४ काव्यमीमांसायाम् “न” इति कालिदासः । पृथगेव हि कवित्वाद्भावकत्वं, भाव- कत्वाच्च कवित्वम् । स्वरूपभेदाद्विषयभेदाच्च । यदाहुः— “कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति । 5 नह्येकस्मिन्नतिशयवतां सन्निपातो गुणाना- मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥” “ते च द्विधा । अरोचकिनः, सतृणाभ्यवहारिणश्च” इति मङ्गलः। “कवयोऽपि भवन्ति” इति वामनीयाः । “चतुर्द्धा” इति याया- वरीयाः “मत्सरिणस्तत्त्वाभिनिवेशिनश्च” । “तत्र विवेकिनः पूर्वे 10 तद्विपरीतास्तु ततोऽनन्तराः” इति वामनीयाः । “अरोचकिता हि तेषां नैसर्गिकी ज्ञानयोनिर्वा । नैसर्गिकीं हि¹ संस्कारशतेनापि वङ्गमिव कालिकां ते न² जहति । ज्ञानयोनौ तु तस्यां विशिष्टज्ञे- यवति वचसि रोचकितावृत्तिरेव” इति यायावरीयः । किञ्च सतृ- णाभ्यवहारिता सर्वसाधारणी । तथाहि व्युत्पित्सोः कौतुकिनः 15 सर्वस्य सर्वत्र प्रथमं सा । प्रतिभाविवेकविकलता हि न गुणागुण- योर्विभागसूत्रं पातयति । ततो बहु त्यजति बहु च गृह्णाति । विवे- कानुसारेण हि बुद्धयो मधु निष्पन्दन्ते । परिणामे तु यथार्थदर्शी स्यात् । विभ्रमभ्रंशश्च निःश्रेयसं सन्निधत्ते । मत्सरिणस्तु प्रतिभा- तमपि न प्रतिभानं, परगुणेषु वाचंयमत्वात् । स पुनरमत्सरी ज्ञाता 20 च विरलैः³ । तदुक्तम्— “कस्त्वं भोः कविरस्मि काव्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रूयताम् । यः सम्यग्विभिनक्ति दोषगुणयोः सारं स्वयं सत्कविः सोऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरः ॥” 25 तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकः । तदुक्तम्— “शब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्द्रं लेढि रसामृतं⁴ विचिनुते तात्पर्यमुद्रां च यः । १ A reads न after हि. २ A omits न. ३ A विरलं. ४ A रसोदयं.