काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 42, कुल 616 में से
संदर्भ में पढ़ें५ दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम्॥५०॥ सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ ५१ ॥ अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येपि दोषाः सन्त्येते पदस्यांशेपि केचन ॥ ५२ ॥ प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ ५३ ॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् । अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिरतम् ॥ ५४ ॥ भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा । अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ ५५ ॥ संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ ५६ ॥ साकाङ्क्षोपदयवतः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोऽश्लीलः ॥ ५७ ॥ कर्णावतंसादिपदे कर्णादिध्वनिर्मितिः । संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥ ५८ ॥ ख्यातेऽर्थे निर्हेतोरदुष्टतानुकपणे तु सर्वेषाम् । वक्त्राद्यौचित्यवशाद्दोषोपि गुणः क्वचित्क्वचिन्न्नोभौ ॥५९॥ व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ ६० ॥ प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः । अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ ६१ ॥ अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः । अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ ६२ ॥