काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 43, कुल 616 में से
संदर्भ में पढ़ें६ न दोषः स्वपदेनोक्तावपि संचारिणः क्वचित् । संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ ६३ ॥ आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ६४ ॥ स्मर्यमाणो विरुद्धोपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्त्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ ६५ ॥ ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ६६ ॥ उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेनुप्रासोपमादयः ॥ ६७ ॥ माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश । आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ ६८ ॥ करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ ७० ॥ व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः । गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ७१ ॥ केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ७२ ॥ तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये । वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ ७३ ॥ मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू । आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ ७४ ॥ योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः । टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ ७५ ॥