काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
६ न दोषः स्वपदेनोक्तावपि संचारिणः क्वचित् । संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ ६३ ॥ आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ६४ ॥ स्मर्यमाणो विरुद्धोपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्त्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ ६५ ॥ ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ६६ ॥ उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेनुप्रासोपमादयः ॥ ६७ ॥ माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश । आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ ६८ ॥ करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ ७० ॥ व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः । गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ७१ ॥ केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ७२ ॥ तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये । वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ ७३ ॥ मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू । आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ ७४ ॥ योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः । टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ ७५ ॥
७ श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ ७६ ॥ वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ ७७ ॥ यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥ ७८ ॥ वर्णसाम्यमनुप्रासश् छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ ७९ ॥ माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ ८० ॥ केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः । शब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ ८१ ॥ पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा । नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः ॥ ८२ ॥ अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ८३ ॥ वाच्यभेदेन भिन्ना यद् युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥ ८४ ॥ भेदाभावात्प्रकृत्यादेर्भेदोपि नवमो भवेत् । तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ ८५ ॥ पुनरुक्तवदाभासो विभिन्नाकारशब्दगा । एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ ८६ ॥ साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ ८७ ॥ तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः । उपमानानुपादाने वाक्यगाथ समासगा ॥ ८८ ॥
वादेर्लोपे समासे सा कर्मधारक्यचि क्यङि । कर्मकर्त्रोर्णमुल्येतद्विलोपे क्विप्समासगा ॥ ८९ ॥ धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते । क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥ ९० ॥ उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयो विपर्यास उपमेयोपमा तयोः ॥ ९१ ॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९२ ॥ तद्रूपकमभेदो य उपमानोपमेययोः । समस्तवस्तुविषयं श्रौता आरोपिता यदा ॥ ९३ ॥ श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् । साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥ ९४ ॥ नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ ९५ ॥ प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः । श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ ९६ ॥ परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना । अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ ९७ ॥ स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापheader / सापरा । अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ९८ ॥ कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ९९ ॥ निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ १००॥ कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ १०१ ॥
९ सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ १०२ ॥ सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥ मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् । नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ १०४ ॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ १०५ ॥ शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् । निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ १०७ ॥ विशेषोक्तिरखण्डेषु कारणेषु फलावचः । यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०८ ॥ सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ १०९ ॥ विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ ११० ॥ क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश । स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ १११ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ ११२ ॥ विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः । परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ ११३ ॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ ११४ ॥
पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् ॥ ११५ ॥ तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युगपद् या गुणक्रियाः ॥ ११६ ॥ एकं क्रमेणानेकस्मिन् पर्यायोऽन्यस्ततोन्यथा । अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ ११७ ॥ विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ ११८ ॥ किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ ११९ ॥ यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् क्रियया तु परस्परम् ॥ १२० ॥ वस्तुनोर्जननेन्योन्यमुत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ १२१ ॥ असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् । कुतोपि लक्षितः सूक्ष्मोप्यर्थोऽन्यस्मै प्रकाश्यते ॥ १२२ ॥ धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते । उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ १२३ ॥ भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ १२४ ॥ समाधिः सुकरं कार्यं कारणान्तरयोगतः । समं योग्यतया योगो यदि संभावितः क्वचित् ॥ १२५ ॥ क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् । कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ १२६ ॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ १२७ ॥
११ महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वेप्यधिकं तु तत् ॥ १२८ ॥ प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ १२९ ॥ समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ १३० ॥ स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ १३१ ॥ यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणं भ्रान्तिमानन्यसंवित्तुल्यदर्शने ॥ १३२ ॥ आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ १३३ ॥ प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ १३४ ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ॥ १३५ ॥ अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ १३६ ॥ स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ १३७ ॥ तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः । यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ १३८ ॥ तथैव यद्विधीयेत स व्याघात इति स्मृतः । सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥ अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ १४० ॥
१२ स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम् । व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ १४१ ॥ एषां दोषा यथायोगं संभवन्तोपि केचन । उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ १४२ ॥ ॥ इति काव्यप्रकाशीयकारिकावली समाप्ता ॥
Variant Readings from the MS No. 42290 of the काव्यप्रकाशकारिकावली of the सरस्वतीभवन Library of the वाराणसेय-संस्कृत-विश्वविद्यालय १३ कारिका No. (According to the MS.) Readings in the Printed texts. Readings in the manuscript No. 42290. १ There is no मङ्गलश्लोक दुग्धोदूषणनागेन्द्रमृगेन्द्रस्य गुरोः पदम् । नत्वा व्यातन्यते वृत्तिर्मम्मटेन विपश्चिता । २३ व्यञ्जकत्वे तच्छब्दस्य सहकारिता । व्यञ्जकत्वे हि तदन्यसहकारिता । २६ (क) रसभावतदाभासभावाशान्त्यादिरक्रमः । रसभास-तदाभास-भावभासादिरक्रमः । (ख) रसभावतदाभासभावा- २७ रत्यादेः रसादेः । ३२ जडता तथा जडता मता ३३ प्रबोधोऽमर्षश्च सुसंविबोधोऽमर्षश्च ३५ निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः । It is wanting in this MS.
१४ ३६ तदाभासा अनौचित्यप्रवर्त्तकाः । -भासानौचित्यप्रवर्तिताः । ३९ अर्थशक्त्युद्भवोप्यर्थः । अर्थशक्त्युद्भवोप्यर्थो । ४२ अनन्तत्वात् । अनंत्यत्वात् । ४८ चित्रार्थशब्दयोः । शब्दार्थचित्रयोः ४९ शब्दाद्यास्तेन तेष्वपि सः । शब्दाद्या तेष्वपि सः । ५१ समासगतमेव । समासगतमेव । वाक्येप्याह । ५४ समासं संकीर्णम् । समाससंकीर्णम् । परार्थं च वाक्यमेव तथा । परार्थ वाक्यमेव च तथा । अर्थदोषान् विशदयति । ५६ निर्हेतुः निर्हेतु । ५९ दोषोपि गुणःक्वचित्क्वचिच्चित्रोभौ । दोषोपि गुणः क्वचिच्चित्रोभौ । रसदोषानाह । ६० ०भावानां शब्दवाच्यता । ०भावानां व्यभिशब्दवाच्यता । ६१ अङ्गस्याप्यतिविस्तृतिः । अंगस्याप्यतिविस्मृतिः । ६२ श्लोकंमध्ये रसदोषापवादमाह । ६७ येऽङ्गद्वारेण • योगद्वारेण । श्लोकान्ते गुणानाह ।
१५ ६७ श्लोकान्ते–एषां लक्षणमाह । ७० शुष्केन्धनाग्निवत् । शुष्केन्धनाग्निवत् । ७१ दोषत्यागात्परे स्थिताः । दोषत्यागात्परेस्थिता । ७४ आद्यतृतीयाभ्याम् । आद्ययोगतृतीयाभ्याम् ७६ गुणोमतः – गुणः स्मृतः ७७ अष्टमः–अथ शब्दालङ्कारः । ७८ वर्णसाम्यमनुप्रासः वर्णसाम्यमनुप्रासः । ८० केषांचिदेता वैदर्भी । एषांविदेता वैदर्भी । ८७ तद्धिते तथा । तद्धिते यथा । ९० विपर्यास उपमेयोपमा तयोः । विपर्यास उपमानोपमेययोः । ९४ परस्य यः । परस्परः । ९५ श्लेषः स वाक्य एकस्मिन् । श्लेषः स वाच्य एकस्मिन् । ९६ अभवन् वस्तु० अभवद्वस्तु० । ९७ क्रिययैव च सापरा । क्रिययैव हि सापरा । १०६ ०विषयः । ०विषये ।
१६
१०८ वा तदन्येन समर्थ्यते। वा यदन्यो न समर्थ्यते। यत्र ११२ सन्न नेतरः। सन्न चेतरः। ११४ ०वाचकत्वेन यद्वचः। वाचकत्वेन वस्तु यत्॥ ११७ परिकरस्तु सः। परिकरस्तथा। १२६ गुणक्रिये। गुणे क्रियाभ्याम् १२९ समेन लक्ष्मणा वस्तुवस्तुना यन्निगृह्यते। समेनवलक्षणा वस्तु वस्तुना यद्विगृह्यते। १३० परस्परम्। विशेषणतया यत्र वस्तु। परस्परम्। विशेषणतया न तद्वस्तु। १३१ यथानुभवमर्थस्य। यथानुभवदृष्टस्य। १३६ स्वमुत्सृज्य गुणं योगादत्युज्ज्वल- स्वमुत्सृज्य गुणा योगादित्यज्ज्वलगुणस्य तत्। गुणस्य यत्। १३८ यदिह स्थितिः। यदिहा स्थितिः। १४० स्फुटमेकत्र विषये। स्फुटमेकार्थविषये। १४२ तमसंख्यकः श्लोकोऽयं नास्ति मुद्रितेषु इत्येष मार्गोभिन्नोऽप्यभिन्नरूपो भासते यत्। ग्रन्थेषु। न तद्विचित्रं यदमूत्र सम्यक्विनिर्मितिः संघटनैतन हेतुः।
काव्यप्रकाशः प्रथम उल्लासः ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवता ग्रन्थकृत् परामृशति— नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥ नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्यु- पादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तै , तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्- निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते इति तां प्रत्यस्मि प्रणत इति लभ्यते ॥१॥ KĀVYAPRAKĀŚA CHAPTER I [OF THE AIM, SOURCE AND KINDS OF POETRY.] In the beginning, the author invokes the appropriate divinity for the destruction of all obstacles. Splendid is the poet's speech, comprehending a creation which is without the restraints of Nature's laws, full of pleasure alone, independent of other helps, rejoicing in a nine-fold Rasa.—(1) Brahmā's creation is subject to the laws of Nature, is full of pleasure, pain and delusion, is dependent upon material and co-operative causes, such as atoms and actions (matter and motion) respectively—has only six tastes, and these, too, not always of an agreeable nature. The creation of the poet's speech, on the contrary, is different, and hence is 'splendid'—an expression which implies reverence to it. 1.
2 KĀVYAPRAKĀŚA इहाभिधेयं सप्रयोजनमित्याह-- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ २ ॥ _ कालिदासादीनामिव यश श्रीहर्षादेर्धावकादीनामिव धनम् राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थ- निवारणम् । सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादन- समुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधान- वेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं The author now states the subject-matter, together with its aims : Poetry brings fame and riches, knowledge of the ways of the world and relief from evils, instant and perfect happiness, and counsel sweet as from the lips of a beloved consort.—(2) Fame—as to Kālidāsa and others , wealth—as to Dhāvaka and other poets, from Śrī Harṣa and other kings ; knowledge of rights and usages proper to kings and others ; relief from evils—as to Mayūra, whose hymn to the sun brought him a cure. The chief aim of poetry, however, is the attainment of the pure unmixed pleasure that follows instantane- ously on the sensing of Rasa. When poetry exercises its full functions, it helps the development of the various Rasas (Emotions), sublating the direct effects of the word and its meaning. As such poetry differs from the Veda, in which the word, in the form of a master's command, predominates ; it differs also from the Purāṇas, in which the predominant element is friendly counsel (not to be
CHAPTER I 3 यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादि- वदित्यूपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ॥२॥ एवमस्य प्रयोजनमुक्त्वा कारणमाह-- शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ ३ ॥ शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत् प्रसृतं वा उपहसनीयं स्यात् । लोकस्य स्थावर- जङ्गमात्मकलोकवृत्तस्य । शास्त्राणां छन्दोव्याकरणाभिधान- कोशकलाचतुर्वर्गगजतुरगखङ्गादिलक्षणग्रन्थानाम् । काव्यानां followed literally). Such poetry is the work of poets, clever in depicting things in a manner passing the com- prehension of ordinary men , it offers to other poets and cultured men counsel most persuasively, like a beloved wife, by means of a moving tenderness in the manner of it (that is, in the words)—counsel such as that one should behave like Rāma and not like Rāvaṇa. As such, poetry is by all means to be studied and cultivated. 2 Having defined the aims, the author now states the source of poetry. Poetic genius, knowledge born of a study of the world, of sciences and of poems, and the practice of the teachings of those versed in writing poetry—these three together constitute the source of poetry. (3) (1) Poetic genius, which may be called the germ of poetry. This is a peculiar faculty, without which there could either be no poetical work or, if there were, would be ridiculous.
4 KĀVYAPRAKĀŚA च महाकविसंबन्धिनाम् । आदिग्रहणादितिहासाना च विमर्श- नाद्व्युत्पत्ति. । काव्यं कर्तुं विचारयितु च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति । त्रयः समुदिता. न तु व्यस्ताः तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवं ।। ३।। एवमस्य कारणमुक्त्वा स्वरूपमाह— तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि । दोषगुणालंकारा. वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ क्वचित्तु स्फुटांलंकारविरहेपि न काव्यत्वहानि. । यथा (2) Facility in composition, arising from a careful study of—' objects,' i. e., of all kinds of objects, animate as well as inanimate ; of the sciences, such as prosody, grammar, lexicons, fine arts, the sciences dealing with the four ends of life, and the sciences dealing with the distinguishing qualities of elephants, horses and the various weapons of warfare , and of poems, the works of great poets. The word 'ādi' implies 'history' and the rest. (3) Frequent attempt at writing poetry, under the direction of men capable of writing and appreciating it. The above three conjointly, and not singly, constitute the source, and not the sources, of poetry. 3. Having thus stated the cause, the author next describes the nature or character of poetry : It consists in word and sense—without faults and with merits and excellences of style—which may at times be without Figures of Speech. (4)
CHAPTER I 5 यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्- ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ १ ॥ अत्र स्फुटो न कश्चिदलंकारः। रसस्य च प्राधान्यान्नालंकारता। तद्भेदान् क्रमेणाह— इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥४॥ The faults (grammatical and other mistakes), merits (mādhurya, etc.) and ornaments of speech (Upamā, etc.) will be described later on (chapters VII, VIII, IX and X) The words 'at times' mean that, while generally, poetry has some figure or other, yet, if in some case there be no figure directly expressed, that omission alone need not make the composition unpoetical. For instance— “ My husband is the same as when from me he stole my virginity ; these lovely Chaitra-nights are the same ; this breeze, too, comes, as of old from the Kadamba grove, laden with the fragrance of Mālatī blooms ; and I, too, am the same. Yet still my heart longs for Love’s dalliances amidst the citron-bowers of Revā’s banks.” In this verse, there is no explicit figure of speech The Rasa (erotic) being the primary element, there cannot be said to be a Figure (because, as the Pradīpa says, the Rasa is not in a subordinate position, and therefore, there is no Rasavadalaṅkāra , a Rasa is called a Figure only when it occupies a subordinate position ) 3 The author next states the divisions of poetry.
6 KĀVYAPRAKĀŚA इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोट- रूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जन- क्षमस्य शब्दार्थयुगलस्य । यथा— निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२॥ अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते ॥४॥ The poetry in which the suggested meaning dominates the expressed is poetry of the best kind, called 'Dhvani' by the learned—(4) By the learned—that is by the grammarians, that word is called Dhvani which suggests the sphota, which is all-important (inasmuch as it is through this sphota that a word conveys its meaning), others carry this theory of the grammarians farther still, and apply the word Dhvani not only to words, but also to sense, capable of suggesting meanings other than the directly expressed ones. As an instance of Dhvani, we have— "The sandal-paste has vanished from thy breast, its colour has fled from thy lip; thine eyes have lost their jetty fringing dye—and all thy slender frame is quivering with hair on end. Thus I learn, O false friend, that knowest not the approach of thy friend's sufferings, that thou hast been only to the tank to bathe and not to that mean wretch." Here the words 'mean wretch' suggest the real meaning 'thou hadst gone to dally in my lover's com- pany.' 4.
CHAPTER I 7 अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । अतादृशि वाच्यादनतिशायिनि । यथा-- ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ३ ॥ अत्र वञ्जुललतागृहे दत्तसंकेता न गतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ॥ शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ५ ॥ चित्रमिति गुणालंकारयुक्तम् । अव्यङ्ग्यमिति स्फुट- प्रतीयमानार्थरहितम् । अवरम् अधमम् । यथा-- स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्वुच्छटा- मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निका ह्नाय वः । When the suggested meaning is not dominant, as described above, the poetry is but of middle excellence, and is called the Poetry of Subordinate Suggestion—(5) Example.—“There is a cloud on the face of the young damsel at the sight of the country youth, with a bunch of fresh Vañjula flowers.” Here the suggested meaning—‘thou hadst promised to bear me company in the Vañjula-bower, but thou never didst go there,’ is subordinate to the more beautiful ex- pressed meaning ‘cloud on the face.’ Non-suggestive poetry, consisting of fanciful words and meanings, is of the inferior kind called ‘Fanciful’ by the learned.—(5) Fanciful—that, is possessing ‘merits’ and ‘figures,’ non-suggestive, i.e., devoid of any clearly suggested meaning, ‘inferior’—of the lowest kind. Example : svachhandochchhaladachchhakachchhakuharachchhātētarāmbuchchhatā mūrcchhanmohamaharṣiharṣavihitasnānāhnikāhnāya vaḥ ।
१. उल्लास २: शब्दार्थ-स्वरूप (अभिधा, लक्षणा, व्यञ्जना)
8 KĀVYAPRAKĀŚA भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम- द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ४ ॥ विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयापि यम् । ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥ ५ ॥ इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेष- निर्णयो नाम प्रथम उल्लासः ॥ १ ॥ bhidyādudyadudāradarduradarī dīrghādarīdradruma- drohodrekamahormimeduramada mandākinī mandatām ॥ “ May Gaṅgā, the divine, all your doubts and errors remove !—Gaṅgā, on whose sacred banks the happy Ṛṣis perform their daily rites who have their delusions washed away by the lovely sparkling of water dashing against the rocky bank-holes full of big frogs, whose pride is enhanced by the high waves rising on account of the wide-spreading trees having fallen in.” And again :—vinirgataṁ mānadamātmamandirād bhavatyupaśrutya yadṛchhayāpi yam । sasambhramendradrutapātitārgalā nimīlitākṣīva bhiyāmarāvatī ॥ (Full of fear as soon as Amarāvatī hears that he has moved beyond his palace-gates—the pride of all the Demon race—though it may be put for a pleasure stroll, her gates are barred up in all haste and hurry by agitated Indra and she wears the aspect of a maiden with closed eyes.) 5. Thus ends Chapter I, in which are determined the aim, source and nature of Poetry.
CHAPTER II 9 द्वितीय उल्लासः क्रमेण शब्दार्थयो स्वरूपमाह- स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा । अत्रेति काव्ये । एषां स्वरूपं वक्ष्यते ॥ वाच्यादयस्तदर्थाः स्युः वाच्यलक्ष्यव्यङ्ग्याः ॥ तात्पर्यार्थोऽपि केषुचित् ॥ ६ ॥ आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदा- र्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् ॥ वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः ॥६॥ CHAPTER II [ OF THE NATURE OF WORDS AND THEIR MEANINGS. ] The author describes, in due order, the nature of words and their sense :- Words here are of three kinds—the Expressive, the Indicative and the Suggestive. 'Here' in poetry,—the exact nature of these is going to be defined later on. The meanings thereof are the Expressed and so forth. That is, the Expressed, the Indicated and the Suggested. According to some, the Import also -- (6) The opinion held by the Abhihitānvayavādin Mīmām- sakas (the followers of Kumārila) is that when the denotations of a number of words—which are going to be described later on—become related together, through 'mutual requirement,' 'compatibility' and 'proximity,' there appears a resultant in the shape of the 'meaning of the sentence,'—which is not expressed by any single word constituting that sentence, and which, being, on that account, of a peculiar character, comes to be called by the name 'Tātparyārtha' or 'Import'. The Anvitābhidhānavādins (followers of Prabhākara) on the other hand, hold that the 'meaning of the sentence' is the expressed meaning of the words themselves.