किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 280, कुल 707 में से
संदर्भ में पढ़ें| २४ | किरातार्जुनीयम् |
|---|
विग्रहः— उष्णरश्मेः बिम्बः उष्णरश्मिबिम्बः। पिहितः उष्णरश्मिबिम्बो येन सः पिहितोष्णरश्मिबिम्बः। नगानामधिराजः=नगाधिराजः। विगलितः जलभारः येषां ते=विगलितजलभाराः, अतएव शुक्लभासः, तेषां=विगलितजलभारशुक्ल-भासाम्। अम्बु मुञ्चन्तीत्यम्बुमुचः, तेषामम्बुमुचाम्।
अर्थः— अथ=अनन्तरम्। तत्र=तस्मिन् पूर्वोक्ते यक्षे, इति=इत्थं। कथयति=भणति सति। नातिदूरात्=अनतिदूरात्। पिहितोष्णरश्मिबिम्बः=तिरोहितसूर्यबिम्बः। नगाधिराजः=हिमालयः। विगलितजलभारशुक्लभासाम्=त्यक्ताम्बुभारशुभ्रभासाम्। अम्बुमुचाम्=मेघानाम्। निचयः=समूह इव ददृशे=दृष्टः।
कोषः— ‘भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः’ इत्यमरः।
हिन्दी— इस प्रकार वार्तालाप करते हुए यक्ष ने निकट ही भगवान् भुवन-भास्कर के मण्डल को तिरोहित कर देनेवाले नगाधिराज हिमालय को देखा। यह हिमालय जलभार से रहित, शुभ्र कान्तिवाले बादलों के समूह के समान दिखलाई पड़ा॥ ३७॥
तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासाद्य जिष्णुः।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमघरवासो बिभ्रतः सीरपाणेः॥
अन्वयः— जिष्णुः अतनुवनराजिश्यामितोपत्यकान्तम् उपरि हिमानीगौरं तं नगम् आसाद्य व्यपगतमदरागस्य असितम् अधरवासः बिभ्रतः सीरपाणेः लक्ष्मीम् अनुसस्मार।
विग्रहः— अतनुभिः वनराजिभिः श्यामिताः उपत्यकान्ता यस्य तम् अतनुवनराजिश्यामितोपत्यकान्तम्। हिमानीवद् गौरस्तम्=हिमानीगौरम्। व्यपगतो मदरागो यस्य तस्य व्यपगतमदरागस्य। सीरः पाणौ यस्य तस्य=सीरपाणेः।
अर्थः— जिष्णुः=अर्जुनः। अतनुवनराजिश्यामितोपत्यकान्तम्=महद्वृक्षवीथिश्यामलासन्नभूमिप्रदेशम्। उपरि। हिमानीगौरम्=हिमसंघातशुभ्रम्। तं पूर्वोक्तम्। नगम्=पर्वतम् (हिमालयम्)। आसाद्य=प्राप्य। व्यपगतमदरागस्य=निवृत्तमदरागस्य। असितं=नीलम्। अधरवासः=उत्तरीयवस्त्रम्। बिभ्रतः=धारयतः। सीरपाणेः=हलायुधस्य। लक्ष्मीं=शोभाम्। अनुसस्मार=स्मृतवान्।
अत्र स्मरणालङ्कारः।