किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 308, कुल 707 में से
संदर्भ में पढ़ें| ५० | किरातार्जुनीयम् |
|---|
तया = हरिततृणोद्गमशङ्कया । पूर्वं लीढाः पश्चान्मुक्ताः = लीढमुक्ताः । नवाश्च ते शुकास्तद्वत्कोमलाः = नवशुककोमलाः । रवेः कराः = रविकराः तैः संवलिताः = रविकरसंवलिताः ।
अर्थः— इह = अस्मिन्नद्रौ । परिसरविषयेषु = पर्यन्तदेशेषु । मृगीभिः = हरिणीभिः । हरिततृणोद्गमशङ्कया = नवतृणाङ्कुरभ्रान्त्या । लीढमुक्ताः = आस्वादित्यक्ताः । नवशुककोमलाः = बालशुकमृदवः । मणीनां = मरकतमणीनाम् । भासः = प्रभाः । रविकरसंवलिताः = सूर्यकिरणमिश्रिताः । फलन्ति = वर्द्धन्ते । अत्र भ्रान्तिमदलङ्कारः ।
कोषः— ‘रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च’ इत्यमरः ।
हिन्दी— इस पर्वत पर आस-पास की भूमि पर मृगियों द्वारा हरी घास की शंका से चरने को मुँह डालकर, त्यागी हुई (घास न होने से), शुकवद् गहरे हरे रंग की मणियों की दीप्ति सूर्य की किरणों से मिश्रित होकर और भी बढ़ जाती है ॥ ५८ ॥
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्भूतः सरसिजसम्भवः परागः ।
वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥५९॥
अन्वयः— वात्याभिः अमुष्माद् उत्फुल्लस्थलनलिनीवनाद् उद्भूतः वियति समन्तात् विवर्तितः सरसिजसम्भवः परागः कनकमयातपत्रलक्ष्मीम् आधत्ते ।
विग्रहः— उत्फुल्लानां स्थलनलिनीनां वनम्, तस्मात् = उत्फुल्लस्थलनलिनीवनात् । सरसि जातानि = सरसिजानि, तेभ्यः सम्भवो यस्य सः = सरसिजसम्भवः । कनकमयम् आतपत्रम् = कनकमयातपत्रम् तस्य या लक्ष्मीस्ताम् = कनकमयातपत्रलक्ष्मीम् ।
अर्थः— (अस्मिन्नद्रौ) वात्याभिः = वातसमूहैः । अमुष्माद् = अस्मात् । उत्फुल्लस्थलनलिनीवनात् = फुल्लस्थलकमलिनीकाननात् । उद्भूतः = उत्थापितः । वियति = नभसि । समन्तात् = इतस्ततः । विवर्तितः = परिमण्डलितः । सरसिजसम्भवः = कमलजातः । परागः = केसरः । कनकमयातपत्रलक्ष्मीम् = सुवर्णमयच्छत्रशोभाम् । आधत्ते = दधाति । अत्र निदर्शनालङ्कारः ।
कोषः— ‘परागः सुमनोरजः’ इत्यमरः ।
हिन्दी— वायु के झकोरों से इस पर्वत पर खिले हुए स्थलनलिनी (गुलाब)