भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 344, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 344

८६ किरातार्जुनीयम्

अन्वयः— तत् कलासु कृतिभिः सचिवैः सहिताः उपेत्य तस्य तपः विघ्नयत । ननु हृतवीतरागमनसां वः सुखसङ्गिनं प्रति अवजितिः सुखा ।

विग्रहः— वीतरागाणां मनांसि = वीतरागमनांसि । हृतानि वीतरागमनांसि याभिस्तासां = हृतवीतरागमनासां । सुखाय सङ्गच्छते यस्तम् = सुखसङ्गिनम् ।

अर्थः— तत् = तस्मात् । कलासु = गीतवाद्यादिषु । कृतिभिः = कुशलैः । सचिवैः = गन्धर्वैः । सहिताः = युक्ताः । उपेत्य = गत्वा । तस्य = तपस्विनः । तपः = तपश्चरणम् । विघ्नयत = विघ्नवत्कुरुत । ननु = हे अप्सरसः ! हृतवीतरागमनसां = वशीकृतनिःस्पृहचेतसाम् । वः = युष्माकम् । सुखसङ्गिनम् प्रति = सुखाभिलाषिणं पुरुषं प्रति । अवजितिः = विजयः । सुखा = सुखसाध्या । न तु दुष्करेति । अत्रार्थान्तरन्यासोऽलंकारः ।

हिन्दी-- अतएव गीतवाद्यादिकलाकुशल गन्धर्वों के सहित आप उसके (तपस्वी के) पास जाकर तप में विघ्न करें । हे अप्सराओ ! निःस्पृह पुरुषों के चित्त को अपहरण करनेवाली तुम सब (अप्सराओं) के लिए सुखाभिलाषी पुरुष को जीतना सरल ही है ॥ ४३ ॥

अथ सुखसङ्गित्वलिङ्गमाह— अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥४४॥

अन्वयः— सः द्विषतां वधेन विषयाभिरतिम् अभिलष्यति एतत् अविमृष्यम् हि तथा स विधिः भववीतये न । शरासनं क्व, विमुक्तिपथः च क्व ।

विग्रहः— विषयेषु अभिरतिस्तां विषयाभिरतिम् । भवस्य वीतये = भववीतये । विमुक्तेः पथः = विमुक्तिपथः ।

अर्थः— सः = उपर्युक्तः । तपस्वी । द्विषतां = शत्रूणां । वधेन = नाशेन । विषयाभिरतिम् = विषयसुखम् । अभिलष्यति = वाञ्छति । एतत् = विषयासक्तत्वम् । अविमृष्यम् = अविचार्यम् । हि = यतः । तथा = पूर्वोक्तः । सः विधिः = सः अनुष्ठानप्रकारः । भववीतये = संसारमुक्तये । न नास्ति । शरासनं = धनुः क्व = कुत्र ? विमुक्तिपथः = मोक्षमार्गः च क्व ? द्वयं परस्परं विरुद्धमिति भावः ! अत्रार्थान्तरन्यासोऽलङ्कारः ।