किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 359, कुल 707 में से
संदर्भ में पढ़ेंसप्तमः सर्गः १०१
सा लग रहा था । अप्सराओं के शरीरों पर शोभित मणियों की प्रभाओं ने उस खण्डित इन्द्रधनुष को पूरा कर दिया ॥ १६ ॥
संसिद्धाविति करणीयसन्निबद्धै- रालापैः विपतिषतां विलंघ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥ १७ ॥
अन्वयः—संसिद्धौ इति करणीयसन्निबद्धैः आलापैः दशशतलोचन-ध्वजिन्या पिपतिषताम् वीथीम् विलंघ्य जीमूतैः अपिहितसानुः इन्द्रकोलः आसेदे ।
विग्रहः—कर्त्तुं योग्यं करणीयम्, तेन सन्निबद्धैः = करणीयसन्निबद्धैः । दशशतानि लोचनानि यस्य, तस्य या ध्वजिनी, तया दशशतलोचनध्वजिन्याः । पतितुमिच्छन्तीति तेषाम् = पिपतिषताम् । अपिहितानि सानूनि यस्य सः = अपिहितसानुः । जीवस्य मूतः येषां ते जीमूतैः ।
अर्थः—संसिद्धौ = कार्यसिद्धौ । इति = इत्थम् । करणीयसन्निबद्धैः = कर्त्तव्यसंयोजितैः । आलापैः = आभाषणैः । दशशतलोचनध्वजिन्या = इन्द्रसेनया । पिपतिषताम् = पक्षिणाम् । वीथीम् = मार्गम् । विलंघ्य = उल्लंघ्य । जीमूतैः = उदकपटलवन्धैः मेघैः । अपिहितसानुः = आच्छादितशिखरः । इन्द्रकोलः = तदाख्यः पर्वतः । आसेदे = प्राप्तः ।
कोषः—‘स्यादाभाषणमालापः’ इत्यमरः । ‘वित्सन्तो नभसंगमाः’ इत्यमरः ।
हिन्दी—कार्य-सिद्धि के लिये क्या करना चाहिये और कैसे करना चाहिए ? इस प्रकार कर्त्तव्य-सम्बन्धी आलापों को करती हुई देवराज इन्द्र की सेना ने पक्षियों के मार्ग को पार कर बादलों से आच्छन्न शिखरों वाले इन्द्रकील पर्वत को प्राप्त किया ॥ १७ ॥
आकीर्णा मुखनलिनैर्विलासिनीनामुद्धूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ १८ ॥
अन्वयः—विलासिनीना मुखनालनैः उद्धूतस्फुटविशदातपत्रफेना तूर्यध्वनितगभीरम् भूभर्तुः शिरसि आपतन्ती सा नभोनदी इव रेजे ।
विग्रहः—मुखानि नलिनानीव तैः = मुखनलिनैः । उद्धृतानि स्फुटानि