किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 360, कुल 707 में से
संदर्भ में पढ़ेंविशदानि आतपत्राणि फेना इव यस्याः सा = उद्धूतस्फुटविशदातपत्रफेना। तूर्याणां ध्वनितानि, तैः गभीरम् = तूर्यध्वनिगभीरम्। भुवः भर्त्ता तस्य = भूभर्तुः। नभसो नदी = नभोनदी।
अर्थः—विलासिनीनाम् = सुन्दरीणाम्। मुखनलिनैः = मुखकमलैः। आकीर्णा = व्याप्ता। उद्धूतस्फुटविशदातपत्रफेना = ऊर्ध्वोत्क्षिप्तविकसितशुभ्रच्छत्रफेना। तूर्यध्वनितगभीरम् = वाद्यघोषगभीरम्। भूभर्तुः = इन्द्रकीलस्य। शिरसि = मूर्ध्नि। आपतन्ती = पतन्ती। सा = सेना। नभोनदी इव = आकाशगंगेव। रेजे = शुशुभे।
कोषः—'हेमं छत्रं स्वातपत्रम्' इत्यमरः।
हिन्दी—सुर-सुन्दरियों के कमलमुखों से व्याप्त सुरसेना की उड़ती हुई खुली छतरियां फेन के समान शुभ्र थीं। सेना में रणवाद्यों के गभीर घोष हो रहे थे। इस प्रकार इन्द्रकील पर्वत के ऊपर वह सेना आकाशगंगा के समान शोभित हो रही थी ॥ १८ ॥
सेतुत्वं दधति पयोमुचां विताने
संरम्भादभिपततो रथाञ्जवेन।
आनिन्युर्नियमितरश्मिभुग्नघोणाः
कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥ १९ ॥
अन्वयः—पयोमुचां विताने सेतुत्वं दधति संरम्भात् जवेन अभिपततः रथान् नियमितरश्मिभुग्नघोणाः अवनामिनः तुरंगाः कृच्छ्रेण क्षितिम् आनिन्युः।
विग्रहः—पयांसि मुञ्चन्तीति, तेषाम् = पयोमुचाम्। नियमितैः रश्मिभिः भुग्ना घोणाः येषां तैः = नियमितरश्मिभुग्नघोणाः। अवनमन्तीत्यवनामिनः।
अर्थः—पयोमुचाम् = मेघानाम्। विताने = विस्तारे। सेतुत्वम् = सेतुरूपत्वम्। दधति = धारयति सति। संरम्भात् = आटोपात्। जवेन = वेगेन। अभिपततः = पततः। रथान् = रथयानान्। नियमितरश्मिभुग्नघोणाः = आकृष्टप्रग्रहाकुञ्चितप्रोथाः। अवनामिनः = अवनताङ्गाः, तुरङ्गाः = अश्वाः। कृच्छ्रेण = महता प्रयत्नेन। क्षितिम् = भूमिम्। आनिन्युः = आनीतवन्तः। अत्र स्वभावोक्तिरलंकारः।
कोषः—'आविद्धं कुटिलं भुग्नं वेल्लितम् वक्रम्' इत्यमरः, 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः।