भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

विशदानि आतपत्राणि फेना इव यस्याः सा = उद्धूतस्फुटविशदातपत्रफेना। तूर्याणां ध्वनितानि, तैः गभीरम् = तूर्यध्वनिगभीरम्। भुवः भर्त्ता तस्य = भूभर्तुः। नभसो नदी = नभोनदी।

अर्थः—विलासिनीनाम् = सुन्दरीणाम्। मुखनलिनैः = मुखकमलैः। आकीर्णा = व्याप्ता। उद्धूतस्फुटविशदातपत्रफेना = ऊर्ध्वोत्क्षिप्तविकसितशुभ्रच्छत्रफेना। तूर्यध्वनितगभीरम् = वाद्यघोषगभीरम्। भूभर्तुः = इन्द्रकीलस्य। शिरसि = मूर्ध्नि। आपतन्ती = पतन्ती। सा = सेना। नभोनदी इव = आकाशगंगेव। रेजे = शुशुभे।

कोषः—'हेमं छत्रं स्वातपत्रम्' इत्यमरः।

हिन्दी—सुर-सुन्दरियों के कमलमुखों से व्याप्त सुरसेना की उड़ती हुई खुली छतरियां फेन के समान शुभ्र थीं। सेना में रणवाद्यों के गभीर घोष हो रहे थे। इस प्रकार इन्द्रकील पर्वत के ऊपर वह सेना आकाशगंगा के समान शोभित हो रही थी ॥ १८ ॥

सेतुत्वं दधति पयोमुचां विताने
संरम्भादभिपततो रथाञ्जवेन।
आनिन्युर्नियमितरश्मिभुग्नघोणाः
कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥ १९ ॥

अन्वयः—पयोमुचां विताने सेतुत्वं दधति संरम्भात् जवेन अभिपततः रथान् नियमितरश्मिभुग्नघोणाः अवनामिनः तुरंगाः कृच्छ्रेण क्षितिम् आनिन्युः।

विग्रहः—पयांसि मुञ्चन्तीति, तेषाम् = पयोमुचाम्। नियमितैः रश्मिभिः भुग्ना घोणाः येषां तैः = नियमितरश्मिभुग्नघोणाः। अवनमन्तीत्यवनामिनः।

अर्थः—पयोमुचाम् = मेघानाम्। विताने = विस्तारे। सेतुत्वम् = सेतुरूपत्वम्। दधति = धारयति सति। संरम्भात् = आटोपात्। जवेन = वेगेन। अभिपततः = पततः। रथान् = रथयानान्। नियमितरश्मिभुग्नघोणाः = आकृष्टप्रग्रहाकुञ्चितप्रोथाः। अवनामिनः = अवनताङ्गाः, तुरङ्गाः = अश्वाः। कृच्छ्रेण = महता प्रयत्नेन। क्षितिम् = भूमिम्। आनिन्युः = आनीतवन्तः। अत्र स्वभावोक्तिरलंकारः।

कोषः—'आविद्धं कुटिलं भुग्नं वेल्लितम् वक्रम्' इत्यमरः, 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः।

सप्तमः सर्गः १०३

हिन्दी—रथों में जुते हुए वे घोड़े आकाश से इन्द्रकील पर्वत तक पुल के समान बने हुए घनपटल से ढालू होने के कारण शीघ्रता से उतरते हुए बड़ी कठिनता से रथों को पृथ्वी पर पहुँचा सके। रस्सियों के खिचाव के कारण उन घोड़ों के नथुने टेढ़े पड़ गये थे और अंगों के अग्रभाग से रथ खींचने के कारण उनके शरीर भी झुके हुए थे ॥ १९ ॥

माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ॥ २० ॥

अन्वयः—माहेन्द्रं नगम् अभितः दिवः पतन्तः पर्यन्तस्थितजलदाः करेणुवर्याः निलयननिष्प्रकम्पपक्षैः जलनिधिशायिभिः नगेन्द्रैः सादृश्यम् आजग्मुः ।

विग्रहः—महेन्द्रस्यायं माहेन्द्रस्तम् = माहेन्द्रम्। पर्यन्तस्थिताः जलदाः येषां ते = पर्यन्तस्थितजलदाः। करेणुषु वर्याः = करेणुवर्याः। निष्प्रकम्पा पक्षाः येषां तैः = निष्प्रकम्पपक्षैः, निलयने निष्प्रकम्पपक्षैरिति = निलयननिष्प्रकम्पपक्षैः। जलनिधौ शेरते इति तैः = जलनिधिशायिभिः। नगानामिन्द्रास्तैः = नगेन्द्रैः ।

अर्थः—माहेन्द्रम् नगम् = इन्द्रकीलपर्वतम्। अभितः = परितः। दिवः = अन्तरिक्षात्। पतन्तः = निपन्तन्तः। पर्यन्तस्थितजलदाः = पार्श्वस्थितधनाः। करेणुवर्याः = श्रेष्ठगजाः। निलयननिष्प्रकम्पक्षैः = स्थाने निश्चलपत्रैः। जलनिधिशायिभिः = समुद्रनिलीनैः। नगेन्द्रैः = मैनाकादिपर्वतः। सादृश्यम् = साम्यम्। आजग्मुः = प्रापुः। अत्रोपमालङ्कारः।

कोषः—‘हेमकूटयो नगाः’ इत्यमरः।

हिन्दीः—इन्द्रकील पर्वत पर चारो ओर से उतरते हुए वे देवताओं के हाथी जिनके दोनों पावों में बादल चिपके हुए से दिखलाई दे रहे थे, समुद्र में शयन करने वाले पंखयुक्त पर्वतों में (नाकादि) के समान मालूम होते थे जिनके पंख अपने स्थानों पर चिपके हुए से स्थिर थे ॥ २० ॥

उत्संगे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आमूलादुपमदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥२१॥

अन्वयः—महाद्रेः उत्संगे समविषमे वियदभिपातलाघवेन समम् क्रान्तानां तुरङ्गमाणाम् खुरपदवी उपनदी सैकतेषु आमूलात् सामग्री लेभे।

१०४ | किरातार्जुननीयम्

विग्रहः— महांश्चासावद्रिस्तस्य महाद्रेः। समं च विषमं च, तयोः समाहारः, तस्मिन् = समविषमे। अभिपतनमभिपातस्तस्य लाघवम् = अभिपतनलाघवम्। वियति अभिपतनलाघवं तेन वियदभिपतनलाघवेन। खुराणां पदवी = खुरपदवी। नद्यः समीपे = उपनदि। सिकता सन्त्येषु तेषु = सैकतेषु। समग्रस्य भावः = सामग्री।

अर्थः— महाद्रेः नगराजस्य। उत्सङ्गे = क्रोडे, मूर्ध्नि वा। समविषमे = निम्नोन्नते। वियदभिपातलाघवेन = गगनसंचारपाटवेन। समम् = एकरूपम्। क्रान्तानाम् = गच्छताम्। तुरङ्गमाणाम् = अश्वानाम्। खुरपदवी = खुरपंक्तिः। उपनदि = नदीसमीपे। सैकतेषु = पुलिनेषु। आमूलात् = मूलमारभ्य। सामग्री = साकल्यम्। लेभे = प्राप।

कोषः— 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः।

हिन्दी— उस महान् इन्द्रकील के ऊबड़-खाबड़ शिखर पर पहुँच कर वे घोड़े आकाशमार्ग से चलने में सुविधा के कारण शीघ्रता से सुरनदी तट पर पहुँच गये। सुरनदी के रेतीले तट ऊबड़-खाबड़ विषम थे अतः तट पर घोड़ों के खुर आदि से अन्त तक नहीं दिखलाई दे रहे थे ॥ २१ ॥

सध्वानं निपतितनिर्झरासु मन्द्रैः सम्मूर्च्छत्प्रतिनिनदैरधित्यकासु। उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥ २२ ॥

अन्वयः— सध्वानं निपतितनिर्झरासु अधित्यकासु मन्द्रैः प्रतिनिनदैः सम्मूर्च्छन् रथानां ध्वनिः घनरवशङ्कया उद्ग्रीवैः मयूरैः सोत्कण्ठम् उपशुश्रुवे।

विग्रहः— ध्वननं ध्वानस्तेन सहितम् = सध्वानम्। निपतिताः निर्झराः यासु, तासु = निपतितनिर्झरासु। निनदैः = प्रतिनिनदैः। घनानां रवः, तस्य शङ्का तया = घनरवशङ्कया। उद् ऊर्ध्वं ग्रीवा = उद्ग्रीवैः। उत्कण्ठया सहितं सोत्कण्ठम्।

अर्थः— सध्वानम् = सशब्दम्। निपतितनिर्झरासु = पतितप्रवाहासु। अधित्यकासु = पर्वतोच्चभूमिषु। मन्द्रैः = गम्भीरैः। प्रतिनिनदैः = प्रतिध्वनिभिः। सम्मूर्च्छन् = वर्धमानः। रथानाम् = देवाङ्गनारथयानानाम्। ध्वनिः = शब्दः।

सप्तमः सर्गः १०५

घनरवशङ्कया = मेघगर्जितभ्रान्त्या । उद्ग्रीवैः = कृतोच्चग्रीवैः । मयूरैः = केकिभिः । सोत्कण्ठम् = उत्कण्ठया सहितम् । उपशुश्रुवे = उपश्रुतः । अत्र भ्रान्तिमदलंकारः ।

कोषः—'प्रवाहो निर्झरो झरः' इत्यमरः । 'भूमिरूर्ध्वमभित्यका' इत्यमरः । 'मन्द्रस्तु गम्भीर' इत्यमरः ।

हिन्दी—कल कल निनाद करते हुए झरनों से युक्त, पर्वत की ऊँची भूमि पर गम्भीर प्रतिध्वनि से बढ़ती हुई रथों की ध्वनि को घन-गर्जन की शंका से मयूरों ने गर्दन ऊपर उठा-उठाकर बड़ी उत्कण्ठा से सुना ॥ २२ ॥

सम्भिन्नमविरलपातिभिर्मयूखै-
र्नीलानां भृशमुपमेखलं मणीनाम् ।
विच्छिन्नामिव वनिता नभोऽन्तराले
वप्राम्भःस्रुतिमवलोकयाम्बभूवुः ॥ २३ ॥

अन्वयः—अविरलपातिभिः उपमेखलं नीलानां मणीनां मयूखैः भृशं सम्भिन्नां नभोऽन्तराले विच्छिन्नाम् इव वप्राम्भःस्रुतिम् वनिताः अवलोकयाम्बभूवुः ।

विग्रहः—अविरलं पतन्तीति तैरविरलपातिभिः । मेखलानां निकटे = उपमेखलम् । नभसः अन्तराले = नभोऽन्तराले । वप्राणामम्भांसि तेषां स्रुतिस्ताम् = वप्राम्भःस्रुतिम् ।

अर्थः—अविरलपातिभिः = निरन्तरप्रसारिभिः । उपमेखलं = तटेषु । नीलानाम् = असितानाम् । मणीनाम् = विद्रुमादीनाम् । मयूखैः = किरणैः । भृशम् = महत् । सम्भिन्नाम् = एकीभूताम् । नभोऽन्तराले = वियदन्तराले । विच्छिन्नाम् = प्रच्छन्नाम् । इव । वप्राम्भःस्रुतिं = वप्रोदकधाराम् । वनिताः = अप्सरसः । अवलोकयाम्बभूवुः = अवलोकयामासुः । अत्र सङ्करालङ्कारः ।

कोषः—'श्रोणिस्थानेऽद्रिकटके कटिबन्धेऽसिबन्धने' इति यादवः ।

हिन्दी—सुरसुन्दरियों ने ऊपर से नीचे की ओर अविरल गति से बहते हुए झरनों को देखा कि वे आकाश के अन्तराल में अदृश्य से दिखाई पड़ने लगे क्योंकि इन्द्रकील पर्वत के निचले भाग में नीलमणियों की किरणें बराबर निकल रहीं थीं अतः झरनों का प्रवाह भी नीला-सा लग रहा था ॥ २३ ॥

१०६ | किरातार्जुनीयम्

आसन्नद्विपपदवीमदानिलाय
क्रुध्यन्तो धियमवमत्य धूर्गतानाम्।
सव्याजं निजकरिणीभिरात्तचित्ताः
प्रस्थानं सुरकरिणः कथञ्चिदीषुः ॥ २४ ॥

अन्वयः—धूर्गतानां धियम् अवमत्य आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तः सव्याजं निजकरिणीभिः आत्तचित्ताः सुरकरिणः प्रस्थानं कथंचिद् ईषुः।

विग्रहः—धुरं गतास्तेषां = धूर्गतानाम्। आसन्नायां द्विपपदव्यां यो मदानिलस्तस्मै = आसन्नद्विपपदवीमदानिलाय। व्याजेन सहितं = सव्याजम्। निजैः करिणीभिः = निजकरिणीभिः। आत्तानि चित्तानि येषां ते = आत्तचित्ताः। सुराणां करिणः = सुरकरिणः।

अर्थः—धूर्गतानाम् = नियन्तृणाम्। धियम् = बुद्धिम्, वाज्ञामित्यर्थः। अवमत्य = तिरस्कृत्य। आसन्नद्विपपदवीमदानिलाय = आसन्नवनगजमार्गमदपवनाय। क्रुध्यन्तः = कुप्यन्तः। सव्याजम् = सकपटम्। निजकरिणीभिः = स्वेभीभिः। आत्तचित्ताः = आकृष्टचित्ताः। सुरकरिणः = देवगजाः। प्रस्थानम् = गमनम्। कथञ्चित् = कष्टेन। ईषुः = अभिलेषुः।
कोषः—'कुञ्जरो वारणः करी' इत्यमरः।

हिन्दी—अपने महावतों की आज्ञा का उल्लंघन कर निकटवर्त्ती किसी दूसरे जङ्गली हाथी की मदगन्ध को सूँघने से कुपित बने हुए वे सुरगज, अपनी हथिनियों द्वारा बहाना करके चित्त आकृष्ट हो जाने पर जैसे तैसे आगे बढ़ सके ॥


नीरन्ध्रं पथिषु रजो रथाङ्गुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नु्कन्या ॥ २५ ॥

अन्वयः—नीरन्ध्रं पथिषु रथाङ्गुन्नं पर्यस्यन्नवसलिलारुणं रजः वहन्ती सा वाहिनी घर्मान्तक्षुभितजला जह्नु्कन्या इव वनगहनानि आतेने।

विग्रहः—निर्गतं रन्ध्रम् यस्मात् तत् = नीरन्ध्रम्। रथानामङ्गानि तैः नुन्नं = रथाङ्गुन्नम्। नवं सलिलं = नवसलिलम्। पर्यस्यत् नवसलिलमिव अरुणम् = पर्यस्यन्नवसलिलारुणम्। घर्मस्यान्ते = घर्मान्ते क्षुभितं जलं यस्याः सा = घर्मान्तक्षुभितजला। जह्नोः कन्या = जह्नु्कन्या। वनानि च तानि गहनानि = वनगहनानि।

सप्तमः सर्गः १०७

**अर्थः-**नीरन्ध्रम् = सान्द्रम् । पथिषु = मार्गेषु । रथाङ्गतुन्नम् = चक्रप्रेरितम् । पर्यस्यन्नवसलिलारुणम् = प्रसर्पन्नूतनजलारुणम् । रजः = धूलिम् । वहन्ती = प्रापयन्ती । सा = पूर्वोक्ता । वाहिनी = सुरसेना । घर्मान्तक्षुभितजला = प्रावृष्याकुलितनीरा । जह्नु कन्या = जाह्नवी गङ्गा । इव । वनगहनानि = जीर्णकाननानि । आतेने = व्यानशे । अत्र सङ्करालङ्कारः ।

कोषः—'नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः' इत्यमरः ।

**हिन्दी—**मार्ग में रथचक्रों से उड़ाई हुई तथा बहते हुए नूतन जल के समान अरुण वर्ण की घनी धूल से व्याप्त वह देवताओं की सेना वर्षा ऋतु में उमड़ते हुए जलवाली गङ्गा के समान, घने जङ्गलों में चारो ओर फैल गई ॥ २५ ॥

सम्भोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥२६॥

**अन्वयः—**अथ वृत्रारेः सहायाः उपगङ्गम् सम्भोगक्षमगहनाम् ज्वलितमणीनि सैकतानि बिभ्राणां च्युतकुसुमाचिताम् अविरलशाद्वलाम् धरित्रीम् अध्यूषुः ।

**विग्रहः—**वृत्रस्यारिस्तस्य = वृत्रारेः । गङ्गायाः समीपे = उपगङ्गम् । सम्भोगाय क्षमा गहना च ताम् = सम्भोगक्षमगहनाम् । ज्वलिताः मणयः येषु तानि = ज्वलितमणीनि । च्युतैः कुसुमैः आचिता ताम् = च्युतकुसुमाचिताम् । अविरलाः शाद्वलाः यस्यां सा ताम् = अविरलशाद्वलाम् ।

**अर्थः—**अथ = अनन्तरम् । वृत्रारे = इन्द्रस्य । सहायाः = गन्धर्वाः । उपगङ्गम् = गङ्गासमीपे । सम्भोगक्षमगहनाम् = उपभोगयोग्यवनाम् । ज्वलितमणीनि = दीप्तमणियुक्तानि । सैकतानि = पुलिनानि । बिभ्राणाम् = धारयन्तीम् । च्युतकुसुमाचिताम् = स्वयंपतितपुष्पव्याप्ताम् । अविरलशाद्वलाम् = सान्द्रशाद्वलप्रदेशाम् । धरित्रीम् = भूमिम् । अध्यूषुः = अधितस्थुः । अत्र काव्यलिङ्गमलङ्कारः ।

कोषः—'शाद्वलः शादहरिते' इत्यमरः ।

**हिन्दी—**इसके बाद इन्द्रदेव के सहायक गन्धर्व गंगा नदी के निकट रमणीक घने जंगलों से युक्त, घनी घास से हरी-भरी बनी हुई स्थली पर ठहर गये जहाँ चमकती हुए मणियों से युक्त बहुत से रेतीले प्रदेश थे और वृक्षों से स्वयं गिरे हुए फूल बिखरे थे ॥ २६ ॥

१०८ | किरातार्जुनीयम्

भूभर्त्तुः समधिकमादधे तदोर्व्याः
श्रीमत्तां हरिसखवाहिनीनिवेशः।
संसक्तौ किमसुलभं महोदयाना-
मुच्छ्रायं नयति यदृच्छयापि योगः ॥ २७ ॥

अन्वयः—तदा हरिसखवाहिनीनिवेशः भूभर्त्तुः समधिकम् श्रीमत्ताम् आदधे। महोदयानां संसक्तौ किम् असुलभम्। यदृच्छया योगः अपि उच्छ्रायम् नयति।

विग्रहः—हरेः सखा = हरिसखा, तस्य या वाहिनी, तस्यः निवेशः = हरिसखवाहिनीनिवेशः। महान्तः उदयाः येषां तेषां = महोदयानाम्। न सुलभम् = असुलभम्।

अर्थः—तदा = तस्मिन् काले। हरिसखवाहिनीनिवेशः = गन्धर्वसेनाशिविरम्। भूभर्त्तुः = पर्वतस्य। उर्व्याः = भूमेः। समधिकम् = पूर्वस्मादधिकम्। श्रीमत्ताम = श्रियम्। आदधे = जनयामास। महोदयानाम् = महताम्। संसक्तौ = सम्यक्सम्बन्धे। किम् असुलभम् = नास्ति किमपि दुर्लभम्। यदृच्छया = दैवात्। योगः = सम्पर्कः। अपि। उच्छ्रायम् = उन्नतत्वम्। नयति = प्रापयति। अत्रार्थापत्तिरलङ्कारः।

कोषः—'निवेशः शिविरोद्वाहविन्यासेषु प्रकीर्तितः' इति शाश्वतः।

हिन्दी—उस समय गन्धर्व सेना द्वारा बनाया गया सैन्य-शिविर इन्द्रकील पर्वत की भूमि की सर्वोत्तम शोभा को उत्पन्न कर रहा था क्योंकि महान् पुरुषों का सम्यक् सम्बन्ध होने पर कुछ भी दुर्लभ नहीं होता है तथा (सज्जनों का) दैवयोग से प्राप्त सम्पर्क भी उन्नति ही करता है ॥ २७ ॥


सामोदाः कुसुमतरोर्धियो विविक्ताः
सम्पत्तिः किसलयशालिनीलतानाम्।
साफल्यं ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ २८ ॥

अन्वयः—सामोदाः कुसुमतरोर्धियः, विविक्ताः किसलयशालिनीलतानाम्

सप्तमः सर्गः १०९

सप्तमः सर्गः १०९

सम्पत्तिः, अमराङ्गानोपभुक्ताः साफल्यम् ययुः । यया परेषां उपकुरुते सा लक्ष्मीः ।

विग्रहः—मोदेन सहिताः = सामोदाः । कुसुमतक्ष्णाम् श्रियः = कुसुमतहरुश्रियः । किसलयशालिन्यः लताः, तासाम् = किसलयशालिनीलतानाम् । अमराणामङ्गनास्ताभिः उपभुक्ताः = अमराङ्गानोपभुक्ताः ।

अर्थः—सामोदाः = ससौरभाः । कुसुमतहरुश्रियः = पुष्पवृक्षशोभाः । विविक्ताः = विजनप्रदेशाः । किसलयशालिनीलतानाम् = नवपल्लवयुक्तवल्लीनाम् । सम्पत्तिः = समृद्धिः । अमराङ्गानोप्भुक्ताः = देवाङ्गानोपभुक्ताः सत्यः । साफल्यम् = सफलताम् । ययुः = अगमुः । यया = लक्ष्म्या । परेषाम् = अन्येषाम् । उपकुरुते = उपकारो विधीयते । सा = सैव । लक्ष्मीः । नान्या इत्यर्थः ।

कोषः—'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः ।

हिन्दी—सौरभसम्पन्न, फूलोंवाले वृक्षों की शोभा, विजन-प्रदेश तथा नूतन पल्लवयुक्त लताओं की सम्पत्ति, ये सब वस्तुएँ देवाङ्गनाओं के द्वारा उपयुक्त होने पर सफल हो गईं । परोपकार में काम आनेवाली लक्ष्मी ही वास्तविक लक्ष्मी होती है ॥ २८ ॥

क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता-
ल्लीनाहिश्वसितविलोलपल्लवानाम् ।
सेव्यानां हतविनयैरिवावृतानां
सम्पर्कं परिहरति स्म चन्दनानाम् ॥ २९ ॥

अन्वयः—क्लान्तः अपि त्रिदशवधूजनः पुरस्तात् लीनाहिश्वसितविलोलपल्लवानाम् चन्दनानां सम्पर्कं हतविनयैः आवृतानाम् सेव्यानाम् इव परिहरतिस्म ।

विग्रहः—त्रिदशानां वधूजनः = त्रिदशवधूजनः । लीनानाम् अहीनाम् श्वसितानि, तैः विलोलाः पल्लवाः येषां तेषाम् = लीनाहिश्वसितविलोलपल्लवानाम् । हतः विनयः यैस्तैः = हतविनयैः ।

अर्थः—क्लान्तः = श्रान्तः । अपि । त्रिदशवधूजनः = देवाङ्गनालोकः । पुरस्तात् = अग्रे । लीनाहिश्वसितविलोलपल्लवानाम् = संश्रितसर्पनिःश्वासलोलदलानाम् । चन्दनानाम् = चन्दनवृक्षाणाम् । सम्पर्कम् = योगम् । हतविनयैः=

११० किरातार्जुनीयम्

दुर्जनैः। आवृतानाम् = परिवृतानाम्। सेव्यानाम् = प्रभूणाम्। इव = समम्। परिहरति स्म = त्यजति स्म।

कोषः—'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।' इत्यमरः।

हिन्दी—मार्ग में चलने से थकी होकर भी वे अप्सरायें सामने पड़नेवाले, छिपे हुए सर्पों की फुफकार से हिलते हुए पत्तों वाले चन्दन वृक्षों को छोड़ देती थीं अर्थात् सेव्य होकर भी वे चन्दन पादपों के नीचे विश्राम नहीं कर रही थीं। यथा—दुष्टों के साथ-साथ रहने के कारण लोग सज्जनों को भी छोड़ बैठते हैं॥ २९॥

उत्सृष्टध्वजकुथकङ्कटा धरित्री मानीता विदितनयैः श्रमं विनेतुम्। आक्षिप्तद्रुमगहना युगान्तवातैः पर्य्यस्ता गिरय इव द्विपा विरेजुः॥ ३०॥

अन्वयः—उत्सृष्टध्वजकुथकङ्कटाः विदितनयैः श्रमं विनेतुं धरित्रीम् आनीताः द्विपाः युगान्तवातैः आक्षिप्तद्रुमगहनाः पर्य्यस्ताः गिरयः इव विरेजुः।

विग्रहः—उत्सृष्टाः ध्वजाः कुथाः कङ्कटाश्च येभ्यस्ते=उत्सृष्टध्वजकुथकङ्कटाः। विदितो नयः यैस्तैः = विदितनयैः। युगान्ताय वाताः इव वातास्तैः = युगान्तवातैः। द्रुमाणां गहनानि = द्रुमगहनानि, आक्षिप्तानि द्रुमगहनानि येभ्यस्ते आक्षिप्तद्रुमगहनाः।

अर्थः—उत्सृष्टध्वजकुथकङ्कटाः = आक्षिप्तध्वजास्तरणतनुत्राः। विदितनयैः = शिक्षाभिज्ञैः यन्तृभिः। श्रमम् = क्लमम्। विनेतुम् = अपनेतुम्। धरित्रीम् = पृथ्वीम्। आनीताः = निवेश्यमानाः। द्विपाः=गजाः। युगान्तवातैः = प्रलयङ्करपवनैः। आक्षिप्तद्रुमगहनाः = उद्धृतवृक्षकाननाः। पर्यस्ताः = विपर्य्यासिताः। गिरय इव = पर्वता इव। विरेजुः = शुशुभिरे।

कोषः—'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः।

हिन्दी—गजचालन में कुशल महावतों ने हाथियों की थकावट दूर करने के लिए उन पर से ध्वजा, झूल तथा कवचों को उतार कर भूमि पर रख दिया। अब वे हाथी इधर-उधर बैठे हुए उसी प्रकार से शोभित हुए जैसे कि आँधी में उखड़े हुए विशाल वृक्ष और पहाड़ शोभित होते हैं॥ ३०॥

प्रस्थानश्रमजनितां विहाय निद्रा- मामुक्ते गजपतिना सदानपङ्के।

सप्तमः सर्गः १११

शय्यान्ते कुलमलिनां क्षणं विलीनं
संरम्भच्युतमिव शृङ्खलं चकाशे ॥ ३१ ॥

अन्वयः—गजपतिना प्रस्थानश्रमजनितां निद्रां विहाय आमुक्ते सदानपंके शय्यान्ते क्षणं विलीनम् अलिनां कुलं संरम्भच्युतम् शृङ्खलम् इव चकार ।

विग्रहः—गजानां पतिस्तेन = गजपतिना । प्रस्थानश्रमेण जनितान् = प्रस्थानश्रमजनितान् । दानेन जातं पङ्कम् = दानपङ्कम् । दानपङ्केन सहितं, तस्मिन् = सदानपङ्के । शय्यायाः अन्ते = शय्यान्ते । संरम्भेण च्युतम् = संरम्भच्युतम् ।

अर्थः—गजपतिना = गजेन्द्रेण । प्रस्थानश्रमजनिताम् = यात्राक्लमोत्पन्नाम् । निद्राम् = स्वापम् । विहाय = त्यक्त्वा । आमुक्ते = विमुक्ते । सदानपंके = गजमदयुक्ते । शय्यान्ते = शयनीयप्रदेशे । क्षणम् = मुहूर्त्तम् । विलीनम् = लीनम् । अलिनाम् = भ्रमराणाम् । कुलम् = समूहम् । संरम्भच्युतम् = उत्थानसम्भ्रमभ्रष्टम् । शृङ्खलम् = निगडम् । इव । चकाशे = शुशुभे । अत्रोत्प्रेक्षालङ्कारः ।

कोषः—'अथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः ।

हिन्दी—सेना के किसी गजराज को मार्ग में थक जाने के कारण नींद आ गई थी । अतः वह नींद को छोड़कर मदजल से उत्पन्न कीचड़ वाले शयनीय स्थान से सहसा उठ खड़ा हुआ । मद-गन्ध के कारण मद की कीचड़ पर भौंरे मँडरा रहे थे । हाथी के सहसा उठने पर वे भौंरे उसकी टूट कर गिरी हुई सांकल के समान शोभित हुए ॥ ३१ ॥

आयस्तः सुरसरिदोघरुद्धवर्त्मा
सम्प्राप्तुं वनगजदानगन्धिरोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्
यन्तारं न विगणयाञ्चकार नागः ॥ ३२ ॥

अन्वयः—वनगजदानगन्धिरोधः सम्प्राप्तुम् आयस्तः सुरसरिदोघरुद्धवर्त्मा नागः निहितशिताङ्कुशम् मूर्धानं विधुन्वन् यन्तारं न विगणयांचकार ।

विग्रहः—वनस्य गजस्य दानं = वनगजदानम्, तस्य गन्धोऽस्यास्तीति रोषः यस्य सः = वनगजदानगन्धिरोधः । सुराणाम् सरित् = सुरसरित् तस्याः ओघेन

११२किरातार्जुनीयम्

रुद्धम् वर्त्म यस्य सः = सुरसरिदोघरुद्धवर्त्मा। निहितः शितः अङ्कुशो यस्मिन्, तम् = निहितशिताङ्कुशम्।

अर्थः— वनगजदानगन्धरोधः = वनकरिमदगन्धिरोधः, परकूलम् इत्यर्थः। सम्प्राप्तुम् = गन्तुम्। आयस्तः = उत्सुकः। सुरसरिदोघरुद्धवर्त्मा = गङ्गाप्रवाह-रुद्धमार्गः। नागः = गजः। विहितशितांकुशम् = दत्ततीक्ष्णसृणिम्। मूर्धानं = मस्तकम्। विधुन्वन् = कम्पयन्, रोषादिति भावः। यन्तारम् = हस्तिपकम्। न विगणयाञ्चकार = न विगणयामास।

कोषः— 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्'। इत्यमरः।

हिन्दी— दूसरा हाथी गङ्गा के विशाल तट को जो कि जंगली हाथियों के मदजल से सुगन्धित था, पहुँचने के लिए उत्सुक हो रहा था। परन्तु गङ्गा के प्रवाह के कारण उसका मार्ग रुका हुआ था, अतएव महावत के द्वारा तीक्ष्ण अंकुश मारने पर वह केवल अपना शिर हिलाकर महावत की बात न मानना प्रकट कर रहा था॥ ३२॥


आरोढुः समवनतस्य पीतशेषे साशङ्कम् पयसि समीरिते करेण।
सम्मार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः॥ ३३॥

अन्वयः— समवनतस्य करेणोः करेण पीतशेषे पयसि आरोढुः साशङ्कम् समीरिते शीकरः अरुणमदस्रुती कपोलौ सम्मार्जन् मद इव सस्यन्दे।

विग्रहः— पीतस्य शेषे = पीतशेषे। अरुणे मदस्रुती ययोस्तौ = अरुणमदस्रुती। आशङ्कया सहितं = साशङ्कम्।

अर्थः— समवनतस्य = (जलपानार्थम्) आनतपूर्वकायस्य। करेणोः = हस्तिन्याः। करेण = शुण्डेन। पीतशेषे पयसि = पानशिष्टे जले। आरोढुः = हस्तिपकात्। साशङ्कम् = सभयम्। समीरिते = क्षिप्ते सति। शीकरः = अम्बुकणः। अरुणमदस्रुती = अरुणमदधारयुक्तौ। कपोलौ = गण्डस्थलौ। सम्मार्जन् = प्रमृजन्। मद इव = मदसदृशः। सस्यन्दे = सुस्राव। अत्रोपमाऽलङ्कारः।

कोषः— 'करेणुरिभायां स्त्री नेभे' इत्यमरः।

हिन्दी— आगे की ओर झुके हुए (जल पीते समय) हाथी ने सूंड से जल पीकर बचे हुए जल को महावत से डरकर अपने ऊपर उड़ेल लिया। उस जल के कण (बिन्दु) मद से अरुण बने हुए हाथी के दोनों गालों पर से मद के समान टपकने लगे॥ ३३॥

सप्तमः सर्गः११३

आघ्राय क्षणमतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिणां मदाम्बुसेकैर्नाचेमे हिममपि वारि वारणेन ॥३४॥

अन्वयः—अतितृष्यता अपि क्षणम् आघ्राय रोषाद् उत्तीरं निहितविवृत्तलोचनेन वारणेन हिमम् अपि वनकरिणां मदाम्बुसेकैः सम्पृक्तं वारि न आचेमे ।

विग्रहः—निहिते विवृत्ते लोचने यस्य तेन = निहितविवृत्तलोचनेन । वनस्य करिणस्तेषां = वनकरिणाम् । मदस्याऽम्बूनि, तेषां सेकैः = मदाम्बुसेकैः ।

अर्थः—अतितृष्यता अपि = अतितृषामतापि । क्षणम् = मुहूर्तम् । आघ्राय = घ्रात्वा । रोषात् = क्रोधात् । उत्तीरं = परतीरे । निहितविवृत्तलोचनेन = धृतघूर्णितनयनेन । वारणेन = गजेन । हिमम् = शीतम् । अपि । वनकरिणां = वनगजानाम् । मदाम्बुसेकैः = मदजलवारामिः । सम्पृक्तम् = संसिक्तम् । वारि = जलम् । न आचेमे = न पीतम् ।

कोषः—‘कुञ्जरो वारणः करी’ इत्यमरः ।

हिन्दी—उस सेना का कोई हाथी प्यास से अत्यन्त व्याकुल होकर भी वन-गजों के मद से मिश्रित जल को क्षण भर सूंघ कर गङ्गा नदी के दूसरे तट की ओर क्रोध से घूरने लगा । उसने शीतल होते हुए भी मद-सिक्त जल को नहीं पिया ॥ ३४ ॥

प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ३५ ॥

अन्वयः—क्रीडन्तः गजपतयः निम्नगायाः पयांसि प्रश्च्योतन्मदसुरभीणि कृत्वा किञ्जल्कव्यवहितताम्रदानलेखैः सरसिजगन्धिभिः कपोलैः उत्त्तेरुः ।

विग्रहः—गजानां पतयः = गजपतयः । प्रश्च्योतद्भिः मदैः सुरभीणि = प्रश्च्योतन्मदसुरभीणि । किञ्जल्कैः व्यवहिताः ताम्राः दानलेखाः येषु तैः = किञ्जल्कव्यवहितताम्रदानलेखैः । सरसि जातानि सरसिजानि तेषां गन्धिभिः = सरसिजगन्धिभिः ।

अर्थः—क्रीडन्तः = विहरन्तः । गजपतयः = मत्तकरिणः । निम्नगायाः = गङ्गायाः । पयांसि = जलानि । प्रश्च्योतन्मदसुरभीणि = क्षरन्मदगन्धीनि । कृत्वा = विधाय । किञ्जल्कव्यवहितताम्रदानलेखैः = केसरतिरोहितताम्रमदराजिभिः । सर-
८ कि०

११४किरातार्जुनीयम्

सिजगन्धिभिः = कमलसुरभिभिः । कपोलैः = गण्डस्थलैः । उत्तैरुः = निजग्मुः ।
अत्र परिवृत्तिरलङ्कारः ।
कोषः—'स्रवन्ती निम्नगाऽपगा' इत्यमरः ।
हिन्दी— ( कुञ्ज ) विहार करते हुए गजपति गङ्गा जी के जल को अपने टपकते हुए मदजल से सुगन्धित बनाते हुए जल से बाहर आ गये । केसर से मिटाई गई ( धूलि दुर्गन्ध ) श्रवण मदरेणुओं से युक्त, कमलगन्ध से उनके गाल सुरभित हो गये थे ॥ ३५ ॥


आकीर्णं वलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्कं माञ्जिष्ठं वसनमिवाम्बु निर्वभासे ॥ ३६ ॥

अन्वयः— घनारुणेन वलरजसा आकीर्णं सपदि प्रक्षोभैः तटेषु तरङ्गितम् मातङ्गोन्मथितसरोजरेणुपिङ्कम् अम्बु माञ्जिष्ठं वसनम् इव निर्बभासे ।

विग्रहः— घनेनारुणेन = घनारुणेन । बलस्य रजस्तेन = बलरजसा । मातङ्गोन्मथिताः सरोजरेणवः, तैः पिङ्कम् = मातङ्गोन्मथितसरोजरेणुपिङ्कम् । मञ्जिष्ठया रक्तम् = माञ्जिष्ठम् ।

अर्थः— घनारुणेन = सान्द्रलोहितेन । बलरजसा = सेनोद्भूतरजसा । आकीर्णम् = व्याप्तम् । सपदि = शीघ्रम् । प्रक्षोभैः = आलोडनैः । तटेषु = तीरेषु । तरङ्गितम् = संजाततरङ्गम्, तरङ्गवद्वा कृतम् । मातङ्गोन्मथितसरोजरेणुपिङ्कम् = गजमथितकमलकेसरपिशङ्कम् । अम्बु = जलम् । माञ्जिष्ठम् = महारजनेनारक्तम् । वसनम् इव = कौशेयवस्त्रमिव । निर्बभासे शुशुभे ।

कोषः— 'कौशेयं कृमिकोशोत्थम्' इत्यमरः ।

हिन्दी— घनी, अरुण वर्ण की सेना द्वारा उड़ाई गई धूल से गङ्गा का जल भर गया था । मतवाले हाथियों के द्वारा उड़ाए गये कमलपराग से अब वह पीत हो गया । इस प्रकार का पिशङ्गी वर्ण वाला गङ्गा-जल अरुणता से मिलने पर मंजिष्ठा ( मंजीठ ) रंग से रंगे वस्त्र के समान शोभित होने लगा ॥ ३६ ॥


श्रोमद्भिनियमितकन्धरापरान्तैः
संसक्तैरगुरुवनेषु साङ्गहारम् ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः
प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ ३७ ॥

सप्तमः सर्गः

सप्तमः सर्गः ११९

अन्वयः—श्रोमद्भिः नियमितकन्धरपरान्तैः अगुरुवनेषु साङ्गहारम् संसक्तैः निसृतमदाम्बुभिः गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा सम्प्रापे।

विग्रहः—नियमिताः कन्धराः अपरगन्ताश्च येषा तैः = नियमितकन्धरा-परान्तैः। अगुरुणा वनानि तेषु = अगुरुवनेषु। अंगहारेण सहितं साङ्गहारम्। निसृतानि मदाम्बूनि येषां ते = निसृतमदाम्बुभिः। गजानामिन्द्रैः = गजेन्द्रैः। प्रस्यन्दिनः, प्रचालिता ये गण्डशैलाः, तेषा शोभा = प्रस्यन्दिप्रचलितगण्ड-शैलशोभा।

अर्थः—श्रोमद्भिः = शोभायुक्तैः। नियमितकन्धरापरान्तैः = सम्बद्धकन्धरा-पश्चिमपादैः। अगुरुवनेषु = अगुरुद्रुमवनेषु। साङ्गहारम् = साङ्गविक्षेपम्। संसक्तैः = संलग्नैः। निसृतमदाम्बुभिः = सृष्टमदजलैः। गजेन्द्रैः = मदगजैः। प्रस्यन्दिप्रच-लितगण्डशैलशोभा = जलस्राविप्रचलितस्तोतलशोभा। सम्प्रापे = प्राप्ता। अत्र निदर्शनालङ्कारः।

कोषः—'अपरः पश्चिमः पादः' इति वैजयन्ती। 'गण्डशैलास्तु च्युताः स्थूलो-पला गिरेः।' इत्यमरः।

हिन्दी—सेना के वे मदवाले हाथी जिनके कन्धे और पिछले पैर जंजीर के द्वारा चन्दन-वृक्षों से बाँध दिये गये थे, छूटने के लिए प्रयत्न कर रहे थे। उनकी मदधारायें बह रही थीं। इस प्रकार वे हाथी किसी पर्वत से शिलायें टूटने पर बहते हुए झरनोंवाले पर्वत जैसे दिखलाई देते थे ॥ ३७ ॥

निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम्।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥३८॥

अन्वयः—गन्धवाहः निःशेषं प्रशमितरेणु मदजलम् स्रोतोभिः अजस्रम् उज्झताम् वारणाना व्यवहितभूरिपुष्पगन्धः भिन्नैलासुरभिम् आमोदम् उवाह।

विग्रहः—गन्धं वहतीति = गन्धवाहः। निर्गतः शेषोः यस्मात्, तत् = निः-शेषम्। प्रशमितो रेणुः येन तत् = प्रशमितरेणु। व्यवहितः भूरिः पुष्पगन्धः येन सः व्यवहितभूरिपुष्पगन्धः। भिन्ना एला तद्वत् सुरभिम् = भिन्नैलासुरभिम्।

अर्थः—गन्धवाहः = पवनः। निःशेषं = सम्पूर्णम्। प्रशमितरेणु = शान्तधूलि। मदजलम् = मदवारि। स्रोतोभिः = मदनाडीभिः। अजस्रम् = निरन्तरम्। उज्झताम्

११६ | किरातार्जुनीयम्

वर्षताम् । वारणानाम् = गजानाम् । व्यवहितभूरिपुष्पगन्धः = तिरस्कृतबहुलकुसुम- गन्धः । भिन्नैलासुरभिम् = फुल्लैलावत सुगन्धिम् । आमोदं = परिमलम् । उवाह = वहतिस्म ।

कोषः—'पृथ्वोका चन्द्रबालैला' इत्यमरः ।

**हिन्दी—**देवसेना के हाथी अपनी मदनाड़ियों से निरन्तर मदजल बहा रहे थे जिसके कारण सेना के द्वारा उड़ाई गई सम्पूर्ण धूलि बैठ गई । इस प्रकार हाथियों की मदगन्ध अनेक पुष्पों की गन्ध को भी तिरस्कृत कर रही थी । इलायची (फूली हुई) के समान गन्ध को गन्धवाही पवन बहा रहा था ॥ ३८ ॥

सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान् कच्छान्तानमरमहेभवृंहितानि ॥३९॥

**अन्वयः—**गम्भीरमेघघोषैः सादृश्यं दधति उन्निद्रक्षुभितमृगाधिपश्रुतानि अमरमहेभवृंहितानि कच्छान्तान् चकितचकोरनीलकण्ठान् आतेनुः ।

**विग्रहः—**गभीरैः मेघघोषैः = गभीरमेघघोषैः । उन्निद्राः क्षुभिताः ये मृगाधिपास्तैः श्रुतानि = उन्निद्रक्षुभितमृगाधिपश्रुतानि । महान्तः इभाः महेभाः । अमराणां महेभास्तेषां वृंहितानि = अमरमहेभवृंहितानि । चकिताश्चकोराः नीलकण्ठाश्च येषु तान् = चकितचकोरनीलकण्ठान् ।

**अर्थः—**गम्भीरमेघघोषैः = सान्द्रघनगर्जितैः । सादृश्यम् = साम्यम्, दधति = धारयन्ति । उन्निद्रक्षुभितमृगाधिपश्रुतानि = प्रबुद्धसंरब्धसिंहाकलितानि । अमरमहेभवृंहितानि = सुरगजगर्जितानि । कच्छान्तान् = अनूपप्रदेशान् । चकितचकोरनीलकण्ठान् = सम्भ्रान्तचकोरमयूरान् । आतेनुः = चक्रुः । अत्र भ्रान्तिमदलङ्कारः ।

कोषः—'जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः' इत्यमरः ।

**हिन्दी—**देवताओं के हाथियों की चिंघाड़े, जिन्हें जगकर और क्रुद्ध होकर सिंहों ने सुना, जो मेघों के गम्भीर गर्जन के समान थीं, उन चिंघाड़ों ने गङ्गा के कछारों में रहने वाले चकोरों और मयूरों को भी चकित कर दिया ॥ ३९ ॥

शाखावसक्तकमनीयपरिच्छदाना-
मध्वभ्रमातुरवधूजनसेवितानाम् ।

सप्तमः सर्गः ११७

जज्ञे निवेशनविभागपरिष्कृतानां
लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ ४० ॥

अन्वयः— शाखावसक्तकमनीयपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् निवेशनविभागपरिष्कृतानाम् वनपादपानाम् पुरोपवनजा लक्ष्मीः जज्ञे ।

विग्रहः— परिच्छिद्यते अनेनेति परिच्छदः । शाखासु अवसक्ताः कमनीयाः परिच्छदाः येषाम्, तेषाम्=शाखावसक्तकमनीयपरिच्छदानाम् । अध्वनि श्रमः=अध्वश्रमः, तेनातुरैः वधूजनैः सेवितानाम्=अध्वश्रमातुरवधूजनसेवितानाम् । निवेशनविभागैः परिष्कृतानाम्=निवेशनविभागपरिष्कृतानाम् । वनानां पादपास्तेषां=वनपादपानाम् । पुरे यद् उपवनं तत्र जाता = पुरोपवनजा ।

अर्थः— शाखावसक्तकमनीयपरिच्छदानाम् = लतावसक्तकमणीयपरिकराणाम् । अध्वश्रमातुरवधूजनसेवितानाम् = मार्गजनितश्रमपीडितदेवाङ्गनासेवितानाम् । निवेशनविभागपरिष्कृतानाम् = आवसतिकावच्छेदालङ्कृतानाम् । वनपादपानाम् = वनवृक्षाणाम् । पुरोपवनजा = पुरकृत्रिमवनजाता । लक्ष्मीः = शोभा ।- जज्ञे = जाता । अत्र निदर्शनालंकारो वसन्ततिलकावृत्तञ्च ॥ ४० ॥

कोषः— ‘विटपी पादपस्तरुः’ इत्यमरः ।

हिन्दी— वनवृक्षों की शाखाओं में सुराङ्गनाओं के सुन्दर-सुन्दर परिधान लटक रहे थे । मार्ग की थकावट से व्याकुल होकर वे उन्हीं वृक्षों के नीचे बैठ कर विश्राम कर रहीं थीं । देवताओं ने उन वृक्षों के नीचे की भूमि बैठने के लिए साफ कर ली थी । इस प्रकार वे वनवृक्ष नगर में बने हुए उद्यानों (पार्कों) के समान बड़े ही सुन्दर लग रहे थे ॥ ४० ॥

इति भारविकृतौ सुधाटीकासंवलिते किरातार्जुनीये सप्तमः सर्गः ।


—; ० :—

अष्टमः सर्गः

अथ स्वमायाकृतमन्दिरोज्ज्वलं
ज्वलन्मणि व्योमसदां सनातनम् ।
सुराङ्गना गोपतिचापगोपुरं
पुरं वनानां विजिहीर्षया जहुः ॥ १ ॥

अन्वयः—अथ सुराङ्गनाः स्वमायाकृतमन्दिरोज्ज्वल ज्वलन्मणि व्योमसदां सनातनं गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ।

विग्रहः—सुराणामङ्गनाः=सुराङ्गनाः । स्वमायया कृतैः मन्दिरैः उज्ज्वलम्=स्वमायाकृतमन्दिरोज्ज्वलम् । ज्वलन्तः मणयो यस्मिंस्तत् = ज्वलन्मणि । व्योम्नि सीदन्ति ते तेषाम्=व्योमसदाम् । गोः पतिः=गोपतिः, तस्य चापवद् वर्णानि गोपुराणि यस्य तत्=गोपतिचापगोपुरम् । विहर्तुमिच्छा विजिहीर्षा, तया=विजिहीर्षया ।

अर्थः—अथ = निवेशनान्तरम् । सुराङ्गनाः=देवाङ्गनाः । स्वमायाकृतमन्दिरोज्ज्वलम् = निजमायानिर्मितभवनदीप्तम् । ज्वलन्मणि = दीप्तन्मणि । व्योमसदाम् = गन्धर्वाणाम् । सनातनम् = सदातनम् । गोपतिचापगोपुरम् = इन्द्रधनुर्गोपुरम् । पुरम् = नगरम् । वनानां = काननानाम् । विजिहीर्षया = विहर्तुमिच्छया । जहुः = तत्यजुः । अत्र संसृष्टिरलङ्कारो वंशस्थवृत्तञ्च ।

कोषः—'पुरद्वारं तु गोपुरम्' इत्यमरः ।

हिन्दी—देवाङ्गनाओं ने अपनी माया द्वारा बनाये हुए उज्ज्वल भवनों वाले मणियों से प्रदीप्त, इन्द्रधनुष के समान सुन्दरवर्ण वाले तथा गन्धर्वों के सनातन नगर को वन में विहार करने की इच्छा से छोड़ दिया ॥ १ ॥

यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥ २ ॥

अन्वयः—यथायथं नभश्चरैः सहिताः प्रभाभिः उद्भासितशैलवीरुधः ताः वनजायतेक्षणाः वनं विशन्त्यः क्षणद्युतीनाम् एकरूपतां दधुः ।

अष्टमः सर्गः ११९

विग्रहः--नभसि चरन्तीति तैः=नभश्चरैः। उद्भासिताः शैलाः वीरुधश्च याभिस्ताः=उद्भासितशैलवीरुधः। वनजानीवायतानि ईक्षणानि यासां ताः=वनजायतेक्षणाः। एकरूपस्य भाव एकरूपता ताम्=एकरूपताम्।

अर्थः--यथायथं=यथास्वम्। नभश्चरैः=गन्धर्वैः मेघैश्च। सहिताः=युक्ताः। प्रभाभिः=दीप्तिभिः। उद्भासितशैलवीरुधः=भासितपर्वतवृक्षाः। ताः=पूर्वोक्ताः। वनजायतेक्षणाः=कमलायतलोचनाः। वनं=विपिनं। विशन्त्यः=प्रविशन्त्यः। क्षणद्योतीनाम्=विद्युताम्। एकरूपताम्=साम्यम्। दधुः=धारयामासुः।

कोषः—'यथास्वं तु यथायथम्' इत्यमरः।

हिन्दी--गन्धर्वों के सहित, अपनी कान्ति से पर्वतों और वृक्षों को उद्भासित करती हुई वे कमल सदृश विशाल नयनोंवाली अप्सराएँ वन में प्रविष्ट होती हुई बिल्कुल बिजली जैसी मालूम हो रही थीं ॥ २ ॥


निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः॥ ३॥

अन्वयः--निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः अवनौ परिक्रमः नितम्बिनीनां नभःप्रयाणात् भृशम् धृतिम् आदधे।

विग्रहः--निवृत्तः वृत्तयोरुपयोधरस्य क्लमः यस्मिन् सः=निवृत्तवृत्तोरुपयोधरक्लमः। निर्ह्लादीनि विभूषणानि=निर्ह्लादिविभूषणानि, तेषामारवः। प्रवृत्तः निर्ह्लादिविभूषणारवो यस्मिन् सः=प्रवृत्तनिर्ह्लादिविभूषणारवः।

अर्थः--निवृत्तवृत्तोरुपयोधरक्लमः = गतवर्तुलोरुस्तनश्रमः। प्रवृत्तनिर्ह्लादिविभूषणारवः = जातनिर्ह्लादिनूपुरादिध्वानः। अवनौ = भूमौ। परिक्रमः = सञ्चारः। नितम्बिनीनाम् = अप्सरसाम्। नभःप्रयाणात् = आकाशगमनात्। भृशम् = अधिकम्। धृतिम् = सन्तोषम्। आदधे = धृतवान्। अत्र काव्यलिङ्गमलङ्कारः।

कोषः—'अवनिर्मेदिनी मही' इत्यमरः।

हिन्दी--नितम्बिनी सुराङ्गनाओं को पृथिवी-परिभ्रमण आकाश-भ्रमण की अपेक्षा अधिक रुचिकर लगा। इस भूपरिक्रमण से उनके गोल जांघों और स्तनों की थकावट दूर हो गई। पहने हुए नूपुरादि आभूषणों से मधुर ध्वनि प्रकट हो रही थी ॥ ३ ॥

१२० किरातार्जुनीयम्

घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ४ ॥

**अन्वयः—**घनानि करप्रचेयानि कामं कुसुमानि बिभ्रतः शाखिनः अपहाय सुरसुन्दरीजनैः पुरः अभिसस्रे । हि कामिनः गुणेषु यथोत्तरेच्छाः ।

**विग्रहः—**करैः प्रचेयानि = करप्रचेयानि । सुराणां सुन्दरीजनास्तैः = सुरसुन्दरीजनैः । उत्तरमुत्तरमिच्छाः येषां ते = यथोत्तरेच्छाः ।

**अर्थः—**घनानि = सान्द्राणि । करप्रचेयानि = हस्तग्राह्याणि । कामम् = प्रचुरम् । कुसुमानि = पुष्पाणि । बिभ्रतः = धारयतः । शाखिनः = वृक्षान् । अपहाय = त्यक्त्वा । सुरसुन्दरीजनैः = अप्सरोभिः । पुरः = अग्रे । अभिसस्रे = अभिसृतम् । हि = यतः । कामिनः = कामातुराः । गुणेषु = अतिशयविषयेषु । यथोत्तरेच्छाः = उत्तरोत्तरमभिलाषिणः । भवन्तीति शेषः । अत्रार्थान्तरन्यासालङ्कारः ।

कोषः—'वृक्षो महीरुहः शाखी' इत्यमरः ।

**हिन्दी—**घने और हाथों से तोड़े जा सकनेवाले प्रचुर फूलों से लदे वृक्षों को छोड़कर सुरसुन्दरियाँ और आगे बढ़ने लगी । क्योंकि कामीजन विषयादि गुणों की उत्तरोत्तर इच्छा बढ़ाते रहते हैं अर्थात् विषयादि-सुखों में कभी उन्हें सन्तोष नहीं होता है ॥ ४ ॥

तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ ५ ॥

**अन्वयः—**विलेपनामोदहृताः वनालयः तनूः अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः विलासिनीबाहुलताः सिषेविरे ।

**विग्रहः—**विलेपनस्य आमोदाः, तैः हृताः = विलेपनामोदहृताः । वनानां अलयः = वनालयः । पाणयः एव पल्लवाः = पाणिपल्लवाः, अलक्तैः अरुणाः पाणिपल्लवाः यासां ताः = अलक्तारुणपाणिपल्लवाः । नखांशूनाम् उत्कराः = नखांशूत्कराः । स्फुरन्तः नखांशूत्कराः एव मञ्जर्यस्ताः बिभ्रतीति = स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीनां बाहव एव लतास्ताः = विलासिनीबाहुलताः ।

**अर्थः—**विलेपनामोदहृताः = लेपनहर्षाकृष्टाः । वनालयः = वनभ्रमराः । तनूः = कृशाः । अलक्तारुणपाणिपल्लवाः = लाक्षारसारक्तपाणिपल्लवाः । स्फुर

अष्टमः सर्गः १२१

अष्टमः सर्गः १२१

नखांशूत्करमञ्जरीभृतः = स्फुरन्नखकिरणपुञ्जमञ्जरीयुताः। विलासिनीबाहुलताः = सुरसुन्दरीभुजलताः। सिषेविरे = भेजिरे। अत्र रूपकालङ्कारः।

कोषः—'भुजबाहू प्रवेष्टो दोः' इत्यमरः।

हिन्दी—अङ्गरागादिलेपन की सुगन्ध पर आकृष्ट वनभ्रमरों ने पतली लाक्षारस से रंगे हुए हाथोंवाली सुरसुन्दरियों की भुजलाताओं का सेवन किया। उनके नाखूनों से निकलती हुई किरणें मञ्जरियों के समान ज्ञात होती थीं॥५॥

निपीयमानस्तवका शिलीमुखैरशोकयष्टिश्चलवालपल्लवा।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ६ ॥

अन्वयः—शिलीमुखैः निपीयमानस्तवका चलवालपल्लवा अमन्ददष्टोष्ठकरावधूननम् विडम्बयन्ती अशोकयष्टिः ददृशे।

विग्रहः—निपीयमानः स्तवकः यस्याः सा = निपीयमानस्तवका। चलाः बालपल्लवाः यस्याः सा = चलवालपल्लवा। अमन्दं दष्ट ओष्ठो यस्मिन्, तत्करावधूननम् = अमन्ददष्टोष्ठकरावधूननम्। अशोकस्य यष्टिः = अशोकयष्टिः।

अर्थः—शिलीमुखैः = भ्रमरैः। निपीयमानस्तवका = पीयमानगुच्छा। चलवालपल्लवा = चञ्चलनूतनदला। अमन्ददष्टोष्ठकरावधूननम् = दृढदष्टोष्ठकरकम्पनम्। विडम्बयन्ती = अनुकुर्वती। अशोकयष्टिः = अशोकशाखा। ददृशे = दृष्टा।

कोषः— 'अलिबाणौ शिलीमुखौ' इत्यमरः।

हिन्दी—भ्रमरों ने अशोकलता के पुष्पगुच्छों का मधुपान कर लिया था उसके नये निकले हुए पत्ते इस प्रकार हिल रहे थे जैसे तीक्ष्ण ओष्ठदंश (ओष्ठ में काटना) के कारण भौरों को उड़ाने के लिए हाथ अप्सराओं के हिल रहे हों। (यह दृश्य सुरसुन्दरियों के लिए बड़ा मनोरम था) ॥ ६ ॥

अथ कश्चिद् मधुपाक्रान्तां काञ्चिदाह—

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम्।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ७ ॥

अन्वयः—हे मानिनि ! नवपल्लवाकृती करौ धुनाना वृथा परिश्रमं मा कृथाः कल्पलताभिशङ्कया उपेयुषी षट्पदावलिः कथं नु इतः त्रस्यति।