भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 404, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 404

१४६ | किरातार्जुनीयम्

सुन्दर हाथ झकझोरने लगती थीं। उनका यह कौतुक सखियों तक को मनोरम लगता था, फिर प्रियजनों का तो कहना ही क्या ? ॥ ४५ ॥

भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितेर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ४६ ॥

अन्वयः— मानिनी अम्भसि झषाहते भयात् इव मुदा प्रियम् आश्लिष्य आनन्दयति स्म । रामाः अकृत्रिमप्रेमरसाहितैः कृतकैः अपि ईहितैः मनः हरन्ति ।

विग्रहः— अकृत्रिमो यः प्रेमरसस्तेनाहितैः = अकृत्रिमप्रेमरसाहितैः ।

अर्थः— मानिनी = मानं कुर्वती काचित् । अम्भसि = पयसि । झषाहते = मत्स्यताडिते । सति भयात् = भीतेः । इव । मुदा = मोदेन । प्रियम् = प्रियजनम् । आश्लिष्य = आलिङ्ग्य । आनन्दयतिस्म = मोदयतिस्म । रामाः = सुन्दर्यः । अकृत्रिमप्रेमरसाहितैः = अनारोपितप्रेमरसजनितैः । कृतकैः = कृत्रिमैः अपि । ईहितैः = चेष्टितैः । मनः = चित्तम् । हरन्ति = आकर्षन्ति । अत्रार्थान्तरन्यासालङ्कारः । कोषः—'पृथुरोमा झषो मत्स्यः इत्यमरः ।

हिन्दी— कोई मानिनी अप्सरा जल मे झष (मछली) से टकराते ही डरी हुई सी उत्सुकता से अपने प्रियतम से लिपट गई । इस प्रकार प्रियतम के आनन्द की सीमा न रही । रमणियां वास्तविक प्रेम होने पर बनावटी प्रेमचेष्टाओं द्वारा भी मन को मोह लेती हैं ॥ ४६ ॥

तिरोहितान्तानि नितान्तमाकुलैरपां विगाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ४७ ॥

अन्वयः— अपां विगाहात् नितान्तम् आकुलैः प्रसारिभिः अलकैः तिरोहितान्तानि वधूनां वदनानि द्विरेफवृन्दान्तरितैः सरोरुहैः तुल्यतां ययुः ।

विग्रहः— तिरोहिताः अन्ता येषां = तिरोहितान्तानि । द्विरेफाणां वृन्दानि द्विरेफवृन्दानि, तैः अन्तरितानि तैः = द्विरेफवृन्दान्तरितैः ।

अर्थः— अपां = जलानाम् । विगाहात् = निमज्जनात् । नितान्तम् = नितराम् । आकुलैः = व्याकुलैः । प्रसारिभि = आयतैः । अलकैः = केशैः । तिरोहितान्तानि = छन्नप्रान्तानि । वधूनां = देवाङ्गनानाम् । वदनानि = मुखानि । द्विरेफवृन्दान्तरितैः = भ्रमरवृन्दच्छन्नैः । सरोरुहैः = कमलैः । तुल्यताम् = समताम् । ययुः = प्रापुः । अत्रोपमालङ्कारः । कोषः—'आपः स्त्री भूम्नि वार्वारि' इत्यमरः ।