किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 511, कुल 707 में से
संदर्भ में पढ़ेंद्वादशः सर्गः २५३
तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः । रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १४ ॥
मल्लि०—तमिति । उदीरिता उद्गता अरुणाः जटानामंशवो यस्य । तमधिगुणमधिज्यं शरासनं यस्य । तमर्जुनम् । जनाः सिद्धगणाः । आसुरोरसुरसंबन्धिनीः पुरोः मिमन्थिषुं मथितुमिच्छुम् । मथेः सन्नन्तादुप्रत्ययः । तथा, अनुदितानुत्पन्ना ललाटे दृक् यस्य तं साक्षात्त्रिपुरविजयोद्यतमभालाक्षं रुद्रमिव ददृशुः । अत्राभालाक्षस्य रुद्रस्यासम्भवात्स्वतः सिद्धोपमानासिद्धेनैयमुपमा, किंतूत्प्रेक्षा । सा चाभालाक्षमप्युपमानादुपमेयस्य न्यूनत्वकथनादन्वयव्यतिरेकेणोच्छीवितेत्यनयोरङ्गाङ्गिभावेन संकरः । उपमां तु व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ १४ ॥
हिन्दी—जटाओंकी लाल किरणोंसे युक्त और धनुपर प्रत्यञ्चाको चढ़ाये हुए उन (अर्जुन) को सिद्धगणोंने असुरोंकी पुरियोंके मथनकी इच्छा करनेवाले ललाटमें अग्निरूप नेत्रसे रहित शिवजीके समान देखा ॥ १४ ॥
मरुतां पतिः स्विद्बहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते, न जनोऽयमित्यवयये स तापसैः ॥ १५ ॥
मल्लि०—मरुतामिति । मरुतां पतिः स्वित् देवेन्द्रो वा । अहिमांशुरुत सूर्यो वा । पृथुशिखो महाज्वालः शिखी पावको वा । असुकरं दुष्करं तपस्तप्तुमुपक्रमते । अयं जनः पुरुषः कश्चित्प्राकृतो न, इति सोऽर्जुनः । तापसैस्तपस्विभिः । 'अण् च' इति मत्वर्थीयोऽण्प्रत्ययः । अवययेऽवगतः । यातेरवपूर्वात्कर्मणि लिट् । अत्रेन्द्रादिकं धर्ममारोप्य जनत्वापवादात्साम्यमारोप्यापह्नुवालंकारः । सामान्यलक्षणं तु—'निषिद्धविषये साम्यारोपो हापह्नवः' इति ॥ १५ ॥
हिन्दी—ये क्या देवराज इन्द्र हैं, अथवा सूर्य हैं, या विशाल ज्वालाओंसे युक्त अग्निदेव दुष्कर तपस्या करनेके लिए उपक्रम कर रहे हैं, ये सामान्य पुरुष नहीं हैं, तपस्वियोंने उनको इस प्रकार गौर किया ॥ १५ ॥
न ददाह भूरुहवनानि हरितनयधाम दुर्गम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥ १६ ॥
मल्लि०—न ददाहेति । दुर्गम् । व्यापकमित्यर्थः । हरितनयस्य इन्द्रसुतस्यार्जुनस्य धाम तेजो भूरुहवनानि वृक्षषण्डान् न ददाह । अग्निवदिति भावः ।