किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 522, कुल 707 में से
संदर्भ में पढ़ें२६६ किरातार्जुनीयम्
हिन्दी—बाँसोंकी झाड़ियोंमें फँसे हुए प्रचुर प्रियरोमवाले पुच्छोंसे युक्त चमरी गायोंने किरातसेनासे प्रबल भयके उपस्थित होनेपर भी बालच्छेदके भयसे धैर्यधारण किया ॥ ४७ ॥
हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरे। स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भितमुखमृगाधिपैः ॥ ४८ ॥
मल्लि०— हरेति । प्रतिभयं भयहेतौ । 'भयङ्करं प्रतिभयम्' इत्यमरः। प्राप्तेऽपीति शेषः। गजमदैः सुगन्धयः सुरभयः केशराः सटा येषां तैः। दृप्तानक-गजैरित्यर्थः। सहसा सेनाकलकलश्रवणानन्तरमेव प्रतिबोधेन निद्रापगमेन जृम्भि-तानि व्यात्तानि मुखानि येषां तैः मृगाधिपैः सिंहैः स्वस्थं निःशङ्कमेव यथा तथा हरसैनिकाः अभिददृशिरे ईक्षिताः । न तु किञ्चित्क्षुभितमित्यर्थः । युक्तं चैतदवदा-तचारिणां केसरिणामिति भावः ॥ ४८ ॥
हिन्दी—भयका हेतु प्राप्त होनेपर भी हाथियोंके मदसे सुगन्धित अयालवाले सहसा सेनाओंका कोलाहल सुनकर जागनेसे जमुहाई लेते हुए सिंहोंने निःशङ्क ही होकर शिवगणोंको देख लिया ॥ ४८ ॥
बिभरांबभूवुरपवृत्तजठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ ४९ ॥
मल्लि०—बिभरामिति । अपवृत्तजठरैस्तत्कालक्षोभाल्लुठितोदरैः शफरीकुलै-राकुला व्याप्ताः पङ्कविषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः । सरितः करिभिः, पलायमानैरिति शेषः । रुग्णानां मार्गरोधितया भग्नानाम् । 'ओदितश्च' इति निष्ठानत्वम् । चन्दनानां रसेररुणं करिरुग्णचन्दनसारुणं पयो बिभरांबभूवुः। भृधातोः 'भीह्रीभृहुवां श्लुवच्च' इत्याम्प्रत्ययः श्लुवद्भावश्च । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः ॥ ४९ ॥
हिन्दी—उस समय उदरको लोटपोट करनेवाले मत्स्यविशेषके समूहसे व्याप्त, कीचड़से दुर्गम किये गये तटोंवाली नदियोंने भागते हुए हाथियोंसे तोड़े गये चन्दन-के रससे लाल जलको धारण किया ॥ ४९ ॥
महिषक्षतागुरुतमालनलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्नवौ वनसदां परिश्रमम् ॥ ५० ॥ मल्लि०— महिषेति । महिषैर्लुलायैः क्षतानि विदलितानि तैरगुरुभिस्तमालै-