किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 545, कुल 707 में से
संदर्भ में पढ़ेंत्रयोदशः सर्गः २८९
रुच्चारितानि सन्ति यं मानिनं व्रीडयन्ति । मानित्वाद् व्रीडा, न तु चरितदोषात् । तेषामलङ्काररूपत्वादिति भावः ॥ ४७ ॥
**हिन्दी—**विद्वान् लोग हमारे स्वामीके जिन चरित्रोंसे निरन्तर उत्कण्ठित होकर सुनते हुए सुखको प्राप्त करते हैं, वे चरित्र परिहासमें भी कीर्तन करनेपर अभिमानी पुरुषको लज्जित कर देते हैं ॥ ४७ ॥
अन्यदोषमिव स स्वकं गुणं ख्यापयेत् कथमघृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थितम् ॥ ४८ ॥
**मल्लि०—**अन्येति । अघृष्टता विकत्थनेन शालीनतया जडः स्तब्धः । अविकत्थन इत्यर्थः । सोऽस्मत्स्वामी । अन्यदोषं परावरगुणमिव स्वकं स्वकीयं गुणं कथं ख्यापयेत् प्रकटयेत् । ‘आत्मप्रशंसां परगर्हामिव वर्जयेत्’ इति स्मरणादिति भावः । तथापि कार्यवत्तया । कर्मार्थितयेत्यर्थः । सः स्वगुण उच्यते खलु । कर्मार्थिनः कुतो गर्व इति भावः । निर्विण्ण इवाह—धिगिति । विभिन्नबुधसेतुमतिक्रान्तसुजनमर्यादाम् । अर्थितां याचनां धिक् । निन्दामीत्यर्थः । यदयमपीत्थं विकत्थयितुं प्रवृत्त इति भावः । ‘धिङ् निर्भर्त्सननिन्दयोः’ इत्यमरः । ‘अभिसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते’ इति द्वितीया ॥ ४८ ॥
**हिन्दी—**आत्मप्रशंसा न कर नम्रतासे स्तब्ध हमारे स्वामी दूसरेके दोषके समान अपने गुणको कैसे प्रकट करेंगे ? तो भी कार्यका प्रयोजन होनेसे अपना गुण कहा जाता है । सज्जनकी मर्यादाका लङ्घन करनेवाली याचनाको धिक्कार है ॥ ४८ ॥
संप्रति स्वकृतोपकारं दर्शयति—
दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ तदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥ ४९ ॥
**मल्लि०—**दुर्वचमिति । वाहिनीपतिः सेनापतिरस्मत्स्वामी शितेन पत्रिणा शरेण । एनं मृगम् । आशु न प्रत्यपत्स्यत यदि नाभियुङ्क्तेति चेत्, असौ मृग ओजसा बलेन त्वयि विषये यदकरिष्यत् यदनिष्टं कुर्यात् तत्दुर्वचं दुर्वाच्यममङ्गलतया वक्तुं न शक्यते । तदनिष्टम्, अथानन्तरमपि मा स्म भूदिति सौहार्दकथनम् । तदुपेक्षणे स मृगस्त्वां हन्यादिति भावः । ‘लिङ्निमित्ते ऌङ् क्रियातिपत्तौ’ इति करोतेः पद्यतेश्च ऌङ् ॥ ४९ ॥
१९ कि०